…
शूद्रादि-शिष्टान्न-निषेधः
रत्नाकरे –
शूद्र-भुक्तावशिष्टन् तु
नाद्याद् भाण्ड-स्थितं क्वचित्।
पात्रान्तरे निधायास्माद्
दद्यान् निरवशेषतः॥
पाक-भाण्डात् पात्रान्तरे निधाय
तत आदाय सव्यञ्जनोदनादिकं शूद्रोदक्यादिभ्यः प्रदेयम्,
एवं सति भाण्ड-स्थं भोज्यम् इत्य् अर्थः।
[[247]]
भरद्वाजः –
तैल-यन्त्रेषु यन्त्रादेश्
शब्दो यावत् प्रवर्तते।
तावत् कालं न भोक्तव्यं
(शूद्रान्त्य-पतितस्य च) मुसलोलूखलस्य च॥ +++(4)+++
एतेषां नादा यावत् तावत् कालम् अभोजनम्।
दीर्घ-सत्र-भोजन-निषेधः
…
देवलः –
वर्ष-द्वयं वा वर्षं वा
यो वा को वा जनाधिप। सङ्कल्प्य भोजयेद् विद्वान्
तद् दीर्घं सत्रम् उच्यते॥
विप्रस् तत्र न भुञ्जीयात्
पूर्ववद् दुष्ट-सङ्गमात्।
महद् दोषम् अवाप्नोति
नरकं वा ऽधि गच्छति॥
दीर्घ-सत्रे न भुञ्जीयाद्
एकस्मिन् दिवसे नृप।
महद् दोषम् अवाप्नोति
तत्र नाना जनागमः॥
कर्तारं स्व-कृतं पुण्यं
संवत्सरम् उपार्जितम्।
सद्यः प्रविश्य तत् सर्वम्
अन्न-मात्र-परिग्रहात्॥ प्रायश्चित्ती भवेत् तस्माद्
अन्यथा दोष-कार्य् असौ॥
मास-संवत्सरादिकम् आलोच्य
पूर्व-प्रायश्चित्तवत् सर्वं कुर्यात्।
शूद्र-सत्र-भोजने प्रायश्चित्तम्
देवलः –
शूद्र-सत्रे न भुञ्जीयात्
प्राणैः कण्ठ-गतैर् अपि।
इच्छन् विप्रो महा-लोकं
दुस्-सङ्गाद् वा महद्-भयात्॥
महान्तं नरकं गत्वा
वायसत्वम् अवाप्नुयात्॥
पक्षे मासे ऋताव् अब्दे
भोजने च यथा-क्रमम्।
यावकं तप्त-कृच्छ्रञ् च
प्रजापत्यम् अथैन्दवम्॥
क्रमशश् शुद्धिम् आप्नोति
कृत्वा पापाद्य् अनुक्रमात्॥
वैश्य-शूद्र-गृहेषु आम-पाक-निषेधः
जाबालिः –
वैश्य-शूद्र-गृहे राजन्
गृहीत्वा ऽऽमं द्विजाधमः।
तत्रैव पक्त्वा तद्-द्रव्यं
भुञ्जीयाद् अविचारयन्॥
स-महान्तं गिरिं गत्वा
तत्रैव वपनञ् चरेत्।
तेन शुद्धिम् अवाप्नोति
नान्यथा गतिर् अस्ति हि॥
क्रीतान्न-भोजने प्रायश्चित्तम्
हेमाद्रौ –
विप्रः कण्ठ-गत-प्राणः
क्रीतान्नं यदि भुञ्जते।
ग्रामे वा नगरे तीर्थे
महा-देवालये ऽपि वा॥
स गत्वा नरकं घोरं
नाना योनिषु जायते।
तस्मात् तस्य विशुद्ध्य्-अर्थं
प्रायश्-चित्तम् उदीरितम्॥
त्रि-रात्रं भोजने कायं
पक्षे तप्तं निरन्तरम्।
महा-तप्तन् तु मासे च
वत्सरे चान्द्रम् उच्यते॥
अतः परं शूद्र-तुल्यो
विद्वान् अपि स दोष-भाक्।
विप्र-स्त्रीणाम् एतद् अर्धम्,
