आत्रिः –
इषे वा ऽप्य् अथ और्जे वा मास्याग्रयण-देवताः।
इष्ट्वैव नव-धान्येन दैवं पित्र्यं समाचरेत्॥
मार्कण्डेयः –
शरत्-काले तु सम्प्राप्ते ऽनिष्ट्वाग्रायण-देवताः।
नवान्नं यस् तु वै भुङ्क्ते स वै नरक-भाग् भवेत्॥
नारदः –
अ-कृत्वा ऽऽग्रयणं व्रीहीन् नवान् भुङ्क्ते द्विजो यदि।
नाश्नन्ति देवास् तस्यान्नं पितरो वह्नयस् तथा॥
ब्रह्माण्डे –
शरत्-काले पौर्णमास्याम् अमायां वा द्विजोत्तमः।
नवैर् आग्रयणं कुर्याद् व्रीहिभिर् हरि-तुष्टये॥
भगवान् –
अ-नाग्रयण-(दोषेण) शेषेण यदि व्रीह्य्-आदिना द्विजः।
नाराधय तु मां ब्रह्मन् यतो द्रव्यम् अ-शुद्धिकृत्॥
स्कान्दे –
नवा वै यद्य् अ-लब्धास् स्युः व्रीहयश् शरदि द्विजैः।
तद्-एष्टव्या हि नीवारैश् श्यामकैर् वा प्रियङ्गुभिः॥
पुराणैर् व्रीहिभिर् वा ऽपि पुनश् चाभिनवैर् अपि।
अन्यथा दोषम् आप्नोति गन्तव्यं नरकं ध्रुवम्॥
श्री-विष्णु-पुराणे श्राद्ध-प्रकरणे –
अ-कृताग्रयणं यच् च धान्य-जातं नरेश्वर।
राज-माषान् अणूंश् चैव मसूरांश् च विसर्जयेत्।
[[298]]
आग्रयण-स्थाली-पाक-प्रयोगः
शरत्-काले पौर्णमास्याम् अमावास्यायां वा औपासनाग्नौ नवान्नं व्रीहीणां स्थाली-पाकं श्रपयित्वा मुखास् ते ऽन्वारब्धायां दर्व्या सकृद उपस्तीर्य द्विर् अवदाय जमदग्नि-वत्सयोस् त्रिर् अवदाय पुनस् सकृद् अभिघार्य क्षतम् अभिघार्य
इन्द्रग्निभ्याँ स्वाहा विश्वेभ्यो देवेभ्यस् स्वाहा द्यावा-पृथिवीभ्याँ स्वाहा ऽग्नये स्विष्टकृते स्वाहा
इति ब्रह्मोद्वासनान्तं कृत्वा तण्डुलैर् मुखं पूरयित्वा ऽचम्य ओदन-पिण्डं संसृज्य “परमेष्ठ्यसि परमा माँ श्रियं गमय” इत्य् आगार-स्तूप उपविध्येत्। अयम् आपस्तम्बिनाम् अन्येषां यथा “स्व-सूत्रम्” इति व्यवस्था।