०७ योगान्तम्

सन्ध्या-वन्दनम्

दक्षः –

इतिहास-पुराणाभ्यां
षष्टं सप्तमम् अभ्यसेत्।
अष्टमे लोक-यात्रां तु
विचार्य च गृही ततः॥
बहिस् सन्ध्याम् उपासीत
नदी-तट-गतश् शुचिः॥

लोक-यात्रा - बन्धु-जन-कार्यम्, देश-वार्ता, आत्म-गृह-क्षेत्रादि-चिन्ता चोच्यते।

सन्ध्या - अत्र विज्ञानेश्वरः –

यस्मिन् काले रवि-मण्डलस्योपलब्धिस् सन्धिः,
आहो-रात्रयोस् सन्धौ या क्रिया विधीयते सा सन्ध्या

इति।

शातातपः –

अन्-ऋतं मद्य-गन्धञ् च
दिवास्वापञ् च मैथुनम्।
पुनाति वृषलस्यान्नं
बहिस् सन्ध्या ह्य् उपासिता

बहिः - ग्रामाद् बहिः।
व्यासः –

सूर्ये ऽस्त-शिखरं प्राप्ते
पाद-शौच-क्रियान्वितः।
बहिस् सन्ध्याम् उपासीत
कुश-पाणिस् समाहितः
विना दर्भैश् च यत् कर्म
विना यज्ञोपवीततः।
राक्षसं तद् भवेत् सर्वं
नामुत्रेह फल-प्रदम्॥
बहिस् सन्ध्या दश-गुणा
गर्त-प्रस्रवणादिषु।
पुण्य-तीर्थे शत-गुणा
सहस्रं जाह्नवी-जले॥

तस्माद् ग्रामाद् बहिर् गत्वा
प्रातस् सन्ध्यावद् आवश्यकादि कृत्वा
दन्त-धावन-वर्जं सायं सन्ध्याम् उपासीत।

अत्र जल-प्राशने आवाहने जपे उपस्थाने च विशेषो वक्ष्यते।

सङ्ग्रहे –

उत्थायैव त्रि-सन्ध्यासु दद्याद् अर्घ्यं विवस्वते।
कृत्वा प्रदक्षिणं सिक्त्वा जलं नत्वा दिवा-करम्॥

व्यासः –

कराभ्यां तोयम् आदाय गायत्र्याचाभिमन्त्रितम्।
आदित्याभिमुखस् तिष्ठन् त्रिर् ऊर्ध्वं सन्ध्ययोः क्षिपेत्॥
द्वौ पादौ समतस् स्थित्वा कराभ्यां पूरयेज् जलम्।
गो-शृङ्ग-मात्रम् उद्धृत्य जल-मध्ये जलं क्षिपेत्॥

वृद्ध-मनुः -

प्रक्षाल्य पादाव् आचामेत् स्नात्वा भोजनम् आचरेत्।
स्थित्वा ऽर्घ्यं भानवे दद्यात् ध्यात्वा देवं मनुं जपेत्॥

हारीतः –

तिष्ठन् पदौ समौ कृत्वा जलेनाञ्जलि-पूरणम्।
गो-शृङ्ग-मात्रम् उद्धृत्य रविं दृष्ट्वा जलाञ्जलिम्॥

[[309]]

बोधायनः –

रवेर् अभिमुखस् तिष्ठन् प्रणव-व्याहृति-पूर्वया।
गायत्र्या चाभिमन्त्र्याम्भः त्रिः क्षिपेत् द्विज-सत्तमः॥

भरद्वाजः –

मार्जयित्वा ऽथ दत्वा ऽर्घ्यम् ऊर्ध्वं त्रिस् सन्ध्ययोस् स्थितः॥

इत्य् आदिभिस् स्थिति-विधानात् सायं सन्ध्यायाम् अपि स्थित एवार्घ्यं दद्यात्। यत् तु

सन्ध्ययोश् च बहिर् ग्रामाद् आसनम्

इत्यादिभिर् आसन-विधायक-वचनं गायत्री-जप-विषयम्।

रवेर् अभिमुखस् तिष्ठन् ऊर्ध्वं त्रिस् सन्ध्ययोस् क्षिपेत्

इत्य् आदि-बहु-स्मृतिभिर् अर्घ्य-दाने सन्ध्ययोस् स्तिति-विधानाद् अविगीत-शिष्टाचाराच् च। “ईषत् प्रह्वः” इत्य् आदि-वचनं चानादरणीयम्,

भूयसां स्याद् बलीयस्त्वम्॥ द्वेधे बहूनां वचनम्

इति सन्ध्ययोस् स्थिति-विधायक-बहु-वचनानां प्राबल्यात्; व्यासः –

आसीनस् तु जपेद् देवीं गायत्रीं पश्चिमां प्रति॥

शातातपः –

पूर्वां सन्ध्यां जपंस् तिष्ठन्
नैशम् एनो व्यपोहति
पश्चिमां तु समासीनो
मलं हन्ति दिवा-कृतम्॥

