उपाकर्म-उपक्रमः, “वेदाध्ययनारम्भ” इत्य् अर्थः।
याज्ञवल्क्यः –
अध्यायानाम् उपाकर्म श्रावण्याम्
इति। अध्यायः - वेदः। आत्रेयः –
उपाकर्म स्व-गृह्योक्त-काले वस्व्-अर्क-विष्णु-भे॥
इति। अतस् स्व-गृह्योक्त-काल एवोपाकर्म कार्यम्। न शास्त्रान्तर-विहित काले। अन्यथा –
स्व-धर्मे विद्यमाने ऽपि पर-धर्मेण वर्तते।
अ-प्रमाणम् ऋषिं कृत्वा सो ऽन्धे तमसि मज्जति॥
इति स्मरणात् प्रत्यवायस् स्यात्।
आश्वलायनः –
श्रवणे श्रावणस्य पञ्चम्यां हस्तेन वा
इति।
आपस्तम्बः –
श्रावण्यां पौर्णमास्याम् अध्यायम् उपाकृत्य
इति।
द्राह्यायणः –
प्रोष्ठपद्यां हस्तं गृहीत्वा
इति।
वैखानसः –
श्रावण्यां पौर्णमास्यां शिष्यं वापयित्वा
इति।
दश-निर्णये –
श्रावण्यां पौर्णमास्यां तैत्तिरीयकाः बह्वृचाश् श्रावणे श्रवण-नक्षत्रे हस्त-नक्षत्र-युक्तायां पञ्चम्याम् अमायां वा प्रोष्ठ-पद्यां सामगाः कुर्युः।
श्री-धरीये –
श्रावण्यां पौर्णमास्यां स्याद् वेदोपाकरण-क्रिया।
पर्वण्यौदयिके कुर्युश् श्रावण्यां तैत्तिरीयकाः॥
बह्वृचाश् श्रवणे कुर्युस् सङ्क्रान्ति-ग्रहणं विना॥
अत्र ग्रह-सङ्क्रम-वर्ज्य-स्मरणं प्रथमोपाकृति-विषयम्। अत्र व्यवस्थोक्ता काल-प्रकाशिकायाम् –
अर्ध-रात्राद् अधस्ताच् चेत् सङ्क्रान्तिर् गृहणं तु वा।
उपाकर्म न कुर्वीत परतश् चेन् न दोष-भाक्॥
औदयिक-शब्दार्थः स्मृत्य्-अन्तरे निरुक्तः –
श्रावणी पौर्णमासी तु सङ्गव-स्पृग् यदा भवेत्।
तद् एवौदयिकं ज्ञेयं नान्यद् औदयिकं विदुः॥
औदयिकम् - “सङ्गवान्त-व्याप्तम्” इत्य् अर्थः।
काल-प्रकाशिकायाम् –
सन्धिस् सङ्गवतः पश्चाद् अर्वाङ् मध्यन्-दिनाद् यदि।
तत्रैवोपाकृतिं कुर्यात् सद्यस् समिध आहुतिः॥
“समिदाधानम्” इत्य् अर्थः।
सन्धिस् सङ्गवतः प्राक् स्यात् पूर्वस्मिन् पर्वणि क्रिया।
श्वो-भूते समिदाधानम् एष श्रावणिको विधिः॥
निगमे –
दिन-द्वयं समाश्रित्य पौर्णमासी यदि स्थिता।
परेद्युस् सङ्गवं प्राप्य स्थिता सा कर्मणो ऽर्हति॥
अत्र -
उपाकर्मापराह्णे स्याद् उत्सर्गः प्रातर् एव हि
इति स्मृतेः प्रातः काले गायत्री-जपं कृत्वा अपराह्णे उपाकर्म कार्यम्।
[[290]]
स्मृत्य्-अन्तरे –
सिंह-दर्शात् तु या पूर्वा पूर्णा सा श्रावणी भवेत्।
तत्रैवोपाकृतिं कुर्यात् सिंह-स्थो ऽर्को भवेन् न वा॥
काल-प्रकाशीकायाम् –
स्वाध्यायस्य प्रधानत्वान् नित्यत्वाच् छ्रावणस्य च।
ग्रह-सङ्क्रामयोश् शूलं श्रावणस्य न विद्यते॥
मास-प्रोक्तेषु कार्येषु मूढत्वं जीव-शुक्रयोः।
अधिमासादि-दोषाश् च न स्युः काल-विधेर् बलात्॥
