१३ अमावास्या-निर्णयः

काल-प्रकाशिकायाम् –

अतः परम् अमावास्या निर्णयः कथ्यते मया।
अमावास्या द्विधा शुद्धा भूत-विद्धा च सा पुनः॥
चतुर्था प्रतिपद्य् एव भूत एवापराह्णिके।
तथा विधोभयत्र स्याद् उभयत्र तथा-विधा॥
शुद्धा निस्संशया विद्धा प्रथमा पर-कालिकी।
द्वितीया तु भवेत् पूर्वा तृतीया तु तिथेः क्षये॥
साग्न्य्–अन्-अग्नि–स्त्री-शूद्राणां पौर्वापर्याद् व्यवस्थिता।
वृद्धौ परैव सर्वेषां सैवं साम्ये ऽपि सम्मता॥
चतुर्था ऽपि परा ग्राह्या यत् सा कु-तप-कालिकी।
प्रत्याब्दिकेप्य् एवम् एव तिथिर् ग्राह्या ऽपराह्णिके॥
उभयत्र तथात्वे तु महत्त्वेन विनिर्णयः।
समत्वे पूर्व-विध्यैव ह्य् अतथात्वे ऽपि सा यदि॥
त्रि-मुहूर्ता भवेत् सायं सर्वेष्टो ऽयं विनिर्णयः॥

[[299]]