१४ पूजा न त्याज्या

एवम् अन्येष्व् अपि सङ्क्रान्त्य्-आदिष्व्
अ-विशेषेण भगवद्-आराधनं कर्तव्यम्;
तथा पराशर-धर्म-शास्त्रे उत्तर-खण्डे विंशे ऽध्याये –

सङ्क्रान्त्यां ग्रहणे चैव
व्यतीपाते च वैधृतौ।
श्रवणे जन्म-नक्षत्रे
वैष्णवे गृहम् आगते
गुरोर् जन्म-र्क्ष-दिवसे
माता-पित्रोर् मृते ऽहनि।
अमायां पौर्णमास्याञ् च
मन्व्-आदिषु युगादीषु॥
एतेषु पूजा कर्तव्या
यथा-शक्त्य्-अनुसारतः॥

इति