…
उत्तरापोऽशनम्
मार्कण्डेयः –
गण्डूष-करणात् पूर्वं हस्तं प्रक्षालयेद् द्विजः।
हतं दैवञ् च पित्र्यञ् च
आत्मानञ् चापि घातयेत्॥
गूण्डूषम् अत्रोत्तरापोशनम्, यतस् स एवाह –
अर्धं पिबति गण्डूषम्
अर्धं त्यजति भू-तले।
प्रीणन्ति पितरस् सर्वे
ये चान्ये भूमि-देवताः॥
गण्डूषार्ध-त्याग-मन्त्रम् आह स एव –
रौरवे ऽपुण्य-निलये
पद्मार्बुद-निवासिनाम्।
अर्थिनाम् उदकं दत्तम्
अक्षय्यम् उपतिष्ठतु॥
“अपुण्य-निलय” इति पदच्छेदः।
रत्नाकरे –
हस्तं निर्लिह्य च क्षाल्य
विधूयोद्धूय पात्रतः।
गण्डूषं धारयेद् यस् तु
सुराम् इव स धारयेत्॥
पवित्र-त्यागः
स्मृत्य्-अन्तरे –
दक्षिणे भू-तले त्यक्त्वा
गण्डूषार्धं द्विजोत्तमः।
तत्रैव विसृजेद् विद्वान्
विसृज्य च पवित्रकम्॥
रत्नाकरे –
भुक्त्वा ग्रन्थिं निसृज्याथ
तेन पीत्वा जलं सह। तत् पवित्रं त्यजेद् भूमाव्
अथ मन्त्रेण मन्त्र-वित्॥
विस्मृत्य यदि पात्रे तु
पवित्रं विसृजेद् यदि।
प्रायश्-चित्तं चरेत् कृच्छ्रं
तत्-किल्बिष-विशुद्धये॥
[[259]]
क्षालनादि
शाण्डिल्यः –
माषादि-चूर्णैर् मृद्भिर् वा
प्रक्षाल्य करयोर् द्वयम्।
प्रक्षाल्य जानु-पादौ च
काष्ठैर् दन्तान् विशोधयेत्॥
रत्नाकरे –
मूत्रे पुरीषे भुक्त्य्-अन्ते
ऽभक्ष्याणां भक्षणे ऽपि च।
चतुर्–अष्ट–द्वि-षट्–द्व्य्-अष्ट–
गण्डूषैस् तु विशुद्ध्यति॥ +++(5)+++
न गण्डूष-पानम्
… शातातपः –
आस्यं प्रक्षाल्य गण्डूषं
पिबेद् भुक्त्वा च यो द्विजः।
दैवं श्राद्धम् असौ हन्यात्
पितॄन् आत्मानम् एव च॥
गण्डूष-काले आस्य-स्थ-जलं न पिबेद् इत्य् अर्थः।
आचमनम्, शोधनम्
…
आचान्तो ऽप्य् अशुचिस् तावद्
यावत् पात्रम् अनुद्धृतम्।
उद्धृते ऽप्य् अशुचिस् तावद्
यावन् मण्डल-शोधनम्॥ +++(5)+++
रत्नाकरे –
भुक्तोच्छिष्टस् त्व् अनाचान्तश्
शूद्रादीन् यदि पश्यति।
प्रायश्चित्तम् अकुर्वाणः
तैस् सार्धं भुक्तवान् असौ॥