उपवास-लक्षणम्
विष्णु-धर्मे –
उपावृत्तस्य पापेभ्यो यस् तु वासो गुणैस् स वा।
उपवासस् स विज्ञेयस् सर्व–भोग–विवर्जितः॥
वर्जनीयानि सन्त्यज्य गुणान् सङ्गृह्य चोदितान्।
निराहार-स्थितिर् या सा उपवासः प्रकीर्तितः॥
नारदीये –
यानि कानि च पापानि ब्रह्म-हत्या-समानि च।
अन्नम् आश्रित्य तिष्ठन्ति सम्प्राप्ते हरि-वासरे॥
इतिहासोत्तमे –
वरं स्व–मातृ–गमनं वरं गो–मांस–भक्षणम्।
वरं हत्या वरं पानम् एकादश्यान् तु भोजनात्॥
[[269]]
कालादर्शे –
जह्याद् भक्त-द्वयं नित्ये काम्ये भक्त-चतुष्टयम्॥
नारदीयो रुक्माङ्गद-चरिते –
अष्ट-वर्षाधिको मर्त्यो ह्य् अशीतिर् न हि पूर्यते।
यो भुङ्क्ते मामके राष्ट्रे विष्णोर् अहनि पाप-कृत्॥
स मे वध्यश् च दण्ड्यश् च निर्वास्यो विषयाद् बहिः।
ब्रह्म-हा च स गो-घ्नश् च स्तेयी च गुरु-तल्पगः॥
एकादश्यां हि भुञ्जानः पक्षयोर् उभयोर् अपि॥
सङ्ग्रहे –
अलाभे वा निषेधे वा काष्टानां दन्त-धावने।
पर्णादिना विशुध्येत जह्वोल्लेखस् सदैव तु॥
तृण-पर्णैस् सदा कुर्याद् अमाम् एकादशीं विना।
तयोर् अपि च कुर्वीत जम्बू-निम्ब-रसालकैः॥
ब्रह्म-कैवर्ते –
इति विज्ञाय कुर्वीतावश्यम् एकादशी-व्रतम्।
विशेष-नियमाशक्तो ऽहो-रात्रं भुक्ति-वर्जितः॥
निगृहीतेन्द्रिय-श्रद्धा-सहायो विष्णु-तत्-परः।
उपोष्यैकादशीं पापान् मुच्यते नात्र संशयः॥
पापात् - प्रत्यवायात्।
कात्यायनः –
मिथ्या वादे दिवा स्वापे बहुशो ऽम्बु निषेवणे।
अष्टाक्षरं व्रती जप्त्वा शतम् ष्टोत्तरं शुचिः॥
व्यासः –
असकृज् जल-पानाच् च सकृत् ताम्बूल-चर्वणात्।
उपवासः प्रणश्येत् तु दिवा-स्वापाच् च मैथुनात्॥
स्त्रीणान् तु प्रेक्षणात् स्पर्शात् ताभिस् सङ्कथनाद् अपि।
निष्पतेत ब्रह्म-चर्यं न दारेष्व् ऋतु-सङ्गमात्॥
सुमङ्गली-विषये मनुः –
पुष्पालङ्कार–वस्त्रादि–गन्ध–धूपानुलेपनम्।
उपवासे न दुष्यन्ति दन्त-धावन (मज्जनम्)-वर्जनम्॥
विष्णु-रहस्ये –
श्राद्धोपवास-दिवसे
खादित्वा दन्त-धावनम्।
गायत्र्या शतशः पूतम्
अम्बु-प्राश्य विशुध्यति॥
नारदः –
उपवास-दिने राजन् दन्त-धावन-कृन् नरः।
स पूति–वस्त्र–संयुक्तो नरकं प्रतिपद्यते॥
[[270]]
गारुडे –
यत् तु सा कुरुते पुण्यं विना पापं पति-व्रता।
तत् तस्यास् सकलं देवि तस्यार्धं न लभेत् पतिः॥
भर्ता करोति यान् साध्वि यत् किञ्चित् कुरुते शुभम्।
तस्य पुण्यस्य सम्पूर्णम् अर्धं प्राप्नोत्य् असंशयः॥
नारी खल्व् अनुज्ञाता भर्त्रा पित्रा सुतेन वा।
निष्फलं तु भुवेत् तस्या[[??]] यत् करोति व्रतादिकम्॥
अनापृच्छ्यछ्य तु भर्तारम् उपोष्य व्रतम् आचरेत्।
आयुष्यं हरते भर्तुस् सा नारी नरकं व्रजेत्॥
नास्ति स्त्रीणां पृथग् धर्मो न व्रतं नाप्य् उपोषणम्।
पति-शुश्रूषणं तासां तेन स्वर्गो विधीयते॥
यद्यपि पाणि-ग्रहणाद् धि सह त्वं कर्मसु तथापि शक्तौ भर्त्राद्य् अनुज्ञाने न दोषः
श्री-वाराहे –
सूतके मृतके चापि दानार्चन-विवर्जितः।
एकादश्यां न भुञ्जीत व्रतम् एतन् न लुप्यते॥
ऋश्यशृङ्गः –
संप्रवृत्ते ऽपि रजसि न त्याज्यं द्वादशी-व्रतम्।
काम्ये नियोजयेद् विप्रं स्वयं नाद्याद् रजस्वला॥
पुलस्त्यः –
एकादश्यां न भुञ्जीत नारी दृष्टे रजस्य् अपि।
सूतके मृतके चापि नाश्नीयाद् धरि-वासरे॥
विष्णु-धर्मे –
असम्भाष्यांश् च सम्भाष्य तुलस्य् अत सिका-दलम्।
आमलक्याः फलं वा ऽपि पारणे प्राश्य शुद्ध्यति॥
