०६ कृष्ण-जयन्ती-निर्णयः

दश-निर्णये –

सिंह-स्थे ऽर्के ऽसिते पक्षे
रोहिण्याम् अष्टमी युते।
चन्द्रोदये जयन्ती स्यात्
केशवाराधनं परम्॥

काल-प्रकाशिकायाम् –

श्रावणे मासि रोहिण्यां कृष्णाष्टम्याञ् च हर्षणे[[??]]।
बुध-वारे वृषे लग्ने जातो देवकि-नन्दनः॥
शुद्धा विद्धेति मुनिभिर् जयन्ती द्वि-विधा स्मृता।
शुद्धा मुमुक्षुभिर् ग्राह्या न तु विद्धा कदाचन॥
अष्टमी सप्तमी विद्धा रोहिणी कृत्तिकायुता।
विद्धेति प्रोच्यते तत्र नोपवासाधिकं चरेत्॥
सूर्योदये कृत्तिकया विद्धा स्याद् रोहिणी यदि।
प्रातः काले न वेधो[[??]] ऽयं निन्दितो व्रत-कर्मणि॥

तत्रैव –

अष्टम्यां वा नवम्यां वा दशम्यां यदि रोहिणी।
अविद्धा यदि लभ्येत सा जयन्ती प्रकीर्तिताः॥

नारदीये –

जयन्ती द्वि-विधा प्रोक्ता शुद्धा विद्धेति तद् द्विधा।
विद्धा तु सप्तमी युक्ता शुद्धा तु नवमी युता॥
रोहिणी कृत्तिका युक्ता विद्धा शुद्धा वरान्विता॥

[[267]]

नारदीय-संहितायाम् –

अष्टम्यां वा नवम्यां वा दशम्यां यदि रोहिणी।
सा जयन्तीति विख्याता प्रशस्ता भुक्ति–मुक्ति–दा॥

ज्योतिषार्णवे –

श्रावण्यां प्रोष्ठपद्यां वा यदा सिंह-गतो रविः।
जयन्त्य् आराधनं कुर्यान् न तु कर्कट-कन्ययोः॥

ब्रह्म-संहितायाम् –

शुद्धाष्टमीं विनावापि शुद्धर्क्षस्याप्य् अभावतः।
मृगेण च दशम्या च युक्ता ग्राह्या तु वैष्णवैः॥

तत्रैव –

ब्राह्मणैः क्षत्रियैर् वैश्यैश् शूद्रैश् च मुनि-सत्तम।
विशुद्धोपोषणं कार्यं नित्यं विष्णु-परायणैः॥

काल-प्रकाशिकायाम् –

मासे संवत्सरे चैव तिथि-द्वैधं यदा भवेत्।
तत्रोत्तरा तिथिर् ग्राह्या दैव-सङ्क्रान्त्य्-अ-वेधिता॥
सङ्क्रान्ति-वेधिता या तु द्वयोस् सा परिवर्जिता।
एका सङ्क्रान्तिना त्व् अन्या सप्तमी कृत्तिका युता॥
सप्तमी वेधितां त्यक्त्वा भजेत् सङ्क्रान्त्य्-अ-वेधिताम्॥

जयन्ती विद्धा ऽपि बुधवार-युक्ता चेत् सैव वैष्णवैर् अपि ग्राह्या; तथा दश-निर्णये –

चन्द्रोदये ऽष्टमी युक्ता रोहिणी बुध-वार-गा।
विद्धा ऽपि वैष्णवैर् ग्राह्या (विद्धा शुद्धा ऽपि वा ग्राह्या) ह्य् उपवासार्चनादिषु॥

इतिः। तत्रैव - “जयन्ती द्वि-विधे"त्यादिना विद्धाम् अभिधाय “एषा जयन्ती विद्धोक्ता ह्य् अविद्धां श्रुणु नारदे"त्य् उपक्रम्य बुध-वारं बहुशः प्रशस्य

तस्माज् जयन्ती विज्ञेया बुध-वार-युता शुभा।
एषा जयन्ती शुद्धाख्या भुक्ति–मुक्ति–फल–प्रदा॥

इति वार-योगातिशयेन विद्धाया अपि शुद्धत्वाभिधानाद् इति।

दश-निर्णये –

ये न कुर्वन्ति जानन्तः कृष्ण-जन्माष्टमी व्रतम्।
ते भवन्ति नराः प्राज्ञा व्याल-व्याघ्राश् च कानने॥
क्रिया-हीनस्य मूर्खस्य परान्नं भुञ्जतो ऽसतः।
कृतघ्नस्य न लोको ऽस्ति जयन्त्यां भुञ्जतस् तथा॥
जयन्ती वासरे प्राप्ते करोत्य् उदर-पोषणम्।
छिद्यते तिलशः कुक्षिर् यम-दूतैस् सहस्रशः॥

इति प्रत्यवाय-स्मृतेर् नित्यं फल-श्रवणात् काम्यञ् च काल-प्रकाशिकायाम् –

वर्षे वर्षे च कर्तव्यं कृष्ण–जन्म–दिनोत्सवम्।
उपवासश् च कर्तव्यो महा–पातक–नाशनः॥

[[268]]

पारणम्

दश-निर्णये –

भक्तानां वैष्णवानाञ् च शुद्धानां नियतात्मनाम्।
विहिता सात्त्वताभिज्ञैः रात्राव् एव तु पारणम्॥

शुद्धानाम् - प्रयोजनान्तर-गन्ध-रहितानाम्, भक्तः – वैष्णवः।

अनन्य-देवता-भक्ता ये मद्-भक्त–जन-प्रियाः।
मामेव शरणं प्राप्ता मद्-भक्तास् ते प्रकीर्तिताः॥
अधृत्वा विधिना चक्रं ब्राह्मणः प्राकृतो भवेत्।
विष्णुर् एव हि येषां वै दैवता वैष्णवास् तु ते॥

आश्वमेधिके –

पञ्च-काल-रतानाञ् च दीक्षितैकान्तिनाम् अपि।
भक्तैर् भागवतैस् सार्धं रात्रौ वेव तु पारणम्॥

सङ्ग्रहे –

जयन्ती-वासरे प्राप्ते पञ्च-काल-रतात्मभिः।
करणीयं प्रयत्नेन रात्राव् एव तु पारणम्॥