१५ देव-स्मृतिः


और्वः –

भुक्त्वा सम्यग् अथाचम्य
प्राङ्-मुखोदङ्-मुखो ऽपि वा।
स्वस्थः प्रशान्त-चित्तस् तु
कृतासन-परिग्रहः॥
अभीष्ट-देवतानान् तु
कुर्यात् संस्मरणं बुधः॥ +++(4)+++


कुत्सः –

आचान्तो नाभि-देशन् तु
“प्राणानां ग्रन्थिर् असी"ति।
विमृश्यादित्यम् ईक्षेत
रात्रौ दीप-मुखं ततः॥

व्यासः –

आचम्या"ङ्गुष्ठ-मात्रे"ति
पादाङ्गुष्ठे तु दक्षिणे।
निस्रावयेद् +धस्त-जलम्
ऊर्ध्व-हस्तस् समाहितः
हुतानुमन्त्रणं कुर्याच्
“छ्रद्धायाम्” इति मन्त्रतः।
अथाक्षरेण स्वात्मानं
योजयेद् “ब्रह्मणी"ति हि॥
सर्वेषाम् एव योगानाम्
आत्म-योगः परस् स्मृतः
यो ऽनेन विधिना कुर्यात्
याति पदम् अक्षयम्॥

[[260]]

अङ्गुष्ठमात्रः पुरुषो
ऽङ्गुष्ठञ्च॑ समा॒श्रितः ।
ईशस्सर्वस्य जगतः
प्रभुः प्रीणाति॑ विश्व॒भुक् । (53)

३२-३६ प्राणे निविष्टः …{Loading}…

विश्वास-प्रस्तुतिः

अ॒मृ॒तो॒प॒स्तर॑णमसि । (47)

मूलम्

अ॒मृ॒तो॒प॒स्तर॑णमसि । (47)

विश्वास-प्रस्तुतिः

प्रा॒णे निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । प्रा॒णाय॒ स्वाहा॑ ।
अ॒पा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । अ॒पा॒नाय॒ स्वाहा॑ ।
व्या॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । व्यानाय॒ स्वाहा॑ ।
उ॒दा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । उ॒दा॒नाय॒ स्वाहा॑ ।
स॒मा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । स॒मा॒नाय॒ स्वाहा॑ ।

मूलम्

प्रा॒णे निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । प्रा॒णाय॒ स्वाहा॑ ।
अ॒पा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । अ॒पा॒नाय॒ स्वाहा॑ ।
व्या॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । व्यानाय॒ स्वाहा॑ ।
उ॒दा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । उ॒दा॒नाय॒ स्वाहा॑ ।
स॒मा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि । स॒मा॒नाय॒ स्वाहा॑ ।

विश्वास-प्रस्तुतिः

ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । (48)

मूलम्

ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । (48)

विश्वास-प्रस्तुतिः

प्रा॒णे निवि॑ष्टो॒ ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
प्रा॒णाय॒ स्वाहा॑ ।

अ॒पा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
अ॒पा॒नाय॒ स्वाहा॑ ।

व्या॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
व्या॒नाय॒ स्वाहा॑ ।

उ॒दा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
उ॒दा॒नाय॒ स्वाहा॑ ।

स॒मा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
समा॒नाय॒ स्वाहा॑ ।

मूलम्

प्रा॒णे निवि॑ष्टो॒ ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
प्रा॒णाय॒ स्वाहा॑ ।

अ॒पा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
अ॒पा॒नाय॒ स्वाहा॑ ।

व्या॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
व्या॒नाय॒ स्वाहा॑ ।

उ॒दा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
उ॒दा॒नाय॒ स्वाहा॑ ।

स॒मा॒ने निवि॑ष्टो॒ऽमृत॑ञ्जुहोमि।
शि॒वो मा॑ ऽऽवि॒शाऽप्र॑दाहाय।
समा॒नाय॒ स्वाहा॑ ।

विश्वास-प्रस्तुतिः

ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । (48)

मूलम्

ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । (48)

विश्वास-प्रस्तुतिः

अ॒मृ॒ता॒पि॒धा॒नम॑सि । (50)

मूलम्

अ॒मृ॒ता॒पि॒धा॒नम॑सि । (50)

