क्रमः
स एव -
यथा कालोपपन्ने तु
भोजने कृत-संस्कृते।
पत्न्यादिभिर् दत्तम्
अन्नं वासुदेवार्पितं शुभम्॥गायत्र्या मूल-मन्त्रेण
सम्प्रोक्ष्य शुभ-वारिणा।
“ऋतं त्वा, सत्या"भ्याम्
इति मन्त्रेण परिषेचयेत्॥अन्न-रूपं विराट्-पुंसं
ध्यात्वा रूपं जपेद् बुधः।
ध्यात्वा हृत्-पङ्कजे विष्णुं
सितांशु–सदृश–द्युतिम्॥
शङ्ख–चक्र–गदा–पद्म
-धारिणं दिव्य-भूषणम्।
मनसैवार्चयित्वा ऽथ
मूल-मन्त्रेण वैष्णवः॥पादोदकं हरेः पुण्यं
तुलसी-दल-मिश्रितम्।
“अमृतोपस्तरणम् असि”
इति मन्त्रेण प्राशयेत्॥
अथ वर्तुल-पवित्र-पाणिः
हृत्-पुण्डरीक-स्थ-पत्नी-समेतं स्वाराध्यं ध्यात्वा
मनसा ऽभ्यर्च्य
यथोपदेशं प्राणाग्नि-होत्र–मन्त्र–ऋषिच्छ्न्दो-देवतादिकं जपित्वा
परिषेचनादिकं कृत्वा
प्राणाहुतीः कुर्यात्।
प्राणाग्नि-होत्र–मन्त्रादिकं तत्-प्रकारश् च
सद्-उपदेश-लभ्यत्वाद्
अत्र न लिख्यते।
[[240]]
रत्नाकरे –
आसीनश् चासने भोक्तुं
पादौ भूमौ प्रतिष्ठितौ।
पादाग्राभ्यां भुवं स्पृष्ट्वा
पादेनैकेन वा पुनः॥
ततो विधायापोशनं
ध्यात्वा चान्नाधि-दैवतम्।
हुत्वा प्राणाहुतीः पञ्च-
पात्रं सव्येन संस्पृशन्॥
भुक्त्वा “ऽमृतापिधानम्
असी"ति चैव निपीय तत्।
आचान्तः पुनर् आचामेन्
मुखं हस्तौ विशोध्य च॥
आपोशन-विधिः
स्मृत्य्-अर्थ-सारे –
आपोऽशनं वाम-भागे
सुरा-पान-समं भवेत्।
तद् एव दक्षिणे भागे
सोम-पान-समं भवेत्॥आपोऽशनं करे कृत्वा
पात्रे कृत्वा तलोदकम्।
पूरणन् तु पुनः कृत्वा
सुरा-पान-समं भवेत्॥
पुराणे –
आपोऽशनञ् चासनञ् च
तैलाभ्यङ्गं तथैव च।
स्वयङ्-कर-कृतं प्रोक्तम्
आयुः श्री–पुत्र-हानि-दम्॥आऽपोशनं करे कृत्वा
आशीर्वचनम् अब्रवीत्।
अ-भोज्यं तद् भवेद् अन्नं
भुक्त्वा चान्द्रायणं चरेत्॥भोजने तिष्ठमानास् तु
स्वस्ति कुर्वन्ति ये द्विजाः।
न देवास् तृप्तिम् आयान्ति
निराशाः पितरस् तथा॥भुञ्जानो ऽभिवदेद् यस् तु
तद् अन्नं परिवर्जयेत्॥अङ्गुष्ठ-तर्जनी चैव
मध्यमा च तृतीयका।
तिस्रो वामाङ्गुलीश् चैव
प्रशस्ताः पात्र-धारणे॥
तीर्थम्
शाण्डिल्यः –
भोजनाद्य्-अन्तयोर् दिव्य- पादाम्ब्व् एकं स-मन्त्रकम्।
पिबेद् अवश्यं सद्-भक्तो
मिश्रितं वा ऽर्हणादिभिः॥
पात्र-स्पर्शः
आपस्तम्बः – “नापजहीतापजहीत वा” इति -
आभोजनान्तं वाम-हस्तेन भोजन-पात्रं स्पृशन् भुञ्जित
न पात्रम् उत्सृजेत्,
प्राणाहुत्य्-ऊर्ध्वं त्यजेद् वा। तथा स्मृत्यर्थसारे –
प्राणाहुतीषु सर्वासु
हुतास्व् एव त्यजेद् बुधः।
पात्रस्य धारणं मौनं
यावत् सिद्धिर् भुजेर् भवेत्॥
आस्ये वान्नस्य निक्षेपो
मन्त्रैः प्राणादि-संज्ञकैः।
तद् एव भोजनं ज्ञेयं
तत्रैव नियमाः स्मृताः॥
अतो ऽवश्यं पात्र-स्पर्शः कर्तव्यः,
समुत्थितस् तु यो भुङ्क्ते
यो भुङ्क्ते मुक्त-भाजने।
एवं वैवस्वतः प्राह
भुक्त्वा सान्तपनं चरेत्
इति प्रायश्चित्त-स्मृतेः।
मुक्त-भोजने - “वाम-हस्तेने"ति शेषः,