पौर्णमास्यास् तु नित्यत्वाद् आपस्तम्बस्य शासनात्।
मुक्त्वा भाद्र-पदाषाढौ श्रावण्याम् एव कारयेत्॥
अतश्
चान्द्र-श्रावण-पूर्णिमायाम् एवोपाकर्म कार्यम्
इति सिद्धम्। यत् त्व् इदं वचनं
वेदोप करणे प्राप्ते कुलीर-स्थे दिवा-करे।
उपाकर्म न कर्तव्यं कर्तव्यं सिंह-युक्तके॥
इति तन्-नर्मदोत्तर-विषयम्। तथा काल-प्रकाशिकायाम् –
कुलीरे ऽर्केण संयुक्ते उपाकुर्यात् तु दक्षिणे।
नर्मदोत्तर-तीरे तु कर्तव्यं सिंह-गे रवौ॥
दश-निर्णये –
कुलीरे ऽर्के तु कर्तव्यं नर्मदायास् तु दक्षिणे॥
इति। यत् तु मनूक्तम् –
श्रावण्यां प्रोष्ठ-पद्यां वा उपाकृत्य यथा-विधि।
युक्तश् छन्धांस्य् अधीयीत मासान् विप्रो ऽर्ध-पञ्चमान्॥
इति तच्-छ्रावण्यां दुष्टत्वे प्रोष्ठ-पद्यां प्रथमोपाकर्म-परम्। कथञ्चिच् छ्रावण्याम् अ-सम्भवे सर्वेषां प्रोष्ठ-पदी-ग्रहण-परं वा। तथा ज्योतिश्-शास्त्रे –
सौर-चान्द्र-नभसोस् तु पूर्णिमा-
विश्व-विष्णु-वसुभेषु सङ्गता।
शस्यते यजुर्-उपाकृतौ न चेद्
वारुणी त्रिक-युता नभस्ययोः॥
विश्वं - उत्तराषाढाः, विष्णुः - श्रवणम्, वसुः - धनिष्ठा, वारुणम् - शत-भिषक्।
[[291]]
तत्रैव –
चित्रादि-तारका-द्वन्द्वैः पौर्णमासी-समन्वितैः।
मासाश् चैत्रादयो ज्ञेयास् त्रिभिष् षष्ठान्त-सप्तमाः॥
एतत्-प्रोष्ठ-पदी-ग्रहणं श्रावण्याम् ओषधि-प्रादुर्भाव-विषयम्
इति केचिद् व्याचक्षते, तच् चिन्त्यम्
तद्-अभावेप्य् उपाकर्मणो नित्यत्वेन सन्ध्या-वन्दनवद् अवश्यं कर्तव्यत्वात् सिंहे सवितुः स्थित्य्-अभाव-विषयम्
इत्य् अन्ये,तद् अप्य् असत्, देशान्तर-विषयत्वात् सिंहार्कोपाकर्मणः; अतश् श्रावण्याम् एव “ऋग्-यजुर्-उपाकर्म कर्तव्यम्” इति निश्चीयते। यत् तु स्मृत्य्-अन्तरम् –
आषाढे श्रावणे वा ऽपि प्रौष्ठ-पद्याम् अथा ऽपि वा।
यत्र निर्दोष-कालस् स्यात् कुर्यात् तस्मिन्न् उपाकृतिम्॥
काल-त्रये ऽपि दोषश् चेच् छ्रावण्याम् आरभेद् बुधः॥
तद्-इदं स्व-गृह्यान् उक्त-काल-विषयम्। अर्ध-रात्राद् अधस्ताद् सङ्क्रम–ग्रहण-युक्त–पर्व-विषयं वा; मौढ्यादि-दोषे प्रथमोपाकृति-विषयं वा समर्थनीयम्। द्वितीयाद्य्-उपाकृतौ दोषाभावेन श्रावण्याम् एव कर्तव्यत्वात् ; तथा ऽऽत्रेये –
गुरु-भार्गवयोर् मौढ्ये बाल्ये वा वार्धके ऽपि वा।
तथा ऽधिमास–संसर्प–मल–मासादिषु त्रिषु॥
प्रथमोपाकृतिर् न स्यात् कुर्याद् यदि विनश्यति॥
दश-निर्णये –
श्रावणी पूर्णिमा यत्र ग्रह-सङ्क्रान्ति-दूषिता।
स्वाध्यायस्य प्रधानत्वान् नित्यत्वाच् छ्रावणस्य च॥
अञ्जसा श्रावणं विप्रैः कर्तव्यं नित्य-कर्मवत्॥
