स्वाध्यायः
ॐ कृतञ् च + स्वाध्याये + अर्चयिष्यामि + भगवतो + वासुदेववस्य।
ॐ भगवान् एव + स्वाध्यायं मया कारयति
इति सङ्कल्प्य
मूल-मन्त्रादिकं यथा-शक्ति जपित्वा
पुराणादिभिश् शेषं कालं नयेत्।
अत्र वङ्गीश्वरः -
अर्चयंश् च ततो देवं
ततो मन्त्रान् जपन्न् अपि
इति।
शाण्डिल्यः –
अष्टाङ्ग-योग-प्रीतिञ् च
कृत्वा ध्यान-परो वशी।
स्वाध्यायम् अपि सङ्कल्प्य
यथा-शक्ति जपेन् मम॥
स्तोत्र-पाठैश् च सन्तोष्य
शक्तश् चेद् गान-विद्यया।
स्वर-योगेन देवेशं
तोषयेद् भक्ति-वृद्धये॥
स एव –
सच्-छास्त्र-पाठ-पठनैश्
शास्त्रार्थस्यापि शिक्षया।
शास्त्रार्थ-ज्ञापनैर् वा ऽपि
शिक्षयेच् छास्त्रम् आदरात्॥
व्याख्याया लेखनेनापि
ग्रन्थ-निर्माण-कर्मणा।
शिष्याणां शिक्षया वा ऽपि
स्वाध्यायार्थो ऽयम् उच्यते॥ +++(5)+++
दक्षः –
इतिहास-पुराणाभ्यां
षष्ठं सप्तमम् अभ्यसेत्।
शङ्खः –
भुक्त्वोपस्थाय मार्ताण्डं
पुराणानि सदा पठेत्। भाव-शुद्ध्या हरौ भक्तिः
पुराण-श्रवणाद् भवेत्॥ +++(5)+++
लिखितः –
विचार्य च पुराणार्थान्
वेदार्थान् भक्तिमान् स्थितः। विष्णुं सदा हृदि ध्यायेत्
सकलं निष्कलं तु वा॥
शाण्डिल्यः –
सकृद् आवर्तितो ह्य् एष
स्वाध्याये द्वादशाक्षरः।
भक्तानां पातकान्य् आशु
नाशयत्य् अवशाद् इव ॥
[[263]]