विष्णु-पुराणे –
तस्मात् पाषण्डिभिः पापैर् आलाप-स्पर्शने त्यजेत्।
विशेषतः क्रिया-काले यज्ञादौ वा ऽपि दीक्षिते॥
स्पर्शने तु बुधस् स्नात्वा शुद्धिर् आदित्य-दर्शनात्।
सम्भाष्यतांश् च शुद्ध्य्-अर्थं चिन्तयेद् अच्युतं बुधः॥
तेषाम् आलोकने सूर्यं पश्येत मतिमान् नरः॥
एकादशी-श्राद्ध-विचारः
श्राद्ध-विषये विज्ञानेश्वरीये –
उपवासो यदा नित्य-श्राद्धञ् च प्रकृतं भवेत्।
उपवासं तदा कुर्याद् आघ्राय पितृ-सेवितम्॥
दश-निर्णये –
एकादशी-व्रतं चैव पितुस् सांवत्सरं दिनम्।
ऋतु-कालञ् च तत्रापि श्राद्धङ् कर्म विधीयते॥
स्मृत्य्-अर्थ-सारे –
पित्रोः क्षय-दिने प्राप्ते भवेद् एकादशी यदि।
अभ्यर्च्य पितृ-देवादीन् आजिघ्रेत् पितृ-सेवितम्॥
[[271]]
सुधी-विलोचने –
ज्ञानिनो ऽज्ञानिनो वा ऽपि मूर्खाः पण्डित एव वा।
मृताहं समतिक्रम्य चण्डालः कोटि-जन्मसु।
देवलः –
माता-पित्रोः क्षये प्राप्ते भवेद् एकादशी यदा।
अभ्यर्च्य च पितॄन् देवान् आजिघ्रेत् पितृ-सेवितम्॥
ब्रह्म-कैवर्ते –
सर्वम् अन्नं समुद्धृत्य दक्षिणेन करेण तु।
घ्राणाघ्रातन् तु कर्तव्यं व्रत-भङ्गो ऽन्यथा भवेत्॥
अत्र एकादशी-श्राद्धे “आघ्राय पितृ-सेवितम्” इत्यादीनि वचनानि परश् शतानि सन्ति विस्तर-भयान् न लिख्यन्ते। किञ् च आघ्राणेन एकादश्यां श्राद्ध-शेष-भोजनञ् च सम्भवतीति श्रुतिर् एवाह -
अवघ्रियम् एव तन् नैव प्राशितं दैवा प्राशितम् [[TODO: परिष्कार्यम्]]
इति, एवं विज्ञानेश्वर–चन्द्रिका–कालादर्श–सुधी-विलोचन–दश-निर्णयादि-निबन्धनेष्व् अपि “उपवासो यदा नित्यम्” इत्यादि-पूर्वोदाहृत-वचनान्य् एव सर्वत्र लिखित्वा एक-कण्ठेन पितृ-सेवितान्नाघ्राणांगकैकादशी-श्राद्धम् एव समर्थितम्। अत एव द्वादश्यां श्राद्ध-परं पुराण-वचनम् अनादरणीयम्, स्मृतेः प्रबलत्वात्,
श्राद्ध-विघ्ने समुत्पन्ने न विज्ञाते मृते ऽहनि।
एकादश्यान् तु कर्तव्यं दर्शे वा ऽथ विचक्षणैः॥
इति पराशरादिभिर् अविज्ञाते ऽप्य् एकादश्याम् एव श्राद्ध-विधानाच् च श्रीमन्-नारायण-मुनि-कृते पुरुषार्थ-सुधा-निधौ च स्मृतिर् एव प्राबल्यम् उक्तम्।
स्मृतीतिहास-पुराणेषु धर्म-विरोधे स्मृत्य्-उक्तम् न ग्राह्यम्, व्रत-विरोधे इतिहासोक्त-सर्गादि-विरोधे पुराणोक्तम्
इति ज्ञानार्णवे च तत्रोक्तम्। “तस्य तस्य तत्र तत्राधिकृतत्वाद्” इति। न्याय-परिशुद्धाव् अपि तथोक्तं वेदान्ताचार्यैः अतो धर्म-शास्त्रस्य मुमुक्ष्व् अमुमुक्ष्व् आचार-मात्राधिकृतस्य पुराणापेक्षया प्राबल्याद् एकादशी-श्राद्धं सर्वैर् अप्य् अनुष्ठेयम् इति सिद्धम्,
[[272]]
अनुकल्पाः
सङ्ग्रहे –
अशक्तस् तूपवासेषु
बालो वृद्धश् च रोगवान्।
कृत्वैक-भुक्तं विप्रेन्द्र
उपवास-फलं लभेत्॥।
[[??]]-काशिकायाम् –
परम् आपदम् आपन्नो हर्षे च समुपस्थिते।
सूतके मृतके चैव न त्यजेद् द्वादशी-व्रतम्॥
तत्रैव –
सूतके च नरस् स्नात्वा
प्रणम्य मनसा हरिम्।
एकादश्यां न भुञ्जीत
व्रत एवं न लुप्यते॥
एकादश्यां न भुञ्जीत
नारी दृष्टे रजस्य् अपि।
नियमाः
विष्णु-रहस्ये –
गात्राभ्यङ्गं शिरोभ्यङ्गं ताम्बूलं चानुलेपनम्।
व्रतस्थो वर्जयेन् नित्यं यच् चान्यत्र निराकृतम्।
इति,
त्यजेद् उष्णोदक-स्नानं सुगन्धामलकादिकम्।
काव्यालापं गन्ध-लेपं पुष्प-धारणम् एव च॥
स्त्री-सङ्गं मर्दनञ् चैव क्षारम् अभ्यङ्गम् एव च।