अतो द्वितीयाद्य्-उपाकर्म श्रावण्याम् एव कर्तव्यम् नान्यत्रेत्य् अर्थः।
हारीतः –
उपाकर्म तथोत्सर्गं कार्यम् उत्सवम् अष्टकाम्।
मास-वृद्धौ पराः कार्या वर्जयित्वा तु पैतृकम्॥
ज्योतिषे –
एको मूढो भवेद् अन्यस् स्वाच् च मित्रांश-गो यदि।
अन्यस्यास्तमये काले कुर्याच् छ्रावणम् अञ्जसा॥
शाखाधीशे शक्ति-युक्ते दुर्बलेऽपीतर-ग्रहे।
प्रथमोपाकृतिञ् चापि कुर्याद् एवाविचारयन्॥
अयम् अर्थः - शुक्रे शक्ति-युक्ते गुरु-मौढ्ये ऽपि यजुश्-शाखोपाकर्म कर्तव्यम्, एवं शुक्र-मौढ्ये ऽपि गुरौ शक्ति-युक्ते ऋग्-वेदोपाकर्म कर्तव्यम्, एवम् अन्यतर-मौढ्ये ऽपि भौमे शक्ति-युते सामोपाकर्म कर्तव्यम्, ‘शाखाधीशे शक्ति-युक्त’ इति हेतूक्तेः; अतो मौढ्यादि-दोषेषूपाकर्म वर्जन-स्मरणं स्व-शाखाधीशस्य शक्त्य्-अभाव-विषयम्। श्री-धरीये –
अन्-उप्त-बीजे नृ-पतौ विनष्टे
सूते मृतौ राष्ट्र-समाकुले च।
उत्सर्जनोपाकरणं स कुर्याद्
ग्रस्तेन्दु-सूर्ये गुरुणा ऽस्त-याने॥
[[292]]
अत्राशौचं सर्व-विषयम् इतरत् प्रथमोपाकर्म-विषयम्। अत्रोपाकर्मणि ब्रह्म-चारिभिर् अवश्यं वपनं कर्तव्यम्, “श्रावण्यां पौर्णमास्यां शिष्यं पावयित्वे"ति वैखानसे दर्शनात्;
दश-निर्णये –
क्षुर-कर्म न कर्तव्यं चौलात् परम् ऋतु-त्रये।
तथोपनयनाद् ऊर्ध्वं उपाकर्म विना क्वचित्॥
वसिष्ठः –
वैधे कर्मणि तु प्राप्ते काल-दोषं न चिन्तयेत्।
सद्यः क्षौरं प्रकुर्वीत माता-पित्रोर् मृतौ तथा॥
अतो ऽत्र वैधत्वाज् जन्म-नक्षत्र कुज-वारादि न चिन्त्यम्, न पूर्वेद्युश् चतुर्दश्या दुष्टत्वाद् आचाराभावाच् च।
अत्र गोबिलः –
अध्यायानाम् उपाकर्म कुर्यात् काले ऽपराह्निके।
पूर्वाह्निके विसर्गस् स्याद् इति वेद-विदो विदुः॥
एवम् उत्सर्गस्य प्रातःकालीन-तद्-अकरण-प्रायश्चित्तार्थतया “कामोकार्षीन् मन्युर् अकार्षीद्” इति “जपेद् वे"ति विहित-जपः प्रातःकाल एव कर्तव्यः, न त्व् अपराह्णे, उत्सर्ग-कालत्वाभावात्; तद्-अ-करण-निमित्तो ऽयं हि जपः, यत् त्व् इदं वचनम् –
श्रवणेन तु यत् कर्म उत्तराषाढ-संयुतम्।
संवत्सर-कृतो ऽध्यायस् तत्-क्षणाद् एव नश्यति॥
इति तद्-बह्वृच-विषयम्। तद्-उपाकर्मणश् श्रवण-प्रधानत्वात्;भरद्वाजः –
मौञ्जी-यज्ञोपवीतादीन् नवान् एव तु धारयेत्।
कटि-सूत्रं नवं चैव नवं वस्त्रम् उपाकृतौ॥
एवम् एव प्राजापत्य-व्रत-चतुष्टये च –
मेखलाम् अजिनं दण्डं वस्त्रं यज्ञोपवीतकम्।
पूर्वोपयुक्तान्य् उत्सृज्य धारयेयुर् व्रते व्रते॥
[[293]]
कपर्दी –
प्रजा-पति-मुखान् देवान् एकैकं त्रिस् तिलोदकम्।