विश्वास-प्रस्तुतिः
  • श्र॒द्धायां॑ प्रा॒णे निवि॑श्या॒मृतँ॑ हु॒तम्, प्रा॒णम् अन्ने॑नाप्यायस्व ।
  • अ॒पा॒ने निवि॑श्या॒मृतँ॑ हु॒तम्, अ॑पा॒नम् अन्ने॑नाप्यायस्व ।
  • व्या॒ने निवि॑श्या॒मृतँ॑ हु॒तव्ँ, व्या॒नम् अन्ने॑नाप्यायस्व ।
  • उ॒दा॒ने निवि॑श्या॒मृतँ॑ हु॒तम्, उ॑दा॒नम् अन्ने॑नाप्यायस्व ।
  • स॒मा॒ने निवि॑श्या॒मृतँ॑ हु॒तँ, स॑मा॒नम् अन्ने॑नाप्यायस्व ।
  • ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । (51)
मूलम् - आन्ध्रपाठः
  • श्र॒द्धायां॑ प्रा॒णे निवि॑श्या॒मृतँ॑ हु॒तम्, प्रा॒णम् अन्ने॑नाप्यायस्व ।
  • अ॒पा॒ने निवि॑श्या॒मृतँ॑ हु॒तम्, अ॑पा॒नम् अन्ने॑नाप्यायस्व ।
  • व्या॒ने निवि॑श्या॒मृतँ॑ हु॒तव्ँ, व्या॒नम् अन्ने॑नाप्यायस्व ।
  • उ॒दा॒ने निवि॑श्या॒मृतँ॑ हु॒तम्, उ॑दा॒नम् अन्ने॑नाप्यायस्व ।
  • स॒मा॒ने निवि॑श्या॒मृतँ॑ हु॒तँ, स॑मा॒नम् अन्ने॑नाप्यायस्व ।
  • ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । (51)
विश्वास-प्रस्तुतिः

ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । (48)

मूलम्

ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । (48)

श्री-विष्णु-पुराणे –

अग्निर् आप्याययेद् धातुं
पार्थिवं पवनेरितः
दत्तावकाशं नभसा
जरयत्य् अस्तु मे सुखम्॥

अन्नं बलाय मे भूमेर्
अपाम् अग्न्य्-अनिलस्य च।
भवत्व् एतत् परिणतं
ममास्त्व् अविरतं सुखम्॥

प्राणापान-समानानाम्
उदान-व्यानयोस् तथा।
अन्नं पुष्टि-करञ् चास्तु
ममाप्य् अनाहतं सुखम्॥

अगस्तिर् अग्निर् बडबानलश् च
भुक्तं मया ऽन्नं जरयत्व् अशेषम्।
सुखञ् च मे तत् परिणाम-जातं
यच्छत्व् अरोगं मम चास्तु देहे।

विष्णुस् समस्तेन्द्रिय-देह-देही
प्रधान-भूतो भगवान् यथैकः। सत्येन तेनात्तम् अशेषम्
अन्नम् आरोग्य-दं मे परिणामम् एतु॥ +++(5)+++

विष्णुर् अत्ता तथैवान्नं
परिणामश् च वै यतः।
सत्येन तेन मद्-भुक्तं
जीर्यत्व् अन्नम् इदं तथा॥

इत्य् उच्छार्य स्व-हस्तेन
परिमृश्य तथोदरम्।
अनायास-प्रदायीनि
कुर्यात् कर्माण्य् अतन्द्रितः॥

तुलसी-भक्षः

शाण्डिल्यः –

आदाय तुलसीं त्यक्तां
भगवत्-पाद–मण्डिताम्।
भक्षयेच् छोधयेद् देहं
भगवत्-पाद–वारिणा॥
भक्षितं भगवत्-पाद–
संस्पृष्टं तुलसी-दलम्।
आरोग्यं भक्ति-वृद्धिञ्
पाप-हानिं करोत्य् अपि॥

सङ्ग्रहे –

भोजनानन्तरं विष्णोर्
अर्पितं तुलसी-दलम्।
भक्षयेत् सर्व-पाप-घ्नं
चान्द्रायण-शताधिकम्॥

[[261]]