…
वाराहे –
आ-भा-का-सित-पक्षेषु
मैत्र-श्रवण-रेवती।
आदि-मध्यावसानेषु
भवेयुर् द्वादशीषु चेत्॥
ते वामनाह्वया योगा
मुनिभिः परिकीर्तिताः॥
आ-भा-का-सित-पक्षेषु - “आषाढ–भाद्र-पद–कार्तिक–शुक्ल-पक्षेष्व्” इत्य् अर्थः।
[[281]]
श्री-धरीये –
स्वापस् तु विष्णोर् मिथुने शुक्ल-द्वादशिका-तिथिः।
पवित्रं विधधीतैवं मिथुनस्थे दिवा-करे॥
मात्स्ये –
शेते विष्णुस् सदा ऽऽषाढे
भाद्रे च परिवर्तते।
कार्तिके तु प्रबुद्ध्येत
शुक्ल-पक्षे हरेर् दिने॥
अतस् सदा मिथुनाषाढ एव विष्णोस् स्वापः। कर्कटके शयन-वचनं मिथुने दर्श-द्वय–सम्भव-विषयम्। तथा श्री-धरीये –
मिथुनस्थो यदा भानुर् अमावास्या-द्वयं स्पृशेत्।
द्विर् आषाढस् सविज्ञेयो विष्णुस् स्वपिति कर्कटे॥
अनेन द्विर् आषाढ-सम्भवे
पूर्वस्य मल-मासत्वाद् उत्तरस्य शुद्ध-मासत्वाच् छुद्ध-मास एव विष्णोस् स्वाप
इत्य् अर्थः। भविष्यत्-पुराणे –
मिथुनस्थे सहस्रांशौ स्वापयेन् मधु-सूदनम्।
तुलां प्राप्ते महा-राज सम्यग् उत्थापयेद् धरिम्॥
किञ्च वृद्ध-मिहिरः –
मेषादि-मिथुनास् तेषु यदा दर्श-द्वयं भवेत्।
अब्दान्तरे तथा ऽवश्यं मिथुने ऽर्के हरिस् स्वपेत्॥
कर्कटादि-त्रिके वा ऽपि यदा दर्श-द्वयं भवेत्।
अब्दान्तरे तथा ऽवश्यं कर्कटार्के हरिस् स्ववेत्॥
एवम् आषाढ-शुक्ल-द्वादश्यां विष्णु-शयन-विधानाद् आषाढ-पौर्णमास्याम् एव यतीनां सङ्कल्पः, कथञ्चित् तत्रासम्भवे “यावत् स्यात् कृष्ण-पञ्चमी”ति स्मरणात् तत्र वा सङ्कल्पः कार्यः।
ननु –
श्वो भाविनीं प्रतिपदम्
आरभ्य श्रावणीं यतिः।
न प्रयायाच् चतुर्-मासान्
वपनं कारयेन् न च॥
श्रावणं मासम् आरभ्य
यावन् मास-चतुष्टयम्।
वसेयुस् सर्व-यतयो
एकत्रैवेति निश्चितम्॥
इत्य् आदि-वचनैः श्रावणे ऽपि यतीनां सङ्कल्पस् स्मर्यत इति चेन् मैवम् समर्थस् त्वं तद्-अर्थम् अ-विज्ञाय सम्बम्भ्रमीः
दर्शान्ताः पौर्ण-मास्य्-अन्ताश्
चान्द्र-मासा द्विधा स्मृताः।
यतीनां पौर्णमास्य्-अन्ता
दर्शान्ताः पितृ-कर्मणि॥
इति दर्शान्त-चान्द्र-मासाषाढान्तः पाति पौर्णमास्य्-अन्तत्वेन यत्य्-आषाढस्य गतत्वे ऽपि
कृष्ण-प्रतिपत्-प्रभृति-प्रवृत्त-यति-श्रावण-मासस्याषाढत्वात्
तद्-अवलम्बेन “श्रावणं मासम्” इत्य् आदि-वचनम्
इत्य् अ-विरोधः;
ततश् चाषाढादि-क्रमे
[[282]]
सङ्कल्प-कालातिक्रम-प्रायश्चित्त-कृच्छ्रं कृत्वा सङ्कल्पः कार्य
इति विवेकः। नन्व् एवं
मासाधिक्य-चातुर्मास्य-व्यपदेश-भङ्ग-प्रसङ्ग
इति चेन् न -
षष्टिभिर् दिवसैर् मासः कथितो बादरायणैर्
इति षष्टि-दिनानाम् एक-मासत्व-स्मरणात्; नन्व् अधिकाभावेप्य् आषाढ-मासम् आरभ्य कार्तिक-मास एव समापने ऽपि चातुर्मास्याधिक्यम् इति चेन् मैवम् - अ-विचारित-रमणीयत्वात्; आषाढ-कार्तिकयोः पौर्णमासयोर् एवारम्भ-समाप्ति-विधानात् सङ्कल्प-समापनयोः पूर्वत्र परत्र च पञ्च-दश-दिन-विरहान् न चोद्यावकाश इति निरवद्यम्।
श्री-भगवान् –
उत्थाने शयने वा ऽपि
मद्-अङ्ग-परिवर्तने।
शाकाहारञ् च यो भुङ्क्ते
हृदि शल्यं ममार्पयेत्॥ +++(4)+++