भुक्त्वा तु सुखम् आसीनस्
ताम्बूलं भक्षयेद् द्विजः।
निवेदितं भगवतः
परिशुद्धं यथा-विधि॥
सङ्ग्रहे –
भुक्त्वा तु सुखम् आसीनस्
ताम्बूलेनास्य-शोधनम्।
सु-पूगञ् च सु-पत्रञ् च
सुधया च समन्वितम्॥
प्रदद्याद् द्विज-देवेभ्यस्
ताम्बूलं चार्पयेद् बुधः।
एक-पूगं सुखारोग्यं
द्वि-पूगं निष्फलं भवेत्॥
अतिश्रेष्ठं त्रि-पूगन् तु
अधिकं नैव दुष्यति।पर्ण-मूले भवेद् व्याधिः
पर्णाग्रे पाप-सम्भवः॥
चूर्ण-पर्णं हरत्य् आयुस्
सिरा बुद्धि-विनाशिनी।
अखण्डितञ् च क्रमुकं
पर्णम् अक्षालितं तथा॥
अशोधितं तथा चूर्णं
भक्षयन् सर्व-दोष-भाक्।
अनिधाय मुखे पर्णं
पूगं खादति यो नरः॥
सप्त–जन्म–दरिद्रस् स्यान्
नरकेषु निमज्जति॥
निषेधः
गौतमः –
अमा-श्राद्धादि-काले तु
यस् ताम्बूलन् तु खादयेत्।
तस्य दोष-विशुद्ध्य्-अर्थं
जपेद् अष्टोत्तरं बुधः॥
अन्यथा दोषम् आप्नोति
विष्ठाशी जायते भुवि॥
हेमाद्रौ –
अमायां श्राद्ध-दिवसे
तीर्थ-यात्रासु सर्वदा।
क्षायाशौचे बन्धु-मृतौ
पक्ष-द्वय-हरेर् दिने॥
अश्नीयान् मार्ग-मध्ये च
सन्ध्ययोर् उभयोर् अपि।
देवालये सभा-स्थाने
तथा कर्मणि भाषणे॥
दुःखायिते बहु-जने
तथैवोत्पात-दर्शने।
राज-भङ्ग–प्रजा-क्षोभ–
गुरु–देवार्चनेषु च॥
व्रताचरण-काले तु
पुराण-श्रवणे तथा।
ताम्बूलं भक्षयेद् यस् तु
विष्ठा-समम् इदन् नृप॥
इति।