दधि–क्षीरं घृतं गव्यम् ऐक्षवं कदली-फलम्॥
तिलाश् चैवासिता मुद्गाः कन्द–केसरम् एव च।
एवम् आदीनि सर्वाणि वर्जयेद् धरि-वासरे॥
कौर्मे –
बहिर् ग्राम्यान्त्यजान् सूतिं पतितं च रजस्वलाम्।
न स्पृशेन् नापि भाषेत नेक्षेत व्रत-वासरे॥
विष्णु-धर्मोत्तरे –
विष्णुम् अभ्यर्च्ययेद् भक्त्या रात्रौ जागरणादिकम्।
तद्-अर्चनं च तन्-नाम कीर्तन-श्रवणादयः॥
तत् तज्-जप–तपो–ध्यान–तत्-कथा-श्रवणादिकम्। उपवास-कृताम् एते गुणा प्रोक्ता मनीषिभिः॥
पाद्मे –
अनुकल्पस् स्वयं प्रोक्तः क्षीणानां वर-वर्णिनि।
मूलं फलं पयस् तोयम् उपभोक्ष्यं भवेच् छुभम्॥
नत्वैव भोजनं कैश्चिद् एकादश्यां बुधैस् स्मृतम्।
दधि–क्षीरं घृतं गव्यम् ऐक्षवं गुड-वर्जितम्।
तिलाश् चैव सीता मुद्गाः कन्द–केसर–गुड–वर्जितम्॥
प्रशस्त-सैन्ध-लवणं घृतेनाभ्यञ्जनं व्रते॥
यमः –
इक्षु-दण्डैर् गुड-रसैर् सुपक्वैः कदली-फलैः।
निघ्नन्ति ये हरि-दिनं तान् आनयत किङ्कराः॥
काम्य-विषये अङ्गिराः –
य इच्छेद् विपुलान् भोगान् मुक्तिञ् चात्यन्त-दुर्लभाम्। एकादश्याम् उपवसेत् पक्षयोर् उभयोर् अपि ॥
[[273]]
स्कान्दे –
कांस्यं मांसं मस्करिञ् च क्षौद्रञ् चानृत-भाषणम्।
पुनर् भोजम् अत्याशं दशम्यां परिवर्जयेत्॥
वाराहे –
गृहीत्वौदुम्बरं पात्रं वारि-पूर्णम् उदङ्-मुखः।
उपवासन् तु गृह्णीयाद् यद् वा वार्य् एव धारयेत्॥
सङ्कल्प-मन्त्रस् तु।
देवलः –
एकादश्यां निराहारो भूत्वा ऽन्नम् अपरे ऽहनि।
भोक्ष्यामि पुण्डरीकाक्ष गतिर् भव ममाच्युत॥
कांस्यं मांसं तथा क्षौद्रं तैलं वितथ-भाषणम्।
व्यायामञ् च प्रवासञ् च दिवा स्वापञ् च मैथुनम्॥
शष्कुल्य्-अपूपान् द्वादश्यां वर्जयेद् भोजनं पुनः॥
एकादश्य्-उपवासो नित्य-काम्य-रूपेण द्वि-विधम् अपि प्रमाण-बलाद् अध्यवसीयते।
नित्यं सदा यावद् आयुर् न कदाचिद् अतिक्रमेत्।
इत्य् उक्ता ऽतिक्रमे दोष-श्रुतेर् अत्याग-चोदनात्॥
फलाश्रुतेर् विप्सया च तन् नित्यम् इति कीर्तितम्॥
नित्य-शब्दादीन्य् अष्टौ नित्यत्व-साधकानि। नित्य-शब्द उदाहृतो गारुड-पुराणे –
उपोश्यैकादशी नित्यं पक्षयोर् उभयोर् अपि॥
सदा शब्दस् सनत्-कुमार-संहितायाम् –
एकादशी सदोपोष्या पक्षयोश् शुक्ल-कृष्णयोः॥
यावद् आयुश्-शब्द उक्तः विष्णु-रहस्ये –
उपोष्यैकादशी राजन् यावद् आयुस् सु-वृत्तिभिः॥
अतिक्रम-निषेधः कण्वेन दर्शितः –
एकादश्याम् उपहसेन् न कदाचिद् अतिक्रमेत्॥
अकरण-दोषम् आह सनत्-कुमारः –
न करोतीह यो मूढः एकादश्याम् उपोषणम्।
स नरो नरकं याति रौरवं तमसा ऽऽवृतम्॥
एकादश्यान् तु यो भुङ्क्ते शक्तिमान् निरुपद्रवः।
सुरा-पान-समं पापं भवेत् तस्य न संशयः॥
मध्य-पानान् मुनि-श्रेष्ठ पातैव (पातैको) नरकं व्रजेत्।
एकादश्य्-अन्न-कामस् तु पितृभिस् सह मज्जति॥
यानि कानि च पापानि ब्रह्म-हत्या समानि च।
अन्नम् आश्रित्य तिष्ठन्ति सम्प्राप्ते हरि-वासरे॥
तानि पापान्य् उपाश्नाति सम्प्राप्ते हरि-वासरे।
मातृ-हा पितृ-हा चैव भ्रातृ-हा गुरु-हा तथा॥
एकादश्यान् तु यो भुङ्क्ते पक्षयोर् उभयोर् अपि॥
[[274]]
अ-त्याग-चोदना दर्शिता विष्णु-रहस्ये –
परम् आपदम् आपन्नो हर्षे ऽथ समुपस्थिते।
सूतके मृतके वा ऽपि न त्याज्यं द्वादशी-व्रतम्॥
कूर्म-पुराणे –
रटन्तीह पुराणानि भूयो भूयो महा-मुने।
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरि-वासरे॥
