पान-भाषणादि
शङ्खः –
पीतावशेषितं पीत्वा
पानीयं ब्राह्मणः क्वचित्।
त्रि-रात्रन् तु व्रतं कुर्याद्
वाम-हस्तेन वा पुनः॥
परिहारम् आह व्यासः –
पात्र-शिष्टन् तु यत् तोयं
पाने पादावनेजने।
भूमौ तद्-अम्बु निस्राव्य
शिष्टं तत्-पानम् अर्हति॥
अत्रिः –
आस्येन न पिबेत् तोयं
तिष्ठन् नाञ्जलिना पिबेत्।
वाम-हस्तेन शय्यायां
तथैवान्य-करेण वा॥
तोयं पाणि-नख-स्पृष्टं
ब्राह्मणो न पिबेत् क्वचित्।
सुरा-पानेन तत् तुल्यं
मनुस् स्वायम्भुवो ऽब्रवीत्॥
वाम-हस्तेन यो भुङ्क्ते
यो ऽपः पिबति वा द्विजः।
सुरा-पानेन तत् तुल्यम्
इत्य् एवं मनुर् अब्रवीत्॥
अत्र वाम-हस्तेन भुक्त्यादि-निषेधो दक्षिण-हस्तस्य शक्यत्वे। +++(5)+++
[[245]]
रत्नाकरे –
भुञ्जानो दक्षिणं बाहुं
न संयुञ्ज्यात् कदाचन।
उद्धृत्य वाम-हस्तेन
तृषार्थस् सलिलं पिबेत्॥
अतो वाम-हस्तेन पान-निषेधो भोजन-कालाद् अन्यत्र।
यमः –
न हस्तेन पिबेत् तोयं
न पिबन् शयनं चरेत्।
पीत्वा ऽवशिष्टं चषके
पुनस् तन् न पिबेज् जलम्॥शाकाद्यं नोत्सृजेत् स्थाल्यां
पाणिना वा ऽपि भुञ्जताम्।स्नानाचमन-पानार्थम्
अर्हणाद्य्-अर्थम् अम्बु यत्॥
उपयुक्तं भगवता
पानीयं तत् प्रकल्पयेत्।अङ्केनारोपयेत् पादं
पाणिना नाक्रमेद् भुवम्॥
आङ्गं वा न स्पृशेत् पद्भ्यां
पादं पादान्तरेण च।
अन्नस्य वा निषेदार्थम्
उपदंशस्य वा पुनः॥
धर्मार्थां विसृजेद् वाचं
नासद् वाचं कदाचन॥
अतो भोजने वाग्-विसर्जनानुज्ञानाद्
अवश्य-कर्तव्यार्थे भाषणम् एव कर्तव्यम्।
केशादि-दुष्टान्ने
हेमाद्रौ –
अन्ने वा पक्व-शाके वा
केश-मात्रे व्यवस्थीते।
कबले वा ऽपि राजेन्द्र
कबलं तं परित्यजेत्॥गण्डूषम् एकं कुर्यात् तु
शेषान्नं प्रोक्षयेज् जलैः।
मृदं भस्म +++(वा)+++ क्षिपेत् तत्र
पश्चाद् भुक्त्वा न दोष-भाक्॥
मृदं वा भस्म वेत्य् अर्थः।
स-शब्दता-निषेधः
अत्रिः –
शब्देनापः पयः पीत्वा
शब्देन घृत-पायसम्।
शब्देनापोशनं कृत्वा
सुरा-पान-समं भवेत्॥
पैठीनसिः –
न कुर्यात् क्रन्दनं शब्दं
क्रोधम् अन्यत्र चिन्तनम्।
शिशूनां भर्त्सनञ् चापि
श्व–चण्डालादि-दर्शनम्॥
अशुचीनां तथा मध्ये
प्रेक्षताम् अप्य् अनश्नताम्॥
हारीतः –
शब्देनापोऽशनं पीत्वा
शब्देन दधि-पायसे।
शब्देनान्यं रसं क्षीरं
पीत्वैव पतितो भवेत्॥
[[246]]
वसिष्ठः –
शब्देनापोऽशनं पीत्वा
शब्देन दधि-पायसे।
शब्देनापः पयस् तक्रं
सुरा-पान-समं स्मृतम्॥
प्रकाश-दर्शनादि
व्यासः –
न भिन्न-भाजने ऽश्नीयान्
न भूम्यां न च पाणिषु।
नान्धकारे न चाकाशे
न च देवालयादिषु॥
आकाशे - हर्म्यादौ। स्मृत्यन्तरे –
चण्डालं पतितं श्वानम्
