त्रेतादाव् आदि-कल्पे ऽखिल-कमल-भवे माधवे मासि पक्षे शुक्ले साध्ये च योगे फणिमित-करणे भूत-तिथ्यां मरुद्भे। मन्दे वारे प्रदोषे कनक-कशिपोः खण्डनार्थं जनित्वा रक्षस्-स्तम्भान् नखाग्रैस् तम् अहनद् अखिल-त्राण-हेतुर् नृसिंहः॥