नित्यं भक्ति-सदा-युक्तैर् नरैर् विष्णु-परायणैः।
पक्षे पक्षे च कर्तव्यम् एकादश्याम् उपोषणम्॥
इत्यादिभिर् अष्टभिर् हेतुभिर् उपवासस्य नित्यत्वं सिद्धम्। काम्यत्वञ् च सायुज्यादि-फल-श्रवणाद् अवगम्यते। तद् उक्तं विष्णु-रहस्ये –
यदीच्छेद् विष्णु-सायुज्यं सुतान् सम्पदम् आत्मनः।
एकादश्याम् उपवसेत् पक्षयोर् उभयोर् अपि॥
कात्यायनः –
ऐश्वर्यं सन्ततिं स्वर्गं मुक्तिं वा यद् यद् इच्छति। एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि॥
नारदोपि –
एकादशी-समं किञ्चित् पाप-त्राणं न विद्यते।
स्वर्ग–मोक्ष-प्रदा ह्य् एषा राज्य–पुत्र–प्रदायिनी॥
सु-कलत्र–प्रदा ह्य् एषा शरीरारोग्य-दायिनी॥
इत्यादि वचनात् काम्यत्वं सिद्धम्।
एकादशी-वेध-निर्णयः
उपवासाङ्ग-तिथि-निर्णयस्य वेधाधीनत्वात् प्रथमं तावद् वेधो निरूप्यते।
ब्रह्म-कैवर्ते –
कीदृशस् तु भवेद् वेधो योगो विप्रेन्द्र-कीदृशः।
योग-वेधौ ममाचक्ष्व याभ्यां दुष्टम् उपोषणम्॥
चतस्रो घटिकाः प्रातः अरुणोदय उच्यते।
चतुष्टय-विभागो ऽत्र वेधादीनां किलोदितः॥
अरुणोदय-वेधस् स्यात् सार्धन् तु घटिका त्रयम्।
अति वेधो द्वि-घटिका प्रभासं[[??]] दर्शनाद् रवेः॥
[[275]]
महा-वेधो ऽपि तत्रैव दृश्यते –
तुरीयस् तत्र कथितो योगस् सूर्योदये बुधैः।
सर्व-प्रकार-वेधो ऽयम् उपवासस्य दूषकः।
एते वेधातिवेध-महा-वेदाख्या दोषा उक्ताः, तेषु सत्सु एकादशीं सम्पृक्त–सन्दिग्ध–संयुक्त–सङ्कीर्ण-नामभिः व्यवह्रीयते, एतास् सम्पृक्तादयश् चतस्रो ऽपि त्याज्याः। तथा गोबिलः –
अरुणोदय-वेलायां दशमी यदि दृश्यते।
सम्पृक्तैकादशी तान् तु मोहिन्यै दत्तवान् विभुः॥
गारुड-पुराणे –
उदयात् प्राक् त्रि-घटिका व्यापिन्यैकादशी यदा।
सन्धिग्धैकादशी नाम वर्ज्या स्याद् धर्म-काङ्क्षिभिः॥
उदयात् प्राङ् मुहूर्तेन व्यापिन्येकादशी यदा।
संयुक्तैकादशी नाम वर्जयेद् धर्म-वृद्धये॥
आदित्योदय-वेलायां विद्यते दशमी यदि।
सङ्कीर्णैकादशी नाम त्याज्या धर्म-फलेप्सुभिः॥
इति,
पुत्र-पौत्र-प्रवृद्ध्य्-अर्थं द्वादश्याम् उपवासयेत्।
तत्र क्रतु-शतं पुण्यं त्रयोदश्यान् तु पारणम्॥
इति, अरुणोदय-वेधो ऽपि यदा सन्त्यज्यते तदा किमु वक्तव्यं सूर्योदय वेध इति। तथा ऽपि वक्ष्यते कण्व-स्मृतौ –
उदयोपरि विद्धा तु दशम्यैकादशी यदा।
दानवेभ्यः प्रीणनार्थं दत्तवान् पाक-शासनः॥
इति।
स्मृत्य्-अन्तरे ऽपि –
दशम्याः प्रान्तमादाय यदोदेति दिवाकरः।
तेन स्पृष्टं हरि-दिनं दत्तं जम्भासुराय तु॥
यदा दशम्यैकादशी-द्वादशीत्य् एतादृशं दिन-त्रयं भवति तदा कथम् उपवास इत्य् अत्राह ऋश्यशृङ्गः –
एकादशी यदा ब्रह्मन् दिन-त्रय-तिथिर् भवेत्।
तदा ह्य् एकादशीं त्यक्त्वा द्वादशीं समुपोषयेत्॥
कण्वः –
अरुणोदय-काले तु दशमी यदि दृश्यते।
तत्रोपोष्या द्वादशी स्यात् त्रयोदश्यान् तु पारणम्॥
[[276]]
नारदीये –
कलान्वये ऽपि विपेन्द्र दशम्यैकादशीं त्यजेत्।
सुराया बिन्दुना स्पृष्टं गङ्गाम्भ इव दुष्यति॥
ब्रह्माण्डे –
अरुणोदय-वेलायां दशमी-कलया ऽपि च।
त्याज्या मुमुक्षुभिर् नित्यं सुरा-मिश्रोदकं यथा॥
गारुड-पुराणे –
दशमी वेध-संयुक्तो यदि स्याद् अरुणोदयः।
नैवोपोष्यं वैष्णवेन तद्-दिनैकादशी-व्रतम्॥
हारीत-स्मृतौ –
दशमी [[??]]तां त्यक्त्वा वेलायाम् अरुणोदये।
उपोष्यैकादशीं शुद्धां द्वादशीं वा ऽपि वैष्णवः॥
भविष्यत्-पुराणे –
