विश्वास-प्रस्तुतिः
स्व्-आचान्तस् सूर्ध्वपुण्ड्रः प्रणमनम् अजिनाद्य्-आसनं स+असु-यामस्
साङ्ग-न्यासो जपस् स्याद्, +धृदयकमलके मानसी देव-पूजा ।
वाम-स्थं वारि-पात्रं, कुसुमम् इतरतश् चान्यद् अग्रे ऽर्घ्य-पाद्य-
स्नानीयाचाम-पूर्वाद् +हरि-तनु–कुसुम-स्वात्मनां प्रोक्षणं स्यात् ॥ १ ॥
मूलम्
स्वाचान्तस्सूर्ध्वपुण्ड्रः प्रणमनमजिनाद्यासनं सासुयाम-
स्साङ्गन्यासो जपस्स्याद्धृदयकमलके मानसी देवपूजा ।
वामस्थं वारिपात्रं कुसुममितरतश्चान्यदग्रेऽर्घ्यपाद्य-
स्नानीयाचामपूर्वाद्धरितनुकुसुमस्वात्मनां प्रोक्षणं स्यात् ॥ १ ॥
विश्वास-प्रस्तुतिः
आह्वानं चासनार्घ्यं पद-सलिलम् अथाचाम–पुं-सूक्त-युक्त-
स्नानं वस्त्रोपवीते, मलय-ज+++(=चन्दन)+++–कुसुमे धूप-दीपौ क्रमेण ।
मध्व्-आदिः पर्क आदाव्, उपरि च सलिलं पायसाद्य्-अन्न-जातं
पानीयाचाम-पूगं परिगति-नमनोद्वासनं देव-पूजा ॥ २ ॥
मूलम्
आह्वानं चासनार्घ्यं पदसलिलमथाचामपुंसूक्तयुक्त-
स्नानं वस्त्रोपवीते मलयजकुसुमे धूपदीपौ क्रमेण ।
मध्वादिः पर्क आदावुपरि च सलिलं पायसाद्यन्नजातं
पानीयाचामपूगं परिगतिनमनोद्वासनं देवपूजा ॥ २ ॥
विश्वास-प्रस्तुतिः
कूर्मादीन् दिव्यलोकान् तद्-अनु मणि-मयं मण्डपं तत्र शेषं
तस्मिन् धर्मादि-पीठं तद्-उपरि कमलं चामर-ग्राहिणीश् च ।
विष्णुं देवीर् विभूषाऽऽयुध-गणम् उरगं पादुके वैनतेयं
सेनेशान् द्वार-पालान् कुमुद-मुख-गणान् विष्णु-भक्तान् प्रपद्ये ॥ ३ ॥
मूलम्
कूर्मादीन् दिव्यलोकान्तदनु मणिमयं मण्डपं तत्र शेषं
तस्मिन् धर्मादिपीठं तदुपरि कमलं चामरग्राहिणीश्च ।
विष्णुं देवीर्विभूषायुधगणमुरगं पादुके वैनतेयं
सेनेशान्द्वांरपालान्कुमुदमुखगणान्विष्णुभक्तान्प्रपद्ये ॥ ३ ॥