विश्वास-प्रस्तुतिः
“अहं, मद्-रक्षण-भरो
मद्-रक्षण-फलं तथा ।
न मम श्री-पतेर् एवे"त्य्
आत्मानं निक्षिपेत् बुधः +++(गौण-कर्ता)+++॥ 1 ॥
मूलम्
अहं मद्रक्षणभरो मद्रक्षणफलं तथा ।
न मम श्रीपतेरेवेत्यात्मानं निक्षिपेत् बुधः ॥ 1 ॥
विश्वास-प्रस्तुतिः
न्यस्याम्य् अ-किञ्चनः श्रीमन्
अनुकूलो ऽन्य+++(→प्रातिकूल्य)+++-वर्जितः ।
विश्वास-प्रार्थना-पूर्वम्
आत्म-रक्षा-भरं त्वयि ॥ 2 ॥
मूलम्
न्यस्याम्यकिञ्चनः श्रीमन् अनुकूलोऽन्यवर्जितः ।
विश्वासप्रार्थनापूर्वम् आत्मरक्षाभरं त्वयि ॥ 2 ॥
विश्वास-प्रस्तुतिः
स्वामी स्व-शेषं स्व-वशं
स्व-भरत्वेन निर्भरम् ।
स्व-दत्त–स्व-धिया स्वार्थं
स्वस्मिन् न्यस्यति मां स्वयम् +++(प्रधान-कर्ता सन्)+++ ॥ 3 ॥
मूलम्
स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् ।
स्वदत्तस्वधिया स्वार्थं स्वस्मिन् न्यस्यति मां स्वयम् ॥ 3 ॥
विश्वास-प्रस्तुतिः
श्रीमन्न् अभीष्ट-वर-द
त्वाम् अस्मि शरणं गतः ।
एतद्-देहावसाने मां
त्वत्-पादं प्रापय स्वयम् ॥ 4 ॥
मूलम्
श्रीमन्नभीष्टवरद त्वामस्मि शरणं गतः ।
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥ 4 ॥
विश्वास-प्रस्तुतिः
त्वच्-छेषत्वे स्थिर-धियं
त्वत्-प्राप्त्येक-प्रयोजनम् ।
निषिद्ध-काम्य-रहितं
कुरु मां नित्य-किङ्करम् ॥ 5 ॥
मूलम्
त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येकप्रयोजनम् ।
निषिद्धकाम्यरहितं कुरु मां नित्यकिङ्करम् ॥ 5 ॥
विश्वास-प्रस्तुतिः
देवी-भूषण-हेत्यादि-
जुष्टस्य भगवंस् तव ।
नित्यं निर्-अपराधेषु
कैङ्कर्येषु नियुङ्क्ष्व माम् ॥ 6 ॥
मूलम्
देवीभूषणहेत्यादिजुष्टस्य भगवंस्तव ।
नित्यं निरपराधेषु कैङ्कर्येषु नियुङ्क्ष्व माम् ॥ 6 ॥
विश्वास-प्रस्तुतिः
मां मदीयं च निखिलं
चेतनाचेतनात्मकम् ।
स्व-कैङ्कर्योपकरणं
वरद स्वीकुरु स्वयम् ॥ 7 ॥
मूलम्
मां मदीयं च निखिलं चेतनाचेतनात्मकम् ।
स्वकैङ्कर्योपकरणं वरद स्वीकुरु स्वयम् ॥ 7 ॥
विश्वास-प्रस्तुतिः
त्वद्-एक-रक्ष्यस्य मम
त्वम् एव करुणाकर ।
न प्रवर्तय पापानि
प्रवृत्तानि निवर्तय ॥ 8 ॥+++(5)+++
मूलम्
त्वदेकरक्ष्यस्य मम त्वमेव करुणाकर ।
न प्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥ 8 ॥
विश्वास-प्रस्तुतिः
अ-कृत्यानां च करणं
कृत्यानां वर्जनं च मे ।
क्षमस्व निखिलं देव
प्रणतार्तिहर प्रभो ॥ 9 ॥
मूलम्
अकृत्यानां च करणं कृत्यानां वर्जनं च मे ।
क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥ 9 ॥
विश्वास-प्रस्तुतिः
श्रीमान् नियत-पञ्चाङ्गं
मद्-रक्षण-भरार्पणम् ।
अचीकरत् स्वयं स्वस्मिन्
अतोऽहम् इह निर्भरः ॥ 10 ॥
मूलम्
श्रीमान् नियतपञ्चाङ्गं मद्रक्षणभरार्पणम् ।
अचीकरत् स्वयं स्वस्मिन् अतोऽहमिह निर्भरः ॥ 10 ॥