०४ वैशाख-पूर्णिमायां धात्री-स्नानम्

श्री-पराशर-धर्म-शास्त्रे उत्तर-खण्डे विंशे ऽध्याये –

वैशाख्यां पौर्णमास्यां वा प्रभाते विमले सति।
धात्री-स्नानं नरः कृत्वा कृत-कृत्यो यथा-विधि॥
रक्तास् सरो-रुहैर् देवम् अर्चयेन् मधुसूदनम्।
दध्य्-अन्नं पानकं शीतं हृद्यैश् चूत-फलैस् सह॥
निवेद्य वैष्णवान् भक्त्या पूजयेत् प्रयतो द्विजः।
सहस्र-वार्षिकीं पूजां युज्यते नात्र संशयः ॥