नित्ये काम्ये च धर्मे नियमगुणविधिप्राप्तमार्गे निजानाम्
आज्ञानुज्ञाक्रमे तद्विहरणमुपधीकृत्य गोपायते यः ।
तस्मिन् कस्मिंश्चिदाद्ये हरिदिनतुलसीद्वादशीभिः प्रसाद्ये
भद्राणामेकसेतौ भवतु भगवति श्रीसखे भावना नः ॥1॥ 1
त्रेधाधिक्यादिभेदाद्भवति तु नवधा तादृशी द्वादशीतः
शुद्धा विद्धेति चाष्टादशतनुरुदिता सद्भिरेकादशी सा ।
आद्यायामुत्तरत्र व्रतविधिरुभयोः स्याद्व्यवस्थाऽथ षट्सु
प्राच्यां द्वन्द्वे सतुर्ये परमिह नियतिः सा त्रिकेऽन्त्यत्रिके प्राक् ॥2॥ 2
द्वादश्युक्ता सुधात्मा विषमिति दशमी द्विस्पृगेकादशी सा
ग्राह्याधिक्ये सुधाया इति जगदुरिमामाहुरेके सकामे ।
वृद्धद्वादश्यभावे त्वियमिति च कला द्वन्द्वमेकापि वृद्धिः
सन्दिग्धे तूत्तरस्यां व्रतमुपवसनं पारणोक्ता परस्याम् ॥3॥ 3
उक्ता नाड्यश्चतस्रस्त्वरुणसमुदयस्तत्र वेधे दशम्यां
कर्तव्यो नोपवासः फलमिह हि वरं मोहिनी पर्यगृह्णात् ।
वेधः पश्चाद्यदा स्यात्सवितुरुदयतस्तत्फलं दानवानां
प्रोक्ताश्च प्रत्यवाया बहव इह तथाप्यादृता क्वापि विद्धा ॥4॥ 4
पौराणिक्या तु रुक्माङ्गदचरितमुखैः प्राप्तगत्या पदव्या
शुद्धां सिद्धान्तयन्तः कतिचन कृतिनः सर्वथोज्झन्ति विद्धाम् ।
युक्तं तन्मास्म भूद्वा मुनिभिरभिहिता द्वादशी च व्रतार्हा
रक्षेत्तेनापि मुख्य स्वदिवस विधिनाऽनन्यभक्तान् हरिस्तान् ॥5॥ 5
शुक्लायां तूपवासस्तदितरविषये केवला स्यादभुक्तिः
कर्तव्येत्येवमाहुः कतिचन गृहिणां पुत्रिणां नित्यमात्रम् ।
एतद्विष्णुव्रतस्थेतरविषयमिति प्रोचुरन्ये स्फुटोक्तेः
द्विस्पृक्चेद्द्वादशी स्यादनुपवसनतः क्वापि नक्तं त्विहोक्तम् ॥6॥ 6
एकादश्यामभुक्तिस्मृतिरपि विविधैः सन्नियम्येत वाक्यैः
विद्धायास्त्याज्यतोक्तेः क्वचिदनुमतितः क्वापि विद्धापवादात् ।
वैधी त्वेकादशी स्यादिति जहदजहल्लक्षणातो व्रतार्हा
चातुर्मास्यादिभेदे पुनरपि विधयो गौरवव्यञ्जनार्थाः ॥7॥ 7
पत्न्या सिद्धेऽथ वारप्रभृतिषु वचनैर्येषु येषूपवासः
तत्राप्येकादशी चेद्व्रतमिदमनघं प्रक्रमोक्तं न शेषे ।
अष्टाङ्गेज्यावतामप्युपवसनदिने लुप्तमन्त्यं निषेधात्
नैवं प्राणाग्निहोत्रं प्रथममुपगतेऽप्येवमन्ते प्रयोज्यम् ॥8॥ 8
सिद्ध्यन्त्यश्नन्त एवेत्यपि यदनुवदन्त्याहिताग्न्यादिवर्गे
तत्तु स्याद्ग्राससंख्यानियतिविहतये न व्रतत्यागहेतुः ।