समुस्थितः - उत्तरापोऽशनम् अकृत्वा समुस्थितः,
पुनर् भुङ्क्त इत्य् अर्थः।
[[241]]
प्राणाहुति-नियमः
आगम-प्रामाण्ये –
हृदि ध्यायन् हरिं तस्मै
निवेद्यान्नं समाहितः।
मध्यमानामिकाङ्गुष्ठैर्
जुहुयाद् आहुतीः क्रमात्॥
इदं सर्वाश्रमि-साधारणम्। वाराहे –
निवेद्य हृदि तद् भूयः
परिषेकादि-पूर्वकम्।
जुहुयाद् आहुतीः पञ्च
विष्णौ प्राणादि-संज्ञके॥
सुमन्तुः –
दन्त-चर्वणम् आहुतीनां वर्जयेद्, अन्तर् एव निगिरेद्
इति। हारीतः –
पञ्च प्राणाहुतीः कुर्याच्
छुद्धान्नैर् अभिघारितैः।
उच्छिष्टे न घृतं दद्यात्
प्राघ् +घुतेर् लवणान्वितम्॥
अतः प्राणाहुतेः पश्चाद् एव
लवणान्वित-व्यञ्जनं दद्याद्
इत्य् अर्थः।
मनसा निवेदनम्
चन्द्रिकायाम् –
भक्ष्यं भोज्यं च लेह्यं च
“नमो नारायणे"ति च।
अभिमन्त्र्य स्पृशन् भुङ्क्ते
स याति परमाङ्गतिम्॥ +++(5)+++
अत्र महोपनिषदि –
विष्णुना ऽक्तम् अश्नन्ति,
विष्णुना पीतं पिबन्ति,
विष्णुना घ्रातं जिघ्रन्ति,
विष्णुना रसितं रसयन्ति,
तस्माद् विद्वांसो विष्णु-भुक्तं भक्षयेयुर् +++(5)+++
इति।
[[242]]
रहस्याम्नाय-ब्राह्मणे च परिव्राजक-प्रकरणे –
अथ यदि कारिणं नासादयेत्
स्वयम् अन्नेन कुर्वीत
+++(भोजन-रूप-भगवत्-समाराधनेन)+++
इति;
भोजन-रूप-भगवत्-समाराधनेनेति शेषः।
एतद् एव वाक्यं
ब्रह्म-चारि-वान-प्रस्थ-प्रकरणयोर् अप्य् आम्नातम्।
कौटुम्बि+++(??)+++-प्रकरणे ऽप्य्
“अथ यदि कारिणो ऽप्य् असन्निहितास् स्युस्
स्वयम् अन्नेन कुर्वीते"ति।
पूर्वम् अनिवेदितानां भोजन-समय-समागतानाम् अपि हि द्रव्याणां
मनसा निवेद्यैव भोजनम् आम्नायते। +++(4)+++
दूषण-वारणम्
अथ यदि पश्चात् प्रभूत-गुणाः +++(पाकाः??)+++ प्रादुष्युर् +++(अपात्र-स्पर्शादिना?)+++
यैर् “नष्टं स्याद्” इति
भगवन्-निवेदित-प्राशन-रूपम् अनुयागं प्रस्तुत्य
+अन्तरत एव
“ॐ नमो भगवते वासुदेवाये"ति कृत्वा प्रकुर्वीत।
अथ यदि पश्चात् प्रभूत-गुणाः +++(पाकाः??)+++ प्रादुष्युर् +++(अपात्र-स्पर्शादिना?)+++
यैर् नष्टं स्याद् अप्य् उताप्राप्ता,
मनसा समीक्षितव्या भवन्ति,
तस्मान् न ह्य् अस्ति मनस उपघातः
अन्तरेण मलवद्-वासिनीं सूतिकां शव-स्पृष्टञ् चेति।
सन्ति च भगवच्-छास्त्रेषु परश् शतानि वचांसि। पारमेश्वर –
ततस् तु भगवद्-भुक्तं
प्राश्नीयान् नियतः स्वयम्।
क्षयाय सर्व-पापानां
मोक्ष-संसिद्धये ऽपि च॥
ब्राह्मे –
विष्णोर् निवेदितं शुद्धं
मुनिभिर् भोज्यम् उच्यते।
अन्यन् निवेदितं यत् तु
भुक्त्वा चान्द्रायणञ् चरेत्॥
ईश्वर-संहितायाम् –
निर्माल्य-बुद्ध्या देवीयं
पावनं दूषयन्ति ये।
ते यान्ति नरकं मूढास्
तत्-प्रभावापलापिनः॥
तत्रैव –
कुङ्कुमं चन्दनं माल्यं
कर्पूरञ् चानुलेपनम्।
विष्णु-देह-परामृष्टं
तद् वै परम-पावनम्॥
उपभुक्तस्य सर्वस्य
गन्ध-पुष्पादिकस्य च।
स्नानादाव् उपयुक्तस्य
दधि-क्षीरादिकस्य च॥
