प्राजापत्याद्य्-अशक्तौ विज्ञानेश्वरे –
प्राजापत्ये तु गाम् एकां
दद्यात् सान्तपने द्वयम्।
पराक-तप्त-कृच्छ्राति-
कृच्छ्रे तिस्रस् तु गास् स्मृताः॥
प्राजापत्य-क्रियाशक्तौ
धेनुं दद्याद् विचक्षणः।
धेनोर् अभावे तद्-द्रव्यं
तन्-मूल्यं वा न संशयः॥
गवाम् अभावे निष्कं स्यात्
तद्-अर्धं पादम् एव वा।
पाद-हीनं न कर्तव्यम्
इति वेद-विदो विदुः॥
कृच्छ्रे तु ब्राह्मण-भोजन-व्यवस्थोक्ता तत्रैव –
कृच्छ्रे पञ्चाति-कृच्छ्रे त्रि-गुणम् अहर् अहस् त्रिंशद् एव तृतीये
चत्वारिंशच् च सप्त-प्रतिगुण-गुणिता विंशतिस् स्यात् पराके।
कृच्छ्रे सान्तपने भवति षड्-अधिका विंशतिस् सैव हीना
द्वाभ्यां चान्द्रायणे स्यात् तपसि, कृषि-वलो भोजयेद् विप्र-मुख्यान्॥
गोमता गौर् देया, धनिना धनं,
कर्षता विप्र-भोजनं,
दरिद्रेण वेद-पारायण-गायत्री-जपादिकम्
इति व्यवस्था।+++(5)+++
सर्वत्रापि प्रायश्चित्त-प्रयोगे
कृच्छ्राचरणानन्तरं पञ्च-गव्य-प्राशनञ् च कार्यम्।+++(4)+++
तत्-प्रयोगस् तु नारायणीये सनत्कुमार-संहितायाम् ॥
पञ्च-गव्य-विधिः
देवलः –
ज्ञातं स्नानादिकं सर्वं
प्रायश्चित्तं परं गुरो।
प्राशने पञ्च-गव्यानां
को विधिः का क्रिया पृथक्॥
केन क्रमेण संयोज्यं
स विधिः कथ्यतां क्रमात्॥
सनत्कुमारः –
शृणु वत्स प्रवक्ष्यामि
पञ्च-गव्याशन-क्रमम्।
पञ्च-गव्य-प्राशने स्यान्
महा-पातक-नाशनम्॥काय-जं कर्म-जं वाग्भिर्
जात-दोषादिकं नृणाम्।
अभ्यन्तर-स्थं बाह्य-स्थं
जन्मान्तर-कृतं तु वा॥
दुष्ट-संसर्ग-जं वापि
दुष्टान्न-प्राशनादिकम्।
ज्ञानाज्ञानादि-जनितं
मत्-पापं देह-संस्थितम्॥
आर्द्रं शुष्कं लघु स्थूलं
महा-दोषम् अघं तु वा।
तत्-सर्व-पापं निश्-शेषं
पुंसां स्त्रीणां तु वा तथा॥ पञ्च-गव्याशनान् नश्येत्
कृशानौ तूल-राशिवत्।
[[256]]
ग्राह्यं पलैकं गो-मूत्रं
कर्ष-मात्रं तु गोमयम्॥क्षीरं सप्त-फलं ग्राह्यं
दधि ग्राह्यं फल-त्रयम्॥
घृतम् एक-पलं ग्राह्यं
पलम् एकं कुशाम्बु च।
सर्वं तु सम-भागं वा
भागैकैकाधिकं तु वा॥
शकृद्-गो-मूत्रम् आज्यञ् च
कुशाम्बु दधि वै पयः।
ग्राह्यं पृथक् पृथक् पात्रे
भागैकैकाधिकं क्रमात्॥
नीलायास् तु च गो-मूत्रं
कृष्णाया गोस् तु गोमयम्।
ताम्राया गोस् तु गो-क्षीरं
श्वेताया गोस् तु वै दधि॥ कपिलाया घृतं ग्राह्यं
तत् तद्-उक्त-प्रमाणतः।
अलाभे सर्व-वर्णानां
ग्राह्यम् एकैक-वर्णतः॥गो-मूत्रं रुद्र-दैवत्यं
दधि-ब्रह्माधिदैवतम्।
घृतन् तु वायु-दैवत्यं
क्षीरं सोमाधिदैवतम्॥
गो-मयं यज्ञ-दैवत्यं
पञ्च-गव्याधिदेवताः।अष्टोपचारैस् ताः पूज्या
पुण्याहं वाचयेद् बुधः॥
स्थण्डिले ऽग्निं प्रतिष्ठाप्य
परिस्तीर्य कुशैस् तथा।
संस्तीर्य सव्ये प्राग्-अग्रान्
तेषु पात्राण्य् अवाङ् न्यसेत्॥ पालाश-पद्म-पत्रैर् वा
कृतान्य् अन्यैर् द्रुमैस् तु वा।
सकुशाग्रान् सप्त-कुशान्
श्यामान् काण्डैक-संयुतान्॥
होमार्थं पञ्च-गव्यानां
गव्य-पात्रेण सादयेत्।
तस्य प्राक्-प्रोक्षणी-पात्रं