अरुणोदय-काले तु दशमी यत्र दृश्यते।
साविद्धैकादशी तत्र पाप-मूलम् उपोषणम्॥
स्मृति-सार-समुच्चये –
उदयात् प्राग् यदा विप्र मुहूर्त-द्वय-सङ्गता।
सम्पूर्णेकादशी सा स्यात् तत्रैवोपवसेद् गृही॥
सौर-धर्मे –
आदित्योदय-वेलायाः प्राङ् मुहूर्त-द्वयान्विता।
सैकादशी तु सम्पूर्णा विद्धा ऽन्या परिकीर्तिता॥
स्कान्द-पुराणे –
प्रतिपत्-प्रभृति ह्य् एता उदयाद् उदयाद् रवेः।
सम्पूर्ण इति विख्याता हरि-वासर–वर्जिता॥
दश-निर्णये –
द्वादशी तु कला-काष्ठा यदि स्याद् अपरे ऽहनि।
द्वादश द्वादशीर् हन्ति पूर्वस्यां पारणं कृतम्॥
सङ्ग्रहे –
विद्धा ऽप्य् एकादशी ग्राह्या परतो द्वादशी न चेत्।
शुद्धा ऽप्य् एकादशी त्याज्या परतो द्वादशी यदि॥
इदं स-काम-विषयम्।
ब्रह्माण्डे –
षट्-पञ्चाशद्-घटिकान्ते चतस्रो घटिकास् तु याः।
अरुणोदय इत्य् आहुस् तत्र वेधाश् चतुर्-विधाः॥
मात्स्ये –
उदयात् प्राक् चतस्रस् तु घटिका अरुणोदयः॥
गारुडे –
अर्ध-रात्रम् अतिक्रम्य दशमी दृश्यते यदि।
एकादशीं परित्यज्य द्वादशीम् उपवासयेत्॥
ब्रह्म-कैवर्ते –
अर्ध-रात्रे ऽपि केषाञ्चिद् दशम्या वेध इष्यते।
अरुणोदय-वेलायां नावकाशो विचारणे॥
[[277]]
नवमी-शेष-संयुक्त-दशमी-विचारः
अत्र केचिन् नवमी-युक्त-दशमीं त्याज्याम् आहुः तथा बृहद्-धारीतः –
नवमी कलया युक्ता यदि स्यात् पूर्व-वासरे।
एकादशीं तां सन्त्यज्य द्वादशीं समुपोषयेत्॥
उदये नवमी किञ्चिद् दशमी स-कला यदि।
उपोष्य द्वादशीं शुद्धां त्रयोदश्यान् तु पारणम्॥
इति। श्री-पाञ्च-रात्रे खगेन्द्र-संहितायाम् –
कला-मात्रा तु नवमी दशम्यां यदि दृश्यते।
पूर्वाम् एकादशीं त्यक्त्वा द्वादशीं समुपोषयेत्॥
श्री-पराशर-संहितायाम् –
नवमी शेष-संयुक्ता दशम्य् एकादशी-युता।
उपोष्य द्वादशीं तत्र पारणन् तु परे ऽहनि॥
सनत्-कुमार-संहितायाम् –
नवमी कलया यत्र दशम्यां यदि चेद् युता।
शुद्धाम् एकादशीं त्यक्त्वा द्वादशीं समुपोषयेत्॥
तत्र क्रतु-शतं पुण्यं त्रयोदश्यां तं पारणम्॥
श्री-पाञ्च-रात्रे पद्मोद्भव-संहितायाम् –
यदा तु नवमी किञ्चिद् दशम्यां यत्र संयुता।
एकादशीं परित्यज्य द्वादशीं समुपोषयेत्॥
पारणन् तु त्रयोदश्यां मम भक्तैस् समाचरेत्॥
दशमीं यो हि दृष्ट्वैव नवमी शेष-संयुताम्।
एकादशीम् उपवपेत् स तु मां नोपयास्यति॥
यो द्वादशीम् उपवसेन् मद्-भक्तस् स च मे प्रियः॥
पारणन् तु मम प्रीत्यै त्रयोदश्याम् अथाचरेत्॥
वायु-स्मृतौ –
अर्कोदय-दशम्यान् तु नवमी कलया यदि।
शुद्धाम् एकादशीं त्यक्त्वा द्वादशीं समुपोषयेत्॥
अरुणोदय-काले तु दशम्या व्याप्य संयुता।
दशम्याम् उदये किञ्चिन् नोपोष्यैकादशी तदा॥
द्वादशीं समुपोष्यैव त्रयोदश्यान् तु पारणम्॥
[[278]]
श्री-वाराहे –
कला-काष्ठादि-संयुक्ता दशम्यां नवमी यदि।
एकादशीं तदा त्यक्त्वा द्वादशीं समुपोषयेत्॥
नारदीये –
घटिका वा तद्-अर्धं वा दशम्यां नवमी भवेत्।
अरुणोदय-वेलायां दशम्या च न संयुताम्॥
एकादशीं विहायैतां द्वादश्यां समुपोषयेत्।
यदा त्व् आद्य्-अन्तयोर् एकादशी-त्रयोदश्योर् मध्ये द्वादशीत्य् एतादृशं दिनं भवति तदा नारदेन स्मर्यते –
एकादशी द्वादशी च रात्रि-शेषे त्रयोदशी।
तत्र क्रतु-शतं पुण्यं त्रयोदश्यां तु पारणम्॥
कूर्म-पुराणे –
एकादशी द्वादशी च रात्रि-शेषे त्रयोदशी।
त्रिभिर् या सा तिथिः कार्या सर्व-पाप-हरा स्मृता॥