यति-ब्रह्मचारी-विधवानां तद् द्वै-गुण्यम्,
महा-क्षेत्रम् इति जन-सादृश्यात्।
[[251]]
क्रीतान्न-भोजने विशेषम् आह जाबालिः –
विप्रस् त्वैतन्-महा-क्षेत्रं
महा-तीर्थं जनावृतम्।
क्रीताऽन्नं जन-सादृश्याद्
इति जग्ध्वा सकृद् यदि॥
केशानां वपनं कृत्वा
तप्त-कृच्छ्रं समाचरेत्॥
इति क्रीतान्न-भोजन-प्रायश्चित्तम्।
सङ्घान्न-भोजने प्रायश्चित्तम्
गौतमः –
सङ्घी-भूय-द्विजास् सर्वे
मार्गे तीर्थागमे ऽपि वा।
स्व-द्रव्य-मेलनं कृत्वा
पक्त्वा भुक्त्वैक-देशतः॥
ते सर्वे नरकं यान्ति
शूद्र-तुल्या न संशयः।
तेषाम् इदं मुनि-प्रोक्तं
प्रायश्चित्तं विशुद्धि-दम्॥
एक-रात्रे पञ्च-गव्यं
द्वि-रात्रे यावकञ् चरेत्।
प्राजापत्यं त्रि-रात्रे च
पक्षे चान्द्रायणं स्मृतम्॥
मासे तु शूद्र-तुल्यास् स्युः
स्त्रीणाम् अर्धं मनीषिभिः॥
चौल-सीमन्ताद्य्-अन्न-भोजने प्रायश्चित्तम्
हेमाद्रौ –
चौल-कर्मणि सीमन्ते
पुंसवे यो ऽन्य गोत्र-जः।
मुहूर्ताद् ऊर्ध्व-भुक् पापी
सुरा-पानम् अवाप्नुयात्॥
प्रायश्चित्तं द्विजैः प्रोक्तं
दुष्टान्ना दिवि भोजने।
सु-मुहूर्तात् परं तप्तं
तत्-पूर्वं वेद-मातरम्॥
जप्त्वा शुद्धिम् अवाप्नोति
सहस्रं विधि-पूर्वकम्।
स्त्रीणाम् अर्धं यतीनाञ् च
व्रतिनां चान्द्रम् उच्यते॥
चौल-कर्मणि पूर्वत्र
परत्र च समं विदुः॥
व्रात्य-कुष्ठ्य्-अन्न-भोजने प्रायश्चित्तम्
देवलः –
व्रात्यान्नं यदि कुष्ठ्य्-अन्नं
भुङ्क्ते विप्रः क्षुधातुरः।
कबले कबले चान्द्रं
कृत्वा शुद्धिम् अवाप्नुयात्॥
ताम्र-पात्र-स्थित-गव्यादि-निषेधः
यमः –
ताम्र-पात्र-स्थितं गव्यं
नारिकेलोदकं तथा।
लवणाक्तं पयश् चैव
मध्य-गन्धं तथैव च॥
पीत्वा द्विजश् चरेच् चान्द्रं
प्राजापत्यम् अकामतः॥
[[252]]
पर-निवेदितम्
हेमाद्रौ –
शम्भोर् निवेदितं भक्तं
तत्-तीर्थं शाकम् एव वा।
विप्रः कदा न भुञ्जीयाद्
भुक्त्वा तप्तं समाचरेत्॥
अप-पात्रान्तरम्
शातातपः –
यो हि हित्वा विवाहाग्निं
गृह-स्थ इति मन्यते।
अन्नं तस्य न भोक्तव्यं
वृथा पाको हि स स्मृतः॥
रत्नाकरे –
अवीर-स्त्री–स्वर्णकार-स्त्री–
जित-ग्राम-याजिनाम्।
शस्त्र-विक्रय-कर्मकार-
तन्तुवायाश्व-वृत्तिनाम्॥
अवीर-स्त्री- स्वतन्त्र-व्यभिचारिणी, पति-पुत्र-रहितेत्य् अन्ये। कर्मकारः - तक्षा, एषाम् अन्नं न भोक्तव्यम्।
परपाकः
स्मृति-दीपिकायाम् –
किल्बिषं हि मनुष्याणाम्
