०७ आसनम्

शाण्डिल्यः –

चतुरश्रेषु शुद्धेषु
सद्यः प्रक्षालितेषु च।
भूमि-संस्पृष्ट-पार्श्वेषु
विष्टरेषु समाविशेत्
पालाश–वट-तालानाम्
अश्वत्थस्य च काष्ठ-जम्।
चक्रादि-लाञ्छितं भिन्नं
यद् वै स्याद् उच्चम् आसनम्॥
वेत्र-चर्म-कृतं चैव
ताल-पत्र-कृतं कुशम्।
आयसं वर्जयेद् भुक्तौ
याग-योगोपयोगि च॥

[[239]]

पराशरः –

स्नातो यथावत् कृत्वा
देवर्षि–पितृ-तर्पणम्। प्रशस्त-रत्न-पाणिस् तु
भुञ्जीत प्रयतो गृही॥
कृते पाके हुते चाग्नौ
शुद्ध–वस्त्र-धरो नृप।
दत्त्वा ऽतिधिभ्यो विप्रेभ्यो
गुरुभ्यस् संश्रिताय च ॥
पुण्य–गन्ध-धरश् शस्त–
माल्य-धारी नरेश्वर।
विशुद्ध-वदनः प्रीतो
भुञ्जीत न विदिङ्-मुखः॥ प्राङ्-मुखोदङ्-मुखो वा ऽपि
न चैवान्य-मना नरः॥

हारीतः –

वंश-तालादि-पत्रैस् तु
कृतं वसनम् अश्म च। कपालम् इष्टकं वा ऽपि
वर्णं तृण-मयं तथा॥
चर्मासनं शुष्क-काष्ठं
खलं पर्यङ्कम् एव च।
निषिद्ध-धातु-पीठञ् च
दान्तम् अस्थिमयञ् च यत्॥
दग्धं परावितं+++(=??)+++ तालम्
आयसञ् च विवर्जयेत्।
विनीतकं तिन्दुकञ् च
करञ्जं व्याधि-घातुकम्॥
भल्लातकं कपित्थञ् च
हिन्तालं शिग्रुम् एव च।
निषिद्ध-तरवो ह्य् एते
सर्व-कर्मसु गर्हिताः॥