दूषणं न प्रयोक्तव्यं
शब्दैर् अ-प्रतिपत्ति-जैः
इति। सच्-चरित्र-रक्षायाम् –
हृदि रूपं, मुखे नाम,
नैवेद्यम् उदरे हरेः।
पादोदकञ् च निर्माल्यं
यस्य मूर्ध्नि स वैष्णवः॥ +++(5)+++
एषु निर्माल्य-शब्दो भुक्तोज्झित-माल्य-मात्र-विवक्षया; न तु निन्दाभिप्रायेण।
[[243]]
शेष-भुक्त्व-प्रशंसा
श्री-नारसिंहे –
गङ्गा-प्रयाग-गय-नैमिश-पुष्कराणि
पुण्यानि यानि कुरु-जाङ्गल-यामुनानि। कालेन तीर्थ-स-तिलानि पुनन्ति पापं
पादोदकं भगवतस् तु पुनाति सद्यः॥ +++(5)+++
मुकुन्दाशन-शेषन् तु
यो भुञ्जति (भुनक्ति) दिने दिने।
सिद्धे ऽसिद्धे च मासेन
चान्द्रायण-शताधिकम्॥
श्री-सात्वते –
सुगन्ध-फल-पुष्पाद्यम्
अ-पूर्वम् उचितञ् च यत्।
अ-भोज्यं गुरु-देवाग्नि-
विनिवेदन-वर्जितम्॥
कपित्थस्य फलं चैव
यथा कुञ्जर-भक्षितम्।
तस्य सारञ् च गृह्णीयात्
तथा हवि-रसं भुवि॥
पारमेश्वरे समाराधनाध्याये –
ये वैश्वदेव-निरता
विप्राद्या वैष्णवास् तु ते।
यल् लब्धं भगवद्-भुक्तं
तस्माद् आदाय चांशकम्॥
तेन कृत्वा वैश्वदेवम्
अवशिष्टांशकेन तु।
कुर्युः प्राणाग्नि-होत्रादीन्
विधानेन द्विजोत्तमाः॥
इति। भारते ज्ञान-काण्डे तृतीये ऽध्याये –
यश् श्राद्ध-काले हरि-भुक्त-शेषं
ददाति भक्तः पितृ-देवतानाम्।
तेनैव पिण्डञ् च तीलैर् विमिश्रम्
आकल्प-कोटिं पितरस् सुतृप्ताः॥
पारमेश्वरे –
एवन् तु भगवद्-भुक्त-
प्राशनं कुर्वते तु ये।
तेषां पुण्य-फलावाप्तिं
कश् शक्नोत्य् अभिवर्णितुम्॥
पाद्मे उत्तर-खण्डे षष्टितमे ऽध्याये –
सकृद् एव हि यो ऽश्नाति
ब्राह्मणो ज्ञान-दुर्लभः।
निर्माल्यं शङ्करादीनां
स चण्डालो भवेद् ध्रुवम्॥
कल्प-कोटि-सहस्राणि
पच्यते नरकाग्निना।
निर्माल्य-भुग् द्विज-श्रेष्ठो
रुद्रादीनां दिवौकसौम्॥
यक्ष-रक्षः-पिशाचानां
मद्य–मांस–सुरा-समम्।
तद्-ब्राह्मणो न कुर्याद् वै
देवानाम् अर्पितं हविः॥
तस्मान् नित्यं परित्यज्य
विष्णुम् एव सनातनम्।
पूजयध्वं द्विज-श्रेष्ठा
यावज् जीवम् अतन्द्रिताः॥
तद् विष्णोः परमं धाम
यास्यन्त्य् एव न संशयः।
मक्षिका–पाद-मात्रं वा
निर्माल्यं यदि भक्षयेत्।
रौरवे नरके घोरे
तस्य वासो विधीयते॥
काशी-खण्डे –
शिव-निर्माल्य-दातारश्
शिव-निर्माल्य-लङ्घकाः+++(=??)+++।
शिव-निर्माल्य-भोक्तारस्
ते वै निरय-गामिनः॥
[[244]]
श्री-भागवते –
त्वयोपभुक्त-स्रग्–गन्ध–
वासो–ऽलंकार-चर्चिताः।
उच्छिष्ट-भोजिनो दासास्
तव मायां जयेमहि॥ +++(4)+++
रत्नाकरे –
प्रापणेन महा-विष्णोर्
वैश्वदेवं करोति यः।
प्राणाग्नि-हवनञ् चैव
तेन लोका जितास् त्रयः॥+++(5)+++
परिषेचनात् पूर्वम् अन्न-परिमर्दन-निषेधः
…
रत्नाकरे –
अकृत्वा परिषेकन् तु
यद् अन्नं परिमर्दति।
हस्तेन मर्दितञ् चान्नं
भुक्त्वा चान्द्रयणं चरेत् ॥
पिबतः पतितं तोयं
यदा भोजन-भोजने।
अभोज्यं तद् भवेद् अन्नं
भुक्त्वा चान्द्रायणं चरेत्॥