उदक्यां सूतिकां तथा।
दृष्ट्वा भुक्त्य्-अन्तरे स्नात्वा
“मानस् तोके"त्य् ऋचं जपेत्॥
संवर्तश् च –
उदक्याम् अथ चण्डालं
ग्राम-सूकर–कुक्कुटौ।
भुक्त्य्-अन्तरे समीक्ष्यैतान्
जपेत् पूर्वोदिताम् ऋचम्॥
ऋक् – मानस्तोके,
होमे दाने च यागे च
यद् एभिर् अवलोकितम्।
दैवे कर्मणि पित्र्ये च
तत् सर्वं परिवर्जयेत्॥
रजस्वला-दृष्टम् अन्नं
भुक्त्वा वमनम् इष्यते।
चण्डाल-दृष्टम् अन्नञ् च
सूतिका-दृष्टम् एव च॥
एतेन स्वस्य शूद्राद्य्-अ-दर्शने ऽपि तैर् दृष्टं त्याज्यम् इति।
चण्डालं पतितं प्रेतं
श्व-शूद्रादीन् रजस्वलाम्।
एतान् निरीक्ष्य भुञ्जन् हि
वमित्वोपवसेत् त्र्य्-अहम्॥
आश्वमेधिके –
उत्थाय च पुनः स्पृष्टं
पाद-स्पृष्टञ् च लङ्घितम्।
केश–कीटादि-संसृष्टं
मुख्यम्+++(=मुख-निस्सृतम्)+++ आज्य-विवर्जितम्॥
अन्नं तद् राक्षसं विद्यात्
तस्माद् यत्नेन वर्जयेत्।
राक्षसोच्छिष्ट-भुग् विप्रस्
सप्त-पूर्वान् परान् अपि॥
रौरवे नरके घोरे
स पितॄन् पातयिष्यति॥
मुख्यं - मुख-निस्सृतम्,
श्लेष्म
… व्यासः –
श्लेष्म-शिङ्घाणिकोत्सर्गो
नान्न-काले प्रशस्यते।
बलि-मङ्गल-जप्यादौ
न होमे न महा-जने॥ …
उच्चिष्टम्, पङ्क्तिः
स्मृत्य्-अर्थ-सारे –
उच्छिष्ट-स्पर्शने ज्ञात्वा
तत् पात्रं परिहृत्य च।
अस्पृष्ट्वा पाणिना पात्रं
भूमिं समनुलिप्य च॥
अन्नं पात्रे निधायैव
तद् अन्नं परिवेष्टयेत्।
परिषिच्य ततः पश्चाद्
भोजयेच् च न दोष-कृत्॥
एक-पङ्क्तिषु भुञ्जानो
ब्राह्मणो ब्राह्मणं स्पृशेत्।
तद् अन्नम् अत्यजन् भुक्त्वा
गायत्र्य्-अष्ट-शतं जपेत्॥
भुञ्जानेषु च विप्रेषु
यो ऽग्रे पात्रं विमुञ्चति।
स चोरस् स च पापिष्ठो
ब्रह्म-घ्नश् च स उच्यते॥ +++(4)+++
अप्य् एक-पङ्क्त्यां नाश्नीयाद्
ब्राह्मणस् स्व-जनैर् अपि।
को हि जानाति किं तस्य
प्रच्छन्नं पातकं भवेत्॥ +++(5)+++
पराशरः –
एक-पङ्क्त्य्-उपविष्टानां
दुष्कृतं यद् दुरात्मनाम्।
सर्वेषां तत् समानं स्याद्
यदि पङ्क्तिर् न भिद्यते॥
अग्निना भस्मना चैव
स्तम्भेन सलिलेन वा।
दर्भादिना च मार्गेण
पङ्क्ति-भेदो विधीयते॥
द्वारेण निम्न-भूम्या वा
षड्भिः पङ्क्तिर् विभिद्यते॥
इति पाठान्तरम्।
सङ्ग्रहे –
एक-पङ्क्तिषु भुञ्जाना
उच्छिष्टं स्पृशतो यदि।
द्वौ विप्रौ विसृजेद् अन्नं
भुक्त्वा चान्द्रायणं चरेत्॥
अत्रायं विवेकः -
मिथस् स्पर्शे “तद्-अन्नम् अत्यजन्न्” इत्य् उक्तं दृष्टव्यम्,
भुक्ति-पात्रोच्छिष्ट-स्पर्शने तु “द्वौ विप्रौ विसृजेद् अन्नम्” इत्य् उक्तं ग्राह्यम्।
पराशरः –
एक-पङ्क्त्य् उपविष्टानां
विप्राणां सह भोजने।