चन्द्रिकायाम् –
एकादशी द्वादशी च रात्रि-शेषे त्रयोदशी।
त्रि-स्पर्शी नाम सा प्रोक्ता ब्रह्म-हत्यां व्यपोहति॥
स्मृति-सार-समुच्छये –
द्वि-स्पृग् एकादशी यत्र तत्र सन्निहितो हरिः।
पुण्यं क्रतु-शतस्योक्तं त्रयोदश्यां तु पारणम्॥
एकादशी द्वादशी च रात्रि-शेषे त्रयोदशी।
त्र्य्–अह-स्पृग्–अहो-रात्रं नोपोष्यं तत् सुतार्थिभिः॥
इति। स्मृति-सार-समुच्चये –
यानि कानि च वाक्यानि विद्धोपोष्य पराणि तु।
अ-सुराणां मोहनार्थं पाषण्डानां विवृद्धये॥
अतो विद्धां परित्यज्य द्वादशीम् उपवासयेत्॥
नारदीये –
मोहिन्यास् तु वचश् श्रुत्वा सुरास् सर्वे मही-पते।
सञ्चिन्त्य सुचिरं कालं दिग्-अम्बर–पुरो-गमाः॥
यमस्य दर्शनार्थाय वैकुण्ठ-व्यसनाय च।
पाषण्डीनां प्रवृद्ध्य्-अर्थं पाप-सञ्जननाय च॥
ऊचुस् ते मोहिनीं देवा लोक-सम्मोहनाय वै॥
उक्तं मोहिनि ते स्थानं प्रत्यूषे दशमी-युता॥
इति। नारदः –
न चेद् एका-दशी विष्णौ द्वादशी-परतस् तथा।
उपोष्य द्वादशीं तत्र यद् ईच्छेत् परमं पदम्॥
[[279]]
विद्धैकादश्य्-उपवासे प्रायश्चित्तम्
प्रमादाद् दशमी विद्धैकादश्य्-उपवासे प्रायश्चित्तम् उक्तं स्कान्दे –
उपोष्य दशमी विद्धां प्रायश्चित्तम् इदं चरेत्।
तप्त-कृच्छ्रं नरः पीत्वा गां दद्याच् च स-वत्सकाम्॥
सुवर्णस्यार्धकं देयं तिल–द्रोण–समन्वितम्॥
चन्द्रिकायाम् –
बहु–वाक्य–विरोधेन सन्देहो यत्र जायते।
उपोष्य द्वादशीं तत्र त्रयोदश्यां तु पारणम्॥
स्मृत्य्-अर्थ-सारे –
बह्व्-आगम-विरोधेन ब्राह्मणेषु विवादिषु।
उपोष्य द्वादशीं तत्र त्रयोदश्यां तु पारणम्॥
काल-प्रकाशिकायाम् –
बहुनात्र किम् उक्तेन सन्देहो जायते यदि।
एकादशीं परित्यज्य द्वादशीम् उपवासयेत्॥
पारणन् तु त्रयोदश्यां न कर्तव्यं फलार्थिभिः। पारणन् तु त्रयोदश्यां निष्कामानान् तु मुक्तिदम्॥
सम्पूर्णैकादशी यत्र प्रभाते पुनर् एव सा।
लुप्यते द्वादशी तस्मिन् उपवासः कथं भवेत्॥
पूर्वाम् उपवसन् कामी निष्कामास् तूत्तरां सदा॥
तथा बोधायनः –
निष्कामस् तु च गृह्णीयाद् उत्तरैकादशीं सदा।
स-कामस् तु सदा पूर्वाम् इति बोधायनो ऽब्रवीत्॥
इति।
शुद्धैव द्वादशी राजन्न् उपोष्या मोक्ष-काङ्क्षिभिः।
स-कामैर् गृहिभिः पूर्व-विद्धा ऽपीति विनिर्णयः॥
इति। शुद्धाधिकैकादशी विषये व्यासेन विशेषो दर्शितः –
सम्पूर्णैकादशी[[??]] यत्र प्रभाते पुनर् एव सा।
तत्रोपोष्या द्वितीया तु पुत्र-पौत्र-प्रवर्धिनी
गारुडे –
सम्पूर्णैकादशी यत्र प्रभाते पुनर् एव सा।
वैष्णवी चेत् त्रयोदश्यां घटिकैका ऽपि दृश्यति॥
गृहस्थो ऽपि परां कुर्यात् पूर्वां नोपवसेत् तदा॥
इति।
[[280]]
अधिक-द्वादशी-विषयः
अधिक-द्वादशी-विषयम् आह स्मृति-सार-समुच्चये –
सम्पूर्णैकादशी यत्र प्रभाते पुनर् एव सा।
द्वादश्याम् उपवासो ऽत्र त्रयोदश्यां तु पारणम्॥
वाराहे –
न चेद् एकादशी विष्णौ द्वादशी परतस् स्थिता।
उपोष्या द्वादशी तत्र यद् ईच्छेत् परमां गतिम्॥
स्मृत्य्-अन्तरे –
एकादशी तु सम्पूर्णा द्वादशी वृद्धि-गामिनी।
वञ्जुला नाम सा प्रोक्ता कोटि-यज्ञ–फल-प्रदा॥
वञ्जुलां द्वादशीं त्यक्त्वा यः कुर्यात् पूर्व-वासरे।
सप्त-जन्म-कृतं पुण्यं तत्-क्षणाद् एव नश्यति॥
श्रवण-द्वादशी-विचारः
…
नारदः –
शुक्ला वा यदि वा कृष्णा द्वादशी श्रवणान्विता।
तयोर् एवोपवासस् स्यात् त्रयोदश्यां तु पारणम्॥
