११ स्थाली-पाक-निर्णयः

अत्रापस्तम्बः –

एवं अत ऊर्ध्वं दक्षिणावर्जम् उपोषिताभ्यां पर्वसु कार्यः पूर्ण-पात्रं तु दक्षिणेत्य् एके

इति। एवं - “पत्न्य् अवहन्ति श्रपयित्वे"त्य् आदिमात्रोक्त-प्रकारेण, अत ऊर्ध्वम् आग्नेय-स्थाली-पाकात् परम्, एवं वदता विवाह-शेष–होम-मध्ये पर्व-सम्भवे ऽपि तत्र स्थाली-पाकः कार्य इत्य् उक्तं भवति, आग्नेय-स्थाली-पाकस्य कृतत्वात्; यथा ऽऽहुः -

विवाह-शेष-मध्ये तु पर्वण्य् उत्पतिते सति।
तस्मिन्न् अपि च कर्तव्य-स्थाली-पाको यथा-विधि॥
तत्र यद्य् अप्य् अमावास्या विवाहात् स्याद् अनन्तरम्।
यदि वा पौर्णमासी स्यात् स्थाली-पाक-क्रिया मता॥

इति। अत्र अमावास्यायाम् अपि स्थाली-पाक-स्मरणम् आगामि पौर्णमास्या मौढ्यादि-दुष्टत्वे द्रष्टव्यम्।

[[295]]

तथा गौतमः –

पौर्णमास्य्-उपक्रमौ दर्श-पूर्ण-मासौ दर्शश् चेत् पूर्वम् आपद्येत पौर्णमासेनेष्ट्वा ऽथ तत् कुर्यात् अ-कुर्वन् पूर्णमासीम् आकाङ्क्षेद् इत्य् एके

इति। चतुर्थी होमानन्तरं यदि दर्शः पूर्वम् आगच्छेत् तदा दर्श-कालात् पूर्वम् एव पौर्णमासी–स्थाली-पाकं कृत्वा ततस् स्व-काले दर्श–स्थाली-पाकं कुर्याद् इति तद्-व्याख्याने व्याख्यातम्। विवाहानन्तर-पर्वणि ग्रहणादि-सम्भवे दश-निर्णये –

उपरागो ऽधिमासो वा यदि प्रथम-पर्वणि।
नाहरेत् प्रथमाम् इष्टिं मौढ्ये च गुरु-शुक्रयोः॥

इति निषेधात् प्रथम–स्थाली-पाको न कार्यः, एवम् आषाढादि-पितृ-मास-सम्भवे च न कार्यः,

स्थाली-पाक-क्रियां कुर्याद् विवाहाद् उत्तरायणे।
पितृ-मास-चतुष्के तु यदि कुर्याद् विनश्यति॥

इति प्रत्यवाय-स्मृतेः इदं प्रथम–स्थाली-पाक–विषयम्; द्वितीयादौ तु न दोषः,

प्रारब्धे तु द्वितीयादौ प्रोक्त-दोषो न विद्यते

इति स्मृतेः। ननु स्थाली-पाकाकरणे पुनर् औपासनाग्नेः प्राबल्यं नास्तीति चेत् तन् न - औपासनं होमो वैश्व-देवम् अष्टका-पार्वण-श्राद्धं सर्प-बलिर् ईशान-बलिर् इति सप्त-पाक-यज्ञानां पृथक् पृथक् कर्मत्वे नान्योन्य नैरपेक्ष्यात्;[[??]] अयं स्थाली-पाको नित्यः –

पक्षे वा यदि वा मासि यस्य नाश्नन्ति देवताः।
भुक्त्वा दुरात्मनस् तस्य द्विजश् चान्द्रायणं चरेत्॥

इति प्रत्यवाय-स्मृतेः; अत्र पर्व-विषये नियमम् आहापस्तम्बः –

पर्वसु चोभयोर् उपवासः[[??]] औपवस्तम् एव कालान्तरे भोजनं तृप्तिश् चान्न-व्ययच् चैनयोः प्रियं स्यात् तद् एतस्मिन्न् अहनि भुञीयाताम् अधश् च शयीयातां[[??]] मैथुन-वर्जनञ् च श्वो भूते स्थाली-पाकः तस्योपचारः पार्वणेन व्याख्यातः नित्यं लोक उपदिशन्ति

