क्रमशो वृद्धिः
… विज्ञानेश्वरीये –
भुक्तश् चेत् पार्वण-श्राद्धे
प्राणायामान् षड् आचरेत्।
उपवासस् त्रि-मासादि-
वत्सरान्तं प्रकीर्तितः॥प्राणायाम-त्रयं वृद्धौ
अहोरात्रं स-पिण्डने।
आम-रूपे स्मृतं नक्तं
व्रतं पार्वणिके तथा॥द्वि-गुणं क्षत्रियस्यैतत्
त्रि-गुणं वैश्य-भोजने।
साक्षाच् चतुर्-गुणं ह्य् एतत्
स्मृतं शूद्रस्य भोजने॥प्राजापत्यं +++(मृतेर् अनन्तरम्)+++ नव-श्राद्धे
प्राजापत्यन् तु मिश्रके+++(=आद्य-मासिके)+++।
एकाहन् तु पुराणेषु
प्रायश्चित्तं विधीयते॥
मिश्रके - आद्य-मासिके।
द्वितीयादौ तु षट्-त्रिंशन्-मते –
प्राजापत्यं नव-श्राद्धे
पादोनं चार्ध-मासिके।
त्रैपक्षिके तद्-अर्धन् तु (पा॥ पादो द्वै-मासिके तथा)
पञ्च-गव्यं द्वि-मासिके॥
तथा -
पादोनं कृच्छ्रम् उद्दिष्टं
षण्-मासे तु तथा ऽब्धिके।
[[249]]
अर्ध-मासिके - ऊन-मासिके।
अपात्रान् उद्दिश्य
सर्पादि-हत-श्राद्ध-विषये शङ्खः –
चाद्रायणं नव-श्राद्धे
पराको मासिके स्मृतः।
पक्ष-त्रये त्रि-कृच्छ्रं स्याच्
छण्-मासे कृच्छ्रम् एव तु॥
आब्दिके पाद-कृच्छ्रं स्याद्
एकाहं पुनर् आब्दिके।
अत ऊर्ध्वं न दोषस् स्याच्
छङ्खस्य वचनं यथा॥ +++(4)+++
इदं स्तेन-पतित-क्लीबादि-विषयम्,
शूद्र-श्राद्ध-विषयं च।
अ-पाङ्क्तेयान् यद् उद्दिश्य
श्राद्धम् एकादशे ऽहनि।
ब्राह्मणस् तत्र भुक्त्वा ऽन्नं
शिशु-चान्द्रयणं चरेत्॥
आम-श्राद्धे तथा भुक्त्वा
तप्त-कृच्छ्रेण शुद्ध्यति।
सङ्कल्पिते तथा भुक्त्वा
त्रि-रात्रं क्षपणं भवेत्॥
अस्नातैः
यमः –
मासिकादिषु यो ऽश्नीयाद्
अ-समाप्त-व्रतो द्विजः।
त्रिरात्रम् उपवासो ऽस्य
प्रायश्चित्तं विधीयते॥
प्राणायाम-त्रयं कृत्वा
घृतं प्राश्य विशुद्ध्यति॥
कामतस् तु स एवाह –
मधु-मांसञ् च यो ऽश्नीयाच्
छ्राद्धं सूतकम् एव वा।
प्राजापत्यं चरेत् कृच्छ्रं
व्रत-शेषं समापयेत्॥
आम-श्राद्धे भवेद् अर्धं
प्राजापत्यस्य सर्वदा॥
अभ्यासे पुनर्-उपनयनं भोधायनोक्तं द्रष्टव्यम्।
साधारण-नियमः
अनुक्त-प्रायश्चित्त-श्राद्धे तूशना –
दश-कृत्वः पिबेद् आपः
सावित्र्या श्राद्ध-भुग् द्विजः।
ततस् सन्ध्याम् उपासीत
शुद्ध्येत् तु तद्-अनन्तरम्॥
अभ्यासो मा भूत्
मार्कण्डेयः –
अयुतं वा सहस्रं वा
द्विजो ब्राह्मण-भोजने।
जिह्वा-चापल्यतः क्षिप्रं
पञ्च-गव्यं पिबेत् ततः॥
पक्षं वा मासम् एकं वा
भुक्त्वा विप्रो निरन्तरम्।
तप्तं पराकं चान्द्रञ् च
कृत्वा शुद्धिम् अवाप्नुयात्॥
वर्षोपरि च शूद्रत्वम्
अवाप्य बहु-वत्सरान्॥
[[250]]