दश-निर्णये –
यदा ह्य् एकादशी शुद्धा द्वादशी श्रवणान्विता।
शुद्धाम् एकादशीं त्यक्त्वा द्वादशीं समुपोषयेत्॥
सार-समुच्चये –
द्वादशीं श्रवणोपेतां
यो नोपोष्यति दुर्मतिः।
पञ्च-संवत्सर-कृतं
पुण्यं तस्य विनश्यति॥
इति प्रत्यवाय-स्मृतेः
श्रवण-द्वादशी नित्या।
अत्र “शुद्धाम् एकादशीं त्यक्त्वे"ति वचनम् अशक्त-विषयम्, शक्तस् तु एकादशीं श्रवण-द्वादशीञ् चोपवसेत्।
[[283]]
तथा सार-समुच्चये –
एकादशीम् उपोष्याथ द्वादशीं समुपोषयेत्।
न तत्र व्रत-लोपस् स्याद् उभयोर् देवता हरिः॥
अत्र एकाशी-युक्तैव श्रवण-द्वादश्य् उपोष्या न तु त्रयोदशी-युक्ता; तथा कौर्मे –
नाग-विद्धा तु यो षष्ठी रुद्र-विद्धो दिवाकरः।
काम-विद्धो भवेद् विष्णुर् हन्ति पुण्यं पुरा कृतम्॥
न ग्राह्यास् ते तु “वासरा” इति पाठान्तरम्।
नागः - सप्तमी, रुद्रः - अष्टमी, दिवाकरस् - सप्तमी, कामः - त्रयोदशी, विष्णुः - श्रवण-द्वादशी। वेधे नियमम् आह पैठीनसिः –
पक्ष-द्वये ऽपि तिथयस् तिथिं पूर्वां तथोत्तराम्।
त्रिभिर् मुहूर्तैर् विध्यन्ति सामान्यो ऽयं विधिस् स्मृतः॥
न पुनर् अत्र विशेष-विधिर् दृश्यते अतस् त्रि-मुहूर्त-वेध एवात्रग्राह्यः। विष्णु-पुराणे विशेषः –
याः काश्च तिथयः पुण्याः प्रोक्ता नक्षत्र-योगतः।
तान् वेव तद्-व्रतं कुर्याच् छ्रवण-द्वादशीं विना॥
द्वादशी-श्रवणर्क्षञ् च स्पृशेद् एकादशीं यदि।
स एव वैष्णवो योगो विष्णु-शृङ्खल–सञ्ज्ञितः॥
अत्र श्री-वैष्णव-विषये विशेषः। पराशर-धर्म-शास्त्रे उत्तर-खण्डे विंशतितमे ऽध्याये –
उपोष्यैकादशीं सम्यक् द्वादश्याम् अरुणोदये।
धात्री-स्नानं नरः कुर्यात् पूजयेन् मधु-सूदनम्॥
कोमलैस् तुलसी-पत्रैर् हृद्यैर् मञ्जरि-संयुतैः।
अर्चयेन् मन्त्र-रत्नेन शतम् अष्टोत्तरं हरिम्॥
मध्व्–आज्य–गुड–संयुक्तं पायसान्नं निवेदयेत्।
द्वयेन जुहुयाद् अग्नौ मन्त्रेणैव तु भक्तितः॥
सङ्ग्रहे –
एकादश्याम् अहो-रात्रं निराहारो जितेन्द्रियः।
विष्णुम् आराध्य तत्-तीर्थं पिबेत् तुलसि-संयुतम्॥
उपवास-दिने यस् तु तीर्थेन तुलसी-दलम्।
न प्राश्नाति विमूढात्मा रौरवं नरकं व्रजेत्॥
विष्णु-पादोदकं पीत्वा पश्चाद् अशुचि-शङ्कया।
प्रक्षालयति यः पाणिं स एव नरकं व्रजेत्॥
श्री-गारुड-पुराणे श्री-रङ्ग-माहात्म्ये नवतितमे ऽध्याये सङ्कल्पन-समापन-मन्त्राव् अभिहितौ
एकादश्याम् अहं किञ्चिद् अनश्नन् पुरुषोत्तम।
भ्योक्ष्ये ऽहनि परे श्रीमन् पाहि मां शरणागतम्॥
इति स्नानानन्तरं सङ्कल्प्य -
अनन्त-भव-संसिद्ध-पाप-प्रग्रथितं मनः।
ज्ञान-दीपास्त-तिमिरं व्रतेन कुरु मे ऽच्युत॥
इति पारणात् पूर्वं समापयेत्।
[[284]]
कला-मात्रावशिष्ट-द्वादशी-पारण-विचारः
नारदः –
कलायाम् अपि विपेन्द्र द्वादश्यां पारणं स्मृतम्।
अज्ञानाच् च त्रयोदश्यां पारणं राक्षसं भवेत्॥
यदा भवेत् त्रयोदश्यां द्वादश्यास् तु कला तदा।
द्वादश द्वादशीर् हन्ति त्रयोदश्यां तु पारणम्॥
काल-प्रकाशिकायाम् –
कला-द्वयं त्रयं वा ऽपि द्वादशीं न त्व् अतिक्रमेत्।
महा-हानि-करी ह्य् एषा द्वादशी-लङ्घने नृणाम्॥
यदा भवेद् अतीवाल्पा द्वादशी पारणा-दिने।
उषः काले द्वयं कुर्यात् प्रातर् माध्याह्निकञ् च यत्॥
पद्मे –
कलायाम् अपि राजेन्द्र द्वादश्याम् अरुणोदये।
स्नानार्चन-क्रिया कार्या दान-होमादि-संयुता॥
एतस्मात् कारणाद् विप्रः प्रत्यूषे स्नानम् आचरेत्।
