अथ मार्गशीर्षादि-नैमित्तिकाराधन-विषये किञ्चिद् उच्यते। ज्योतिश्-शास्त्रे भास्करीये –
अयनं दक्षिणं रात्रिर् उत्तरन् तु दिनं भवेत्।
दैवतं तद्-अहोरात्रं तत् त्रिंशन्-मास उच्यते॥
तद्-दिनस्य उषः कालं चापमासं विदुर् बुधाः।
तस्मात् सर्व-प्रयत्नेन चापमासे दिने दिने॥
उषः काले तु सम्प्राप्ते बोधयित्वा जगत्-पतिम्।
समभ्यर्च्य भजेद् विष्णुं जनानां दोष-शान्तये॥
ब्रह्माण्डे –
आषाढादिषु मासेषु शयानं कार्तिकावधि।
चापङ्गते दिवानाथे उत्थाप्य शयनाद् धरिम्॥
स विष्णु-लक्षणैस् स्तोत्रैर् बहुभिः परिगीयते।
उषः काले तु सम्प्राप्ते अर्चयित्वा जनार्धनम्॥
उपचारैश् षोडशभिर् मुद्गान्नञ् च निवेदयेत्॥
आदित्य-पुराणे –
चापङ्गते ततस् सूर्ये प्रत्यूषे स्नानम् आचरेत्। अर्चयेच् च जगन्-नाथं यावत् सूर्योदयात् पुरा॥
ततः प्रभात-समये अर्घ्यं प्रक्षिप्य वैष्णवम्।
गायत्रीं च ततो जप्त्वा उपतिष्ठेत भास्करम्॥
अतः प्राग् उदयाद् एवार्चनं “विष्ण्व्-अर्चानन्तरम् एव सन्ध्योपासनम्” इति सिद्धम्। अत्र श्रुतिः –
तद्-अस्य प्रियम् अभिपाथो अश्यां - नरो यत्र देव यवो मदन्ति - उरु-क्रमस्य सह बन्धुरित्था - विष्णोः पदे परमे मध्ववुत्सः॥ [[TODO: परिष्कार्यम्]]
अयम् अर्थः - विष्णोः प्रियं तत्-पाथः - निवेदितम् अन्नादिकम् अभ्यश्याम्, देवयवो नरः - देवाराधका जनाः, यत्र मदन्ति - यस्मिन् निवेदिते हृष्यन्ति, निवेदित-तीर्थ-प्रसादादिकं स्वीकृत्य हृष्टा भवन्तीत्य् अर्थः। इत्थं प्रतिदिनं वर्तमानः, उरुक्रमस्य - विष्णोः, बन्धुः - स एवातीवाभिमतः, परमे - सर्वोत्कृष्टे, मधुवद् भोग्यतमे, विष्णोः पदे, वुत्सः - उत्सुक इति।
त्वयोपभुक्त-स्रग्–गन्ध–वासोलङ्कार–चर्चिताः।
उच्छिष्ट-भोजिनो दासास् तव मायां तरेम हि
इत्य् उक्त-रीत्या वर्ततेत्य् अर्थः पराशरः –
द्वादश्यां शुक्ल-पक्षे तु तपो-मासे विधानतः।
क्रोध-रूपं[[??]] हरिं सम्यग् अर्चयेत् पुरुषोत्तमम्॥
[[264]]