अन्नम् आश्रित्य तिष्ठति।
यो हि यस्यान्नम् अश्नाति
स तस्याश्नाति किल्बिषम्॥
स्व-पाके वर्तमाने तु
पर-पाकं निषेवते।
स श्वत्वं सूकरत्वञ् च
गर्दभत्वञ् च गच्छति॥
गृह-स्थ-पतनं ह्य् एतत्
पर-पाकोपजीवनम्॥ +++(4)+++
इति यमादि-वचनं नित्य-विषयम्।
[[253]]
पर-पाक-रुचिर् न स्याद्
अनिन्द्यामन्त्रणाद् ऋते।
इति याज्ञवल्क्य-स्मृतेः;
अतश् शिष्टान्नं भोज्यम् एव।
ब्रह्म-विद्-अन्नम्
तथा व्यासः –
सद्-आचारस्य विप्रस्य
तथा वेदान्त-वेदिनः।
भुक्त्वान्नं मुच्यते पापात्
पावनं नात्र संशयः॥
माघ-माहात्म्ये श्री-कण्ठ–दूत-संवादे –
प्रार्थयेद् वैष्णवस्यान्नं
प्रयत्नेन विचक्षणः।
सर्व-पाप–विशुध्य्-अर्थं
तद्-अभावे जलं पिबेत्॥
विष्णु-दासस्य दासा ये
वैष्णवान्न-भुजश् च ये।
ते ऽपि क्रतु-भुजां वैश्य
गतिं यान्ति निराकुलाः॥ +++(4)+++
श्राद्धे शिष्टान्नम्
किञ् च “भुञ्जीत पितृ-सेवितम्” इत्य् अस्य एकोद्दिष्ट-विषये निषेधो दृश्यते,
एकोद्दिष्टे तु यच् छिष्टं
गृहे पर्युषितञ् च यत्।
दम्पत्योर् भुक्त-शिष्टञ् च
न भुञ्जीत कदाचन॥
इति विज्ञानेश्वरेण एकोद्दिष्ट-शेषस्यैवा भोज्यत्व-प्रतिपादनात्; आपस्तम्बेन
तद्-गुणायोच्छिष्टं प्रयच्छेत्,
न वा तद्-गुणायोच्छिष्टं दद्युर्
इति च श्राद्ध-विशेषे ऽपि
निमन्त्रित-विसदृश-गुणेभ्य एव पितृ–शेष–दान–निषेधाद्
“इष्टैस् सह भुज्यताम्” इतीष्टानाञ् च शिष्टान्न-भोजनाभ्यनुज्ञानाच् च
एकोद्दिष्टे तु यद् भोक्तुर्
अभोज्यं शिष्टम् ओदनम्।
चन्द्र-सूर्योपरागे च
शिष्टम् अन्नञ् च वर्जयेत्॥
इति विशेष-निषेधाच् च,
पार्वणेषु पितृ-शेषम् अपि भोज्यम् एव।
जाबालिः –
श्वशुरस्य गुरोर् वा ऽपि
मातुलस्य महात्मनः।
ज्येष्ठ-भ्रातुश् च पुत्रस्य
ब्रह्म-निष्ठस्य ज्ञानिनः।
एतेषां श्राद्ध-शिष्टान्नं
भुक्त्वा दोषो न विद्यते॥
इति,
स्व-गोत्राणां स्व-कुल्यानां
ज्ञातीनाञ् च न दोषभाक्॥
इति च हेमाद्रौ लिखितत्त्वाच् च
पार्वणेष्व् अन्येषाम् अपि पितृ-शेषं भोज्यम् एवेति सिद्धम्।
[[254]]
यत्यन्नादि-निषेधः
रत्नाकरे –
यत्य्-अन्नं यति-पात्र-स्थं
यतिना प्रेरितञ् च यत्।
अन्न-त्रयं न भोक्तव्यं
भुक्त्वा चान्द्रायणं चरेत्॥
यतिर् द्रव्याण्य् अर्जयित्वा
समाराधनादिकं करोति तद्-यत्य्-अन्नं,
यतिर् भिक्षाम् अटित्वा
भोजनोपरि यच् छेषयति तद्-यति-पात्र-स्थम्।