फल-पूजा - विश्वामित्र-संहितायां[[??]] षड्विंशे ऽध्याये –
वैशाखस्य सिते पक्षे विशाखा पौर्णमी-युता।
उत्तमोत्तमम् एवोक्तं (सर्व-पाप-प्रणाशनम्) विचारन् तु न कारयेत्॥
विशाख-ऋक्षायोगे ऽपि केवलायां तिथौ भवेत्।
विशाखोत्सवम् एवोक्तं सर्व-पाप-प्रणाशनम्॥
चूतादिषु समस्तानि फलान्य् आहृत्य देशिकः।
पाचयेद् गुड-मिश्रन् तु मरीची जीरकान्वितम्॥
नारिकेल-फलोपेतम् एला–कर्पूर-मिश्रितम्।
पाचयेत् क्षीर-मिश्रन् तु महा-हविस्-समन्वितम्॥
इत्य् आरभ्य -
चूतादि-फल-संयुक्तं यथा-कामं प्रदापयेत्।
महा-हविर्-निवेद्याथ ताम्बूलं च निवेदयेत्॥
[[266]]