मन्थान-समिधा सह॥
तयोर् उदीच्यां दर्भेषु द्रव्याणि प्रक्रमान् न्यसेत्।
प्रोक्षण्या जलम् उत्पूय कुश-दर्भ-द्वयेन च॥
प्रोक्ष्योत्तानानि पात्राणि गव्यानि च तद्-अम्बुभिः।
पात्रे गव्यं नियुञ्जीत मन्त्रैर् एकैकशः क्रमात्॥
गायत्र्या चैव गो-मूत्रं गन्ध-द्वारेति गो-मयम्।
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि॥
शुक्रमसि-ज्योर् इत्य् आज्यं देवस्यत्वा कुशोदकम्।
विभज्याङ्गारकं सव्ये तेषु गव्यान् निधाय च॥
दर्भाग्नि-ज्वालया चैवम् आलोड्य प्रणवेव हि।
विसृज्योल्काम् अपः स्पृष्ट्वा दर्भाग्रे द्वे विनिक्षिपेत्॥
[[257]]
पुनस् त्रि-वारं पर्यग्नि कृत्वा कुश-कृशानु ना।
उद्वास्य वामे तत्-पात्रं निरूह्याङ्गारकान् ततः॥
तत्-पात्रं पश्चिमे न्यस्य दर्भाभ्यां त्रिः प्रतापयेत्।
तौ तु दर्भौ जलं स्पृष्ट्वा कुशाग्नौ तु विनिक्षिपेत्॥
कुश-काण्डञ् च मन्थान-समिधं युगपत् ततः।
वह्नौ प्रताप्य सम्मृज्य दर्भैस् सन्ताप्य तौ पुनः॥
प्रोक्ष्य निक्षिप्य तान् दर्भान् जलं स्पृष्ट्वा दहेत् ततः।
गव्यं मन्थान-समिधा प्रणवेन विलोडयेत्॥
निर्मथ्य मन्थना-युक्तं पाणिभ्यां प्रणवेन च।
परितोग्निं समभ्यर्च्य परिषिच्य जलैस् तथा॥
जुहुयात् कुश-काण्डाग्रैः गव्यं वह्नौ समन्त्रकम्।
अग्नये चैव सोमाय शन्नो देवी त्रियम्बकम्॥
इरावती इदं विष्णुर् मानस्तोके प्रजापते।
गायत्र्या व्याहृतीभिश् च महा-व्याहृतिभिस् तथा॥
होतृभिश् चैव होतव्यं हुत-शेषन् तु पुण्यदम्।
गव्यञ् च सर्व-पाप-घ्नं काय-शुद्धि-करं सदा॥
मन्थान-समिधं वह्नौ प्रहृत्य परिषिच्यते।
उत्थायाग्निम् उपस्थाय प्रणम्य च कृताञ्जलिः॥
प्राग्-उदीच्याग्र-दर्भेषु समासीनो हरिं स्मरन्।
प्राणानायम्य तद्-गव्यं प्रणवेनोद्धरेत्व् इति॥
प्रणवेन समालोड्य प्रणवेवेनाभिमन्त्र्य च।
प्रणवेन ततोद्धृत्य प्रणवेन च तत् पिबेत्॥
यत् त्वग्-अस्थि-गतं पापं देहे तिष्ठति मामके।
प्राशनं पञ्च-गव्यस्य दहत्व् अग्निर् इवेन्धनम्॥
इदं मन्त्रं समुच्चार्य स्वाहान्तं प्रणवं तथा।
सकृद् उक्त्वा तु मन्त्रान्ते पिबेत् तूष्णीं पुनः पुनः॥
आचम्याङ्गानि संस्पृश्य गायत्रीं तु जपेत् ततः।
आसूर्यास्तं यथा-शक्ति अयुतं वा सहस्रकम्॥
अष्टोत्तर-शतं वा ऽपि अष्टाविंशतिर् एव वा । नारायणं नमस्कुर्यात् सूर्य-मण्डल–मध्य-गम्।
एवं यः प्राशयेद् भक्त्या पञ्च-गव्यं यथा-विधि॥
[[258]]
स मुक्तस् सर्व-पापौघैश् शुद्धस् स्याद् ज्ञानवान् सुधीः।
इति देवल ते सम्यक् पुंसां स्त्रीणां तु वा तथा।
गव्या[[??]] विधिः प्रोक्तः किम् अन्यच् छ्रोतुम् इच्छसि॥
सर्व-पाप-हरम्
पौर्णमास्याम् उपोष्य
परेद्युः पञ्च-गव्य-प्राशने
सर्व-पाप-हरं भवतीत्य् उक्तम् आश्वमेधिके -
पिबेत् तु पञ्च-गव्यं यः
पौर्णमास्याम् उपोषितः।
तस्य नश्यति तत् सर्वं
यत् पापं पूर्व-सञ्चितम्॥
तथैव ब्रह्म-कूर्चं तु
समं तत् तु पृथक् पृथक्।
मासि मासि पिबेद् यस् तु
तस्य पापं प्रणश्यति॥
इति।