०९ यतेः पृथग् भोजनम्


यति-विषय-सङ्ग्रहे –

शूद्रान्नं सूतिकान्नञ् च
गृहस्थैस् सह भोजनम्
लशुनादि-युतं दुष्टं
प्रयत्नेन विवर्जयेत्
गृहस्थैस् सह यो भुङ्क्ते
यदि भिक्षुः प्रमादतः।
स-चेलो जलम् आविश्य
गायत्रीम् अयुतं जपेत्

यति-धर्म-समुच्चये –

एकान्नं मधु-मांसं च
अन्नं +++(??=)+++विष्ठादि-दूषितम्
हन्त-कारम् अनैवेद्यं
भुक्त्वा चान्द्रायणं चरेत्॥
यतिर् सह भुञ्जीत
गृहस्थाद्यैः कदाचन।
अज्ञानाद् अथ भुञ्जानः
कुर्यात् त्र्य्-अहम् उपोषणम्

अत्रिः –

भैक्षञ् च पर-पाकान्नं
सम्मिश्रं यो ऽत्ति वै यतिः।
त्रि-रात्रोपोषितो भूत्वा
प्राणायाम-शतं चरेत्॥