उद्धृत्य तर्पणं कुर्युश् श्रावण्यां तैत्तिरीयकाः॥
तस्माद् इदम् अधीत-वेदानां गृहिणाञ् चावश्यं कर्तव्यम्। तथा ज्योतिश्-शास्त्रे –
अधीत-वेद-विद्यानां कर्तव्यं हि द्वि-जन्मनाम्।
अध्यायाङ्गम् इदं प्रोक्तम् इति होवाच भार्गवः॥
अतो ऽत्र गृहस्थस्याविरुद्धम् उपवीत-धारणं तर्पणं होमश् च।
यज्ञोपवीत-धारण-विधिः
अत्र भरद्वाजः –
अथ यज्ञोपवीतस्य धारणे कथ्यते विधिः।
स्नात्वा शुद्धश् शुचौ देशे प्रक्षालित-पद-द्वयः॥
स पवित्र-कर-द्वन्द्वः कृतोपस्पर्शनो द्विजः।
उपविश्यासने दर्भे प्राणानायम्य वाग्-यतः॥
मन्त्रं सदैवम् उच्चार्य ब्रह्म-सूत्रं गले क्षिपेत्।
दक्षिणं बाहुम् उद्धृत्य शिरसैव सह द्विजः॥
गृहस्थस्य वनस्थस्य सूत्रं प्रति पुनः पुनः।
मन्त्रस्योच्चारणाचाम-द्वितयं क्रमशस् स्मृतम्॥
तस्मात् प्राङ्-मुखोदङ्-मुखो वा ऽनार्द्र-वस्त्रस् सन् उपविश्य सङ्कल्प्य सर्षि-छन्दो-दैवतं मन्त्रम् उच्चार्य यज्ञोपवीतं धारयेत्। नार्द्र-वस्त्रो न च प्रह्वो न तिष्ठन् वा; अत्र शाण्डिल्यः –
आर्द्र-वासान् अ-कुर्वीत कर्म किञ्चित् कथञ्चन।
राक्षसं तद् धि विज्ञेयं तस्माद् यत्नेन वर्जयेत्॥
मौञ्जी-यज्ञोपवीतादीन् नवान् एव तु धारयेत्।
कटि-सूत्रञ् चैव नवं नवं वस्त्रम् उपाकृतौ॥
तद् एवम् उत्सर्गाकरण-प्रायश्चित्तार्थं “कामोकार्षीन् मन्युर् अकार्षीद्” इति मन्त्रम् अष्टोत्तर-सहस्रं यथा-शक्ति वा प्रातः काल एव जपित्वा ऽपराह्णे स्नात्वा धौतं परिधाय माध्याह्निक-क्रियां कृत्वा प्राङ्-मुखोदङ्-मुखोवोपविश्य पवित्र-पाणिः त्रिः प्राणानायम्य सङ्कल्प्य यज्ञोपवीतं धृत्वा गृह-स्थः प्रतियज्ञोपवीतम् आचम्य मन्त्रम् उच्चारयेत्। ब्रह्म-चारी तु उपवीतानन्तरं मेखलाजिन-दण्डान् “इयं दुरुक्तात्॥ मित्रस्य चक्षुः॥ सुश्रव” इति मन्त्रैः क्रमेण धृत्वा ऽथाचामेत्।
[[294]]
अथाचार्यस् सह शिष्यैस् स्नात्वा उदङ्-मुख उपविश्य जले निवीति ऋषि-तीर्थेन तिलाञ्जलिभिः प्रजा-पतिं “काण्ड-ऋषिं तर्पयामी"त्याधिभिर् नवभिर् मन्त्रैः काण्ड-ऋषीन् एकैकशः त्रिस् तर्पयित्वा ऽऽचम्य वस्त्रं परिधायाचम्य गृहम् आगत्याग्नेर् उपसमाधानादि[[??]]-मुखान्तं कृत्वा शिष्यैर् अन्वारब्धः प्रजा-पति-मुखान् ऋषीन् नवाहूतीर् हुत्वा ऽऽद्यानुवाका “निषेत्वे”त्य् आदींश् चतुरो ऽध्याप्य जयादिं हुत्वा तन्त्र-शेषं समाप्याभ्युदय-श्राद्धं कृत्वा पुण्याहं वाचयीत। एवं प्रत्यब्दं श्रावण्याम् एवोपाकर्म कार्यम्।
अ-काले चेत् कृतं कर्म कालं प्राप्य पुनः क्रिया।
कालातीतं तु यत् कुर्याद् अ-कृतं तद्-विनिर्दिशेत्॥