पितृ-तर्पणादिकं कृत्यं स्वल्पां दृष्ट्वैव द्वादशीम्॥
अरुणोदय-वेलायां कृत्यं सर्वं समापयेत्।
नातिक्रमेद् द्वादशीं तु यथा-कालं द्विजोत्तमः॥
देवलः –
सङ्कटे विषमे प्राप्ते द्वादश्यां पारणं कथम्।
अद्भिस् तु पारणं कुर्यात् पुनर् भुक्तिर् न दोष-कृत्॥
अत्राष्टाङ्ग-भगवद्-आराधन-विषये विशेषा ऽभिहितश् श्री-पाञ्च-रात्र-रक्षायाम् –
एकादश्य्-आद्य्-उपवास-दिवसेषु अनुयागस्य लोपो भवति, तदानीं सप्ताङ्गम् एव यजनम्, अनुयागस्यानियतत्व-व्यञ्जनाय भाष्य-कारेण तदनुक्तिर्
इति।
कदाचिद् द्वादश्य्-आदिषु प्रभाते पारणं भवति, तद्-अर्थं पूर्वं यजने कृते ऽपि पश्चात् स्व-स्व काले मध्याह्ने सप्ताङ्ग-यजनं भवति, तदा पूर्व-दिवसार्जितैर् द्रव्यैर्
इति च।
[[285]]
उदक-पारणे मन्त्रम् आह सङ्ग्रह-कारः –
अशितानशितं यस्माद् आपो विद्वद्भिर् ईरिताः।
केवलेनाम्भसा तस्मात् करिष्ये व्रत-पारणम्॥
दश-निर्णये –
कांस्यं मांसं सुरां क्षौद्रं लोभं वितथ-भाषणम्।
व्यायामञ् च प्रवासञ् च दिवा स्वापम् (च मैथुनम्) अथाञ्जनम्॥
तिल-पिष्टं मसूरांश् च द्वादशैतानि वैष्णवः।
द्वादश्यां वर्जयेन् नित्यं सर्व-पापैः प्रमुच्यते॥
क्षौद्रम् अत्र शाकः।
द्वादश्यां पारणं कुर्याद् वर्जयित्वा ह्य् उपोतकीम्[[??]]॥
अनेन शाकं व्याख्यातम्।
दश-निर्णये –
व्यायामं व्यवसायञ् च दिवा स्वापञ् च मैथुनम्।
शुष्कुल्य्-अपूपं द्वादश्यां वर्जयेद् भोजनं पुनः॥
अतसी तुलसी चैव धात्री-फलम् अथाच्युतम्।
द्वादश्यां प्रथमं भुङ्क्ते जीवन्-मुक्तो न संशयः॥
अत्रेदं किञ्चिच् चिन्त्यते - “नित्यं नैमित्तिकं काम्यञ्” चेति त्रिविधं कर्म, तत्र नित्यं यथा-शक्ति करणेनापि चरितार्थम्, काम्यं तु सङ्गानुष्ठानेनैव सफलम्, तच् च न शक्यं कर्तुम्, द्रव्य-मनश्-शरीरादि-शुद्ध्य्-अभावात्; अतः काम्यानुष्ठानान् नित्य-सिद्धिर् इति व्यामोह-मात्रम्, कर्म-कर्तृ-साधन-वैगुण्येन काम्यस्यैवासिद्धेः;
अत एवापस्तम्बः –
नेमं लौकिकम् अर्थं पुरस्कृत्य धर्मांश् चरेन् निष्फला ह्य् अभ्युदये भवन्ति
इति साङ्गानुष्ठान-वैकल्येन काम्यस्य नैष्फल्यम् अभिधाय
तद् यथा आम्रे फलार्थे निमित्ते छाया-गन्ध इत्य् अनूत्पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते नोचेद् अनूत्पद्यन्ते न धर्म-हानिर् भवति
इति नित्यानुष्ठानाद् एव काम्य-सिद्धिम् आह। तथा उज्वलायां च –
यथेक्षु-हेतोस् सलिलं निषेचितं
तृणानि वल्लीर् अपि च प्रसिञ्चति।
एवं नरो धर्म-पथेन वर्तयन्
यशश् च कामांश् च वहानि चा ऽश्नुते॥
[[286]]
तथा स्मृत्य्-अन्तरे –
अ-कृत्स्नत्वात् साधनानां मौढ्यात् कर्म-कृतस् तथा। फलस्य चा ऽपि सम्बन्धाद् अ-पवित्रो विधिस् स्मृतः॥
आतो नित्यानुष्ठानेन[[??]] काम्य-सिद्धिः तद्-असिद्धाव् अपि[[??]] काम्यवन्नार्धहानिः[[??]]। एवं प्रथम-कल्प-शक्तस्यानुकल्पानुष्ठाने ऽपि नार्थसिद्धिः;
प्रभुः प्रथम-कल्पस्य यो ऽनुकल्पेन वर्तते।
न साम्परायिकं तस्य दुर्मतेर् विद्यते पलम्
इति मनु-याज्ञवल्क्यादि-स्मृतेः यथावन् मुख्य-कल्पासम्भवाद् गौण-कल्प-निषेधाच् च यथा-शक्ति नित्यम् एवानुष्ठेयम्।
पाद्मे –
हरि-दिवसम् उपोष्य प्रोक्त-मार्गेण जन्तुर्
व्रजति न पुनर् अन्तर्-वर्ति-गोलं जनन्याः।
बहु-वृजिन-समेतः कामरागान्वितो ऽपि
व्रजति पदम् अनन्तं लोक-नाथस्य विष्णोः॥