०२ श्री-राम-नवमी

श्री-पराशर-धर्म-शास्त्रे उत्तर-खण्डे विंशतितमे ऽध्याये –

मासि चैत्रे शुक्ल-पक्षे नवम्याञ् च पुनर्वसौ।
तस्यां जुतो जगन्-नाथः काकुथ्सो हरिर् अच्युतः॥
तस्याम् उपोष्य विधिवत् स्नात्वा सम्पूजयेद् विभुम्।
रामं कमल-पत्राक्षं कौसल्या-नन्द-वर्धनम्॥
नैवेद्यैर् भक्ष्य-भोज्यैश् च पूजा-जागरणादिभिः।
जपैर् होमैश् च दानैश् च तत्र कुर्वीत मङ्गलम्॥
त्रि-वारं सम्प्रकुर्वीत जप-होमार्चनादिभिः।
पूर्णे महोत्सवे रम्ये कुर्याद् अवभृथं शुभम्॥ ब्राह्मणान् भोजयेच् छक्त्या दक्षिणाभिः प्रतोषयेत्॥

वासिष्ठ-संहितायां षष्ठे ऽध्याये –

मासि चैत्रे सिते पक्ष्ये नवम्याञ् च पुनर्वसौ।
कौसल्यायां समुत्पन्नो विष्णुः काकुत्स्थ ईरितः॥
तस्यां स्नानोपवासाद्यैः पूजा-जागरणादिभिः।
अर्चयेद् गन्ध-पुष्पाद्यैर् गीत-वादित्र-नर्तनैः॥
अत्रोत्सवं प्रकुर्वीत कृष्ण-जन्माहवन् नरः।

श्री-पञ्च-रात्रे अगस्त्य-संहितायां पारमहंस्ये एक-विंशे ऽध्याये –

चैत्र-मासे नवम्यान् तु जातो रामस् स्वयं हरिः।
पुनर्वस्वर्क्ष-संयुक्ता सा तिथिस् सर्व-कामदा॥ पुनर्वस्वर्क्ष-संयोगस् स्वल्पो ऽपि यदि दृश्यते।
चैत्र-शुद्ध-नवम्यान् तु सुपुण्या सर्व-कामदा॥
श्री-राम-नवमी प्रोक्ता कोटि-सूर्य-ग्रहाधिका।
चैत्र-मासे शुद्ध-नवमी पुनर्वसु युता यदि॥
तस्मिन् दिने महा-पुण्ये रामम् उद्दिश्य भक्तितः॥
सकृत् कृतं भवेत् कर्म तद्भ भव-क्षय-कारणम्।
उपोषणं जागरणं तस्मिन् कुर्याद् विशेषतः॥
यस् तु राम-नवम्यान् तु भुङ्क्ते मोहाद् विमूढ-धीः।
रौरवं नरकं प्राप्य पद्यते वर्ष-कोटिकम्॥ सूर्य-ग्रहे कुरु-क्षेत्रे महा-दानैः कृतं मुने।
यत् फलं समवाप्नोति श्री-राम-नवमी व्रतात्॥
कुर्याद् राम-नवम्यान् तु उपोषणम् अतन्द्रितः।
मातृ-गर्भम् अवाप्नोति नैव रामो भवेत् स्वयम्॥
नवमी चाष्टमीविद्धा त्याज्या विष्णु-परायणै।
उपोषणं नवम्याञ् च दशम्याम् एव पारणम्॥

[[265]]

तत्रैव षड्विंशे ऽध्याये –

यस् तु राम-नवम्यान् तु भुङ्क्ते स च नराधमः।
कुम्भी-पाकेषु घोरेषु पच्यते नात्र संशयः॥
अकृत्वा राम-नवमी-व्रतं सर्व-व्रतोत्तमम्।
व्रतान्य् अन्यानि कुरुते न तेषां फलभाग् भवेत्॥
रहस्य् अकृत-पापानि प्रख्यातानि बहूनि च।
महान्ति च प्रणश्यन्ति श्री-राम-नवमी-व्रतात्॥
एकाम् अपि नरो भक्त्या श्री-राम-नवमीं मुने।
उपोष्य कृत-कृत्यस् स्यात् सर्व-पापैः प्रमुच्यते॥

सङ्ग्रहे –

जयन्ती द्वि-विधा प्रोक्ता मत्स्यादि-दश-जन्मनाम्।
तिथि-प्रधानं सर्वेषां विना कृष्ण-त्रिविक्रमौ॥
पुनर्वसौ चैत्र-मासे जन्म रामस्य मङ्गलम्।
तिथौ नवम्यां लग्ने च कुलीरे कमलासन॥

इदं श्री-राम-नवमी-व्रतं नित्यं प्रत्यवाय-स्मृतेः ; फल-श्रवषात् काम्यञ् च।