सङ्कल्पान्तम्

पाणी-पादौ प्रक्षाल्य, आचम्य, धौतं परिधाय
मन्त्र-स्नानं कृत्वा
प्राङ्-मुख–उदङ्-मुखो वा शुचौ देशे निषण्णस्
“सायं सन्ध्याम् उपासिष्य” इति सङ्कल्प्य ऋष्य्-आदि-स्मरण-पूर्वकम्

प्राशनम्

आपोहिष्ठादिभिर् मार्जयित्वा “ऽग्निश् च” इत्य् अपः पिबेत्।

अग्निश् च इत्य् अनुवाकस्य सूर्य ऋषि गायत्री छन्दः अग्निर् देवता अपां प्राशने

विनियोगः॥

विश्वास-प्रस्तुतिः

अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः।
पापेभ्यो॑ रक्ष॒न्ताम् ।

यद् अह्ना पाप॑म् अका॒र्षम् ।
मनसा वाचा॑ हस्ता॒भ्याम् ।
पद्भ्याम् उदरे॑ण शि॒श्ना ।
अह॒स् तद् अ॑वलु॒म्पतु ।

यत्किञ् च॑ दुरि॒तं मयि॑ ।
इदम् अहं माम् अमृ॑त-यो॒नौ ।
सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।

मूलम्

अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः।
पापेभ्यो॑ रक्ष॒न्ताम् ।

यद् अह्ना पाप॑म् अका॒र्षम् ।
मनसा वाचा॑ हस्ता॒भ्याम् ।
पद्भ्याम् उदरे॑ण शि॒श्ना ।
अह॒स् तद् अ॑वलु॒म्पतु ।

यत्किञ् च॑ दुरि॒तं मयि॑ ।
इदम् अहं माम् अमृ॑त-यो॒नौ ।
सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।

इत्य् अपः प्राश्य,

[[310]]

अग्निश् चेत्य् अनुवाकस्य व्याख्या – अग्रं नयतीत्य् अग्निर् इति व्युत्पत्त्या ऽग्निः परमात्मा, अहश् शब्दश् तद्-वाचकः, “अहस् संवत्सरो व्याल” इति तन्-नामसु पठितत्वात्; सत्य-शब्दश् च तद्-वाचकः,

सत्यं ज्ञानम् अन्-अन्तं ब्रह्म।
सत्यञ् चानृतञ् च सत्यम् अभवत्"

इत्यादिभ्यः।
अन्यत् सर्वं पूर्ववत्।

सरस्वती-ध्यानम्

षड्-अङ्ग-न्यासानन्तरं ध्यानम् -

सायं सरस्वतीं वन्दे कृष्ण-पद्मासने स्थिताम्।
कृष्णाम्बरां कृष्ण-वर्णां कृष्ण-माल्यानुलेपनाम्॥
वृद्धां श्री-विष्णु-दैवत्याम् एक-वक्त्रां चतुर्-भुजम्।
उदाहरन्तीं सामानि द्वि-नेत्रां तार्क्ष्य-वाहिनीम्॥
कमण्डलुं पाञ्चजन्यं पवित्रं चाक्ष-मालिकाम्।
बिभ्रतीं ब्रह्म-कवचं चतुर्-विंशतिकाक्षराम्॥
अग्नि-मुखिं रुद्र-शिखां श्री-विष्णु-हृदयां शुभाम्।
मकार-मूर्तिकां देवीं सर्वाभरण-भूषिताम्॥

अन्यत् सर्वं पूर्ववत् कुर्यात्।

वरुण-वन्दनम्

इमं मे वरुणेत्य्-आदेश् शुनश्-शेफ ऋषिः
गायत्री-छन्दः
वरुणो देवता
उपस्थाने विनियोगः।

इमं᳓ मे वरुण श्रुधी +++(=श्रुणु)+++
ह᳓वम्+++(=आह्वानम्)+++ अद्या᳓ च मृळय +++(=सुखय)+++।
त्वा᳓म् अवस्यु᳓र् आ᳓ चके +++(=अवदन्)+++॥

त᳓त् त्वा यामि ब्र᳓ह्मणा व᳓न्दमानस्
त᳓द् आ᳓ शास्ते य᳓जमानो हवि᳓र्भिः ।
अ᳓हेळमानो +++(=अक्रुध्यन्)+++ वरुणेह᳓ बोध्य् उ᳓रुशंस
मा᳓ न आ᳓युः प्र᳓ मोषीः