भुक्तेऽपि स्यान्न दोषः क्वचिदपि विषये बालवृद्धातुरादौ
शक्यैश्चिन्ताजपाद्यैः प्रभुरनघदयस्तैरपि प्रीणनीयः ॥9॥ 9
सूतौ शावे च कार्यो विधिबलनियतस्नानपूर्वोपवासो
नार्चादिस्तत्र नित्ये शुचिभिरथ परैः कारयेत्काम्यरूपे ।
शावाद्यन्ते तु कुर्याच्छकनसमुचितं स्नानपूर्वं प्रदानं
मध्ये चेद्दर्शपूर्णश्रुतिमुखविधिवत्कारयेद्वाथ कुर्यात् ॥10॥ 10
अप्रक्रान्ते विधेयव्रतयजनमुखस्थानसर्वप्रकारे
स्यात्प्रक्रान्तस्य नाशप्रभृति हि भगवान् कर्मयोगे न्यषेधीत् ।
भङ्गे चास्य व्रतस्य त्रिदिनमुपवसेत्कारयेन्मुण्डनं वा
मौण्ड्यं चैतच्छिखावर्जितमिदमखिलं निष्कृतिस्तत्र तु स्यात् ॥11॥ 11
तन्त्रं तत्रोपवासान्तरपरिपतने काम्यतो वान्यतो वा
तद्वत्प्राणाग्निहोत्रं प्रतिदिननियतं तन्त्रितं पारणादौ ।
कालाल्पत्वे तदर्चा भवति लघुतरा नित्यकर्माणि चैवं
तत्तत्काले विदध्यात्स्वसमयनियतं कारयेद्वा यथार्हम् ॥12॥ 12
नानर्हैर्भाषणीयं स(श?)मयति सुकृतं मन्त्रपूर्वैस्तथा च
प्राश्नीयात्पारणादौ मुनिदळतुलसीपत्रधात्रीफलानि ।
शक्तौ जागर्तु रात्रावपि हरिचरणध्यानसङ्कीर्तनाद्यैः
प्रारम्भे पारणे च स्मृतमिह मुनिभिर्मन्त्रपुष्पार्पणादि ॥13॥ 13
कांस्यं मांसं मसूरं चणकमधुपुरी काळशाकादिवर्गान्
अन्यान्नं कोद्रवादीन्यतिघृतमपि चात्यष्टिमुज्झेद्दशम्याम् ।
ताम्बूलं दन्तकाष्ठं निधुवनमसकृद्वारिपानादि जह्यात्
एकादश्यां दिवा च स्वपनमशकनाद्याश्रया भीमनीतिः ॥14॥ 14
द्वादश्यां द्वादशोज्झेद्द्विवदनमनृतं मैथुनं मांसतैल-
द्यूतव्यायामहिंसास्वपनमपि दिवा कांस्यभुक्तिं क्रुधं च ।
निर्माल्योल्लङ्घनं च व्रतहतिगमकं स्यान्निषेधे निषेकं
कालाप्राप्तौ प्रवृत्ते व्रतमिदमविदुर्नित्यकाम्यप्रकारम् ॥15॥ 15
किञ्चोक्तं मद्यपानान्निपतति नरके तस्य पातैव शक्तस्-
त्वेकादश्यन्नकामस्सह निजपितृभिर्नारके मज्जतीति ।
वाराहश्वादिविट्प्राशनजनितमघं प्राहुरत्रान्नभोक्तुः
भुक्तिस्तत्राश्नतश्च स्मृतमिह हि महापाप्मनामास्पदं तत् ॥16॥ 16
आतिष्ठेताभियुक्तस्मृतिषु विधिबलाच्छ्राद्धमन्यन्निषिद्धं
प्राक्सामान्यापवादादृतुगतिनियतिस्सन्ततिस्थापनार्था ।
एकैकात्यंभ्या(?) त्विह तु नृषु चतुर्भुक्तिवर्जं त्विहोक्तं
श्रेयस्सिद्ध्यै स्वतः श्रीहरिदिनतिलकं शेषभूभृत्प्रसादात् ॥17॥ 17