इति।

[[296]]

अत्र गृह्य-परिशिष्टे नियमान्तरम् अप्य् उक्तम् –

शाकं मांस मसूरांश् च लवणं कोर-दूषकान्।[[??]]
माषं मधु-परान्नञ् च त्यजेद् उपवसन् स्त्रियम्॥

इति। एवं प्रारब्धस्यास्य मौढ्यादाव् अपि कर्तव्यत्वं स्मर्यते। तथा विष्णु-यामिले –

गुराव् अस्तङ्गते शुक्रे बाल्ये वा वार्धके ऽपि वा।
न[[??]] दोषाय भवेत् (कर्म नित्यत्वान् न तु दुष्यति)न्नित्यं स्थाली-पाकं समाचरेत्॥

नित्य-ग्रहणात् काम्य-निषेधः “पक्षे वा यदि वा मासे” इत्य् अ-करणे प्रत्यवाय-स्मरणाच् च नित्यः। अस्य कालम् आह वृद्ध-शातातपः –

पर्वणोयश् चतुर्थांश आद्याः प्रतिपदस् त्रयः।
याग-कालस् स-विज्ञेयः प्रातर् उक्तो मनीषिभिः॥

दश-निर्णये –

रविर् आवर्तते यस्मिंस् तदा वर्तनम् इष्यते।
आवर्तनात् परं सन्धौ यागं कुर्यात् परे ऽहनि॥

इति। रवेर् आवर्तनं द्वेधा विभक्तस्य दीनस्यार्थं, न तु पञ्चधा विभक्तस्य तृतीयो मध्याह्न-भागः, न[[??]] हि षोडश-घटिका-काले तद्-अधिके वा रविर् आवर्तते।

सर्व-प्रतिपदोस् सन्धिर् अर्वाग्-आवर्तनाद् यदि।
तस्मिन्न् अहनि यष्टव्यं पूर्वेद्युस् स्याद् उपक्रमः॥
आवर्तनात् परं सन्धिर् यदि तस्मिन् नुपक्रमः।
परेद्यवीष्टि[[??]]इत्य् एष पर्व-द्वय-विनिर्णयः॥

यत् त्व् इदं कात्यायन-वचनम् –

स[[??]]यष्टव्यश् चतुर्थांशे यागः प्रतिपदः क्वचित्।
रक्षांसि तद्-विलुम्पन्ति श्रुतिर् एषा सनातनी॥

इति तन्-मध्यन्दिने तद्-अर्वाग् वा सन्धौ तत्रैव यागे कर्तव्ये आलस्यादिना तत्राकृत्वा पर-दिने प्रतिपच् चतुर्थांशे यदा करोति स्थाली-पाकं तद्-विषयम्। आवर्तनाद् ऊर्ध्वं पर्व-सन्धौ श्वः प्रतिपच् चतुर्थांशे याग-स्मरणात्। तथा वृद्ध-शातातपः –

सन्धिर् यस्य पराह्णे स्याद् यागं प्रातः परे ऽहनि।
कुर्वाणः प्रतिपद्-भागे चतुर्थे ऽपि न[[??]] दुष्यति॥

यत् त्व् इदं गार्ग्य-वचनम् –

प्रतिपद्य् अ-प्रविष्टायां यदि चेष्टिस् समाप्यते।
पुनः प्रणीय-कृत्स्नेष्टिः कर्तव्या याग-वित्तमैः॥

[[297]]

इति तद् इदम् इष्टि-विषयं न च स्थाली-पाक-विषयम्; “पुनः प्रणीय कृत्स्नेष्टिर् “इति ज्ञापनात्; मुख्य-कालातिपत्तौ गौण-कालम् आह गौतमः –

सर्वो ऽपर-पक्षः पौर्णमासस्य पूर्व-पक्षो दर्शस्य

इति। कात्यायनश् च –

पौर्णमास्य्-अत्यये हव्यं होता वा यद् अहर् भवेत्।
तद् अहर् जुहुयाद् एवम् अमावास्यात्यये ऽपि च॥

अत्र वामनः –

उक्त-काल-व्यतिक्रान्तौ दिवसे यत्र कुत्रचित्।
आगामि-पर्वणः पूर्वं स्थाली-पाकं समाचरेत्॥

इति।