य᳓च् चिद्+धि᳓ ते वि᳓शो यथा+++(=विश इव)+++,
प्र᳓ देव वरुण व्रत᳓म् ।
मिनीम᳓सि+++(=तर्कयामः)+++ द्य᳓वि-द्यवि+++(=दिने दिने)+++ ।

य᳓त् किं᳓ चेदं᳓ वरुण दै᳓व्ये+++(←देव+यञ्)+++ ज᳓ने+++(देवेषु)+++,
ऽभिद्रोहं᳓ मनुष्या᳙श् च᳓रामसि।
अ᳓चित्ती य᳓त् त᳓व ध᳓र्मा युयोपिम᳓+++(विनाशयामः)+++,
मा᳓ नस् त᳓स्माद् ए᳓नसो देव रीरिषः ॥

+++(ऋत्विजः)+++ कितवा᳓सो य᳓द् रिरिपु᳓र्+++(=लिलिपुः)+++ न᳓ दीवि᳓+++(देवकर्मणि)+++,
य᳓द् वा ऽघा सत्य᳓म् उत᳓ य᳓न् न᳓ विद्म᳓ ।
स᳓र्वा ता᳓ वि᳓ष्य+++(=विनाशय)+++ शिथिरे᳓व+++(=शिथिला +इव)+++
देवा᳓था ते स्याम वरुण प्रिया᳓सः ॥

[[311]]

इमं मेति व्याख्या -
हे वरुण - परमात्मन्, “वरुणो वारुणो वृक्ष” इति तन्-नाम पाठाद् वरुणः परमात्मा, वृणोतीति वरुण आवरणम् - चेतनाचेतनात्मकस्य प्रपञ्चस्य आवरण-भूत इत्य् अर्थः यद् वा सर्वत्र वसति पातकौघान् रुणद्धि सम्पदौघान् ददातीति वा वरुणः, इमं - प्रार्थना-रूपं, हव - माह्वानं - श्रुधि - शृणु, अद्याचमृडय -अद्या च - इदानीम् एव मां सुखिनं कुरु, त्वामवस्युराचके - अवस्युः - अवनं - रक्षणं,आत्मनो रक्षणम् इच्छन्, आचके त्वां - अभिमुख्येन प्रार्थयामि, तृप्तिं याच इति वा। “चकतृप्तावि"ति धातोर् लट्, त्वम् अर्थितार्थ-प्रदान-चतुर इति प्रसिद्धः खलु। तत्वायामि ब्रह्मणा वन्दमानः - तस्मात्, त्वा, ब्रह्मणा - वेदेन, प्रणवेन वा, वन्दमानः - स्तुव, यामि - शरणं प्रपद्ये, लोके शरणागत-मनो-रथ-साफल्य-करणं शरण्यस्य वैधो धर्म इति कपोत-वानरादि-वृत्तान्तेषु सुप्रसिद्धम्। सर्वज्ञस्य सर्व-शक्तेर् अ-पार-कारुण्य-सौशील्यादि-जल-धेः किं वक्तव्यम् इति भावः।

तदाशास्ते यजमानो हविर्भिः - यतो भगवद्-आश्रयणं फलाविना-भूतं तत् - तस्माद् एव हेतोर्, यजमानः - पुरोडाशादिभिर् हविर्भिः, त्वाम् एव यजन् आशास्ते - स्वाभिलाष-सिद्धिं प्रार्थयते, यद् वा - मुमुक्षोः प्रथम-पर्व–भूत-कर्म–योग-निष्ठस्य फलाविनाभावे सति किमु वक्तव्यं शरणागतस्य सर्वात्मना न्यस्त-भरस्येति- कैमुतिक-न्यायेन तद्-आशास्त इत्य् अत्र तच्-छब्देन पूर्वोक्त-सुख-रूप-फलम् उच्यते।

अहेडमानेूवरुणेहबोधि - हे वरुण! अहेडमानः - अ-क्रुध्यन्, इहास्मिन् लोके, मम याचनां, बोधि - बुध्यस्व, अन्-आदि-कालोपचिताकृत्य-करण-कृत्याकरणादिकम् अन्-अन्तम् अपराध-जातं अद्य मय्य् आलोच्य न क्षमामि क्षिपामीति कोपो न कार्यः, त्वद्-विषय-शरणागत्य्-उक्ति-मात्रे कृते त्वया सर्वस्यापि क्षन्तव्यत्वात्; न हि त्वत्-प्रसाद-कोप-व्यतिरेकेण पुण्य-पापात्मकं किञ्चिद् वस्तूपलभ्यते। उरुशँ समान आयुः प्रमोषीः - उरुशँस - (सर्वैस् स्तूयमान-शरणागत-वत्सल) महा-कीर्ते, ’रिपूणाम् अपि वत्सल’ इति

[[312]]