यद्य् एको ऽपि त्यजेत् पात्रं
शेषम् अन्नं न भोजयेत्॥
मोहाद् भुञ्जीत चेद् विप्रः
पङ्क्त्याम् उच्छिष्ट-भोजनम्।
प्रायश्-चित्तं चरेद् विप्रः
कृच्छ्रं सान्तपनं स्मृतम्॥
[[248]]
एक-पङ्क्त्य्-उपविष्टेषु
विषमं यः प्रयच्छति।
यश् चैवाश्नाति विषमं
कुर्याद् ब्रह्म-हणो व्रतम्॥
एतच् चिराभ्यास-विषयम्।
पङ्क्ति-भेदी पृथक्-पाकी
नित्यं ब्राह्मण-निन्दकः।
आदेशी वेद-विक्रीता
पञ्चैते ब्रह्म-घातकाः॥
यम् इच्छेन् नरकं नेतुं
सपुत्र-पशु-भान्धवम्।
तं देवेष्व् अधिपं कुर्याद्
गोषु च ब्राह्मणेषु च॥ +++(4)+++
व्यासः –
भार्या–भृतक–शिष्येभ्य
उच्छिष्टं शेषयेद् बुधः।
भोजनन् तु न निश्शेषं
कुर्यात् प्राज्ञः कदाचन॥
अन्यत्र दधि–सक्त्व्–आज्य–
पलल-क्षीर–मध्व्–अपाम्॥ +++(4)+++
आपस्तम्बः –
पितुर् ज्येष्ठस्य च भ्रातुर् उच्छिष्टं भोक्तव्यं
धर्म-विप्रतिपत्ताव् अभोज्यम्
इति।
अत्रिः –
क्षीरं लवण-सम्मिश्रम्,
उच्छिष्टे घृत-सेचनम्।
रजस्वला-मुखास्वादस्
सुरा-पान-समं त्रयम्॥ +++(4)+++
स्त्री-अपाङ्क्तेयादि-पङ्क्ति-भोजने प्रायश्चित्तम्
…
व्यासः –
माता वा भगिनी वा ऽथ
भार्या वा ऽन्याश् च योषितः।
न ताभिस् सह भोक्तव्यं
भुक्त्वा चान्द्रयणं चरेत्॥
यत् त्व् अङ्गिरो-वचनम्
गृहिण्या सह यो ऽश्नीयाद्
उच्छिष्टं वा कदाचन।
तत्र दोषं न मन्यन्ते
सर्व एव मनीषिणः॥
इदं पत्न्या सह भोजनं विवाह-विषयम्
आपद्-विषयं वेति
विज्ञानेश्वरेण व्याख्यातम्।
अपाङ्क्तेयस्य यः कश्चित्
पङ्क्तौ भुङ्क्ते द्विजोत्तमः।
अहोरात्रोपोषितस् सन्
पञ्च-गव्येन शुद्ध्यति॥
पक्षे वा यदि वा मासि
यस्य नाश्नन्ति देवताः।
भुक्त्वा दुरात्मनस् तस्य
द्विजश् चान्द्रायणं चरेत्॥
“पक्षे नाश्नाती"ति स्थाली-पाकाभाव उक्तः
“मासेनाश्नाती"ति दर्श-शाद्धाभाव उक्तः
अतस् तद् द्वयम् अवश्यं कर्तव्यम्,
तद्-अकरणे तद्-अन्न-भोजने चान्द्रायणं कार्यम्
इत्य् अर्थः।
एवं दुरन्नादि-प्रायश्चित्तं तत्र तत्र स्मृतिषु द्रष्टव्यम्,
ग्रन्थ-विस्तर-भयाद् अत्र न लिख्यते।
[[255]]
वस्त्रम्
…
गालवः –
नीली-वस्त्रञ् च तच्-चिह्नं
धृत्वा कर्म करोति यः।
स विप्रस् तु न कर्मार्हस्
तत्-कर्म विफलं भवेत्॥
एकत्र दिवसे भुक्त्वा
धृत्वा नीलीमयं पटम्।
कुर्याद् देह-विशुद्ध्य्-अर्थं
यावकं मुनि-चोदितम्॥
अभ्यासे तु पराकं स्याद्
वत्सरे चान्द्रम् उच्यते॥
क्रमः
… और्वः –
अश्नीयात् तन्-मयो भूत्वा
पूर्वन् तु मधुरं रसम्।
लवणाम्लौ तथा मध्ये
कटु-तिक्तादिकांस् ततः॥प्राग्-द्रवं पुरुषो ऽश्नीयान्
मध्ये तु कठिनाशनः।
अन्ते पुनर् द्रवाभ्याशी
आरोग्येन न मुञ्चति॥