अत्र भरद्वाजः –
मास्य् उर्जे कृत्तिका-धिष्ण्ये सायङ् काले प्ररोपयेत्।
दीपांश् चैव महा-दीपान् अनेकास् सर्वतो गृहे।
देवालये नृप-गृहे नभायां पुण्य-भूमिषु॥
दश-निर्णये –
वृश्चिक-स्थे दिवानाथे वृषभ-स्थे निशाकरे।
वृषभस्योदये कुर्याद् दीपारोप-महोत्सवम्॥
भरद्वाजः –
कृत्तिका द्वय-संयुक्ते मासि तस्मिन् कथं भवेत्।
तन्-मासान्तर्गतास्व् एव तासु दीपान् प्ररोपयेत्॥
कृत्तिका सङ्क्रम-युता यदि दीप-प्ररोपणम्।
न तासु कारयेद् आदौ कृत्तिकास्व् एव कारयेत्॥
मासादौ कृत्तिकास्व् एव सङ्क्रान्तिस् तासु सन्त्यजेत्।
सङ्क्रम-द्वय-संयुक्तं कृत्तिकाद्वयम् एव चेत्॥
द्वयोर् अपि च नक्षत्रे पूर्ण-बिम्बेन्दु-संयुते।
आग्नेयं कारयेद् धीमान् महा-दीप–प्ररोपणम्॥
द्वयोर् अन्यतमं पूर्णम् आस्या न च युतं कथम्।
तदानीं रोहिणी-युक्ता पौर्णमासी यदि द्विज॥ तस्यां वा ज्वालयेद् धिमान् इति शास्त्रस्य निश्चयः॥
सङ्क्रम-द्वय-संयुक्तं कृत्तिका-द्वयम् एव चेत्।
तत्-पर्व-रोहिणी-युक्तं तत्-पार्श्वे पर्व-संयुतम्॥
[[287]]
दत्तात्रेयः –
पौर्णमास्या न च युता रोहिणी कथम् अत्र वै।
एवञ् चेत् पर-संक्रान्तौ कृत्तिकास्व् एव कारयेत्॥
ज्योतिषे –
कार्तिके मासि नक्षत्रे कृत्तिकाख्ये विधोर् ग्रहे।
तन्-मासं वर्जयन्त्य् एते तद्-दिनं वा परित्यजेत्॥
काल-प्रकाशिकायाम् –
वृश्चिके ऽर्के विधौ तुङ्गे पूर्णायाम् अग्निभे वृषे।
उपरागे ऽपि कुर्वीत महा-दीप-प्ररोपणम्॥
कृत्तिकाभिर् अ-योगे तु केवलैव तिथिर् भवेत्।
पर्वण्य् एव तदा कुर्यान् महा-दीप प्ररोपणम्॥
ज्योतिषे –
अथ मास-प्रभेदेन पर्व-द्वयम् अथो भवेत्।
उत्तरत्र-शुभं शस्तं दीपोत्सवम् अथाचरेत्॥
आत्रेये –
द्वि-वार–गत-नक्षत्रम् आग्नेयञ् चेत् कथं भवेत्।
अहो-रात्राधिकं यस्मिन् नक्षत्रं कृत्तिका-द्वयम्॥
तस्मिन् प्ररोपयेद् दीपान् अहो-रात्र-द्वये समे[[??]]॥
अ-परे दिवसे कार्यं महा-दीप-प्ररोपणम्॥
सुप्रभेदे –
पर्व-युक्तं विवर्ज्यं स्याद् भौमम् अस्य दिने यदि।
अ-परे दिवसे ग्राह्यः कृत्तिकाया महोत्सवः॥
विष्णु-रहस्ये –
भरणी कृत्तिका-युक्ता पर्व-युक्ता चतुर्दशी।
त्याज्याव् एतौ सदा ब्रह्मन् उत्सवं नैव कारयेत्॥
भरणी कलया युक्ता कृत्तिका पूर्णिमा यदि।
सा तिथिर् निष्फला त्याज्या दीप-दानं निषिध्यते॥
रोहिणी कृत्तिका-युक्ता पूर्णिमा कलया युता।
निश्य् आदौ दीप आरोपस् सर्व-सम्पत्-सुखावहः॥
दश-निर्णये –
उदये रोहिणी-युक्ता कृतिकाभिर् विना भवेत्।
केवलं पूर्णिमास्व् एव कृत्तिकोत्सवम् आचरेत्॥
[[288]]
यत् त्व् इदं वचनम् –
ऊर्जे मासि चतुर् दश्यां संयुते वा ऽग्नि-दैवते।
नक्षत्रे ऽस्य प्रदोषे तु कृत्तिकोत्सवम् आचरेत्॥
इति तत्-पर-दिने कृत्तिका-पर्वान्यतर-कला-मात्राभावे वा दुष्टे वा पूर्व-दिन-ग्राह्यतापरम्, मासान्ते शुद्ध-पर्वाग्नि-सम्भवे तत्रैव कुर्यात्, पूर्वत्र तत्-त्याग-परानेक-वचन-विरोधात्। तत् सर्वं प्रदोष-वेध-परम् इति चेन् न –
पूर्णिमा कलया युक्ता॥ उदये रोहिणी युक्ता
इत्य् आदि-वचन-विरोधात्;
ज्योतिषे –
कृत्तिका रोहिणी-मिश्रा कला वा पूर्णिमास्य् अपि।
राज-राष्ट्र–सुभिक्षं स्यात् तत्-काले दीपम् आचरेत्॥
काल-प्रकाशिकायाम् –
अ-परे न भवेत् पूर्णा विद्धा चेत् पूर्व-वासरे।
प्रतिपद्य् अपि सङ्ग्राह्यो दीप-दानोत्सवः क्रमात्॥
द्वयोर् वा विद्यते पूर्णा रजनी मुख-वेलयोः।
अ-परस्मिन् दिने कुर्याद् एक-मास-द्वयोर् अपि॥
आत्र कामिके दीपारोपण-काल उक्तः –
रवेर् अस्तमयात् पूर्वं याम-पाद-प्रभृत्य् अपि।
भोगी दीपोत्सवं कुर्याद् राज-राष्ट्र–विवृद्धये॥
मासादि-दिनेष्व् अस्तमयाद् ऊर्ध्वं दीपारोपण-कालः, तत्रैव वृषभ-लग्न–सद्-भावात्; मास-मध्य-मासान्तदिनेष्व् अस्तमयाद् अर्वाक् कालः। अस्तमयात् प्राग् एव वृषभ-लग्न-प्रवृत्तेः; अतो
वृषभादौ त्याज्यांशं विहाय प्रदोषे दीपारोपः कार्य
इति निरवद्यम्।
[[289]]