०६ पात्रम्

योग-याज्ञवल्क्यः –

अमत्रं वा ऽथ कांस्यं वा
राजतं वा हिरण्मयम्।
तानि पात्राणि सर्वेषां
यथा विभवम् आचरेत्
एक एव तु भुञ्जीत
विमले कांस्य-भाजने।
पलाद् विंशतिकाद् अर्वाग्
अत ऊर्ध्वं यथेच्छया॥

इदं भ्रात्रादि-विषयम्,
तद् अपि शिष्टाः परिहरन्ति
माधवीये –

प्रशस्त-शुद्ध-पात्रेषु
भुञ्जीताकुपितो[[??]] द्विजः।
सौवर्णे राजते कांस्ये
पद्म-पत्र–पलाशयोः॥
भोजने ऽभोजने चैव
त्रि-रात्रं फलम् अश्नुते
ब्रह्म-पत्रे तु यो भुङ्क्ते
मासम् एकं निरन्तरम्।
त्रिभिश् चान्द्रायणैस् तुल्यं
महा-पातक-नाशनम्॥

ब्रह्म-पत्रं - पेयत्ति[[??]],

सौवर्णं राजतं वा ऽपि
शूद्र-पात्रं तु स्पृशेत्
इतरेषान् तु शुद्धिस् स्यात्
ताप-घर्षणतस् तथा॥

किम् उत ताम्र-कांस्यादि-पात्रम् इति भावः।

स्मृत्यन्तरे –

पनसाम्र–नारिकेल–
कदली–बिल्व-पत्रके। उहिनाकाञ्चि-पत्रे[[??]] च
चान्द्रायण-फलं लभेत्॥

मनुः –

वटार्काश्वत्थ-पत्रेषु
कुम्भी–तिन्दुक-पत्रयोः।
कोविदार–करञ्जेषु
भुक्त्वा चान्द्रायणं चरेत्

द्राविड-टिप्पनी

कुम्भी - ताण्ति, तिन्दुकं - तुम्बिल्, कोविदारं - मलैयात्ति, करञ्जं - फुङ्गै।

व्यासः –

पलाश–पद्म-पत्रेषु
गृही भुक्त्वैन्दवं चरेत्
यतिश् च ब्रह्म-चारी च
लभते चान्द्रकं फलम्॥

माधवीये पलाश–पद्म-पत्रयोर् व्यवस्था दर्शिता –

वल्ली–पलाश-पत्रे च
स्थलजे पौष्करे तथा।
गृहस्थश् चेत् समश्नीयाच्
छुद्ध्यै चान्द्रायणं चरेत्॥

[[238]]

स्मृति-रत्ने च –

कदली-गर्भ-पत्रे च
पद्म-पत्रे जलास्पृशि।
वल्ली–पलाश-पत्रे च
भुक्त्वा चान्द्रायणञ् चरेत्

ततश् चैतद् व्यतिरिक्त-पलाश-पद्म-विषयो [[??]]र्द्रष्टव्यः, सर्वत्रापवाद-परिहारेणोत्सर्ग-प्रवृत्तेः [[??]] स्मृति-सङ्ग्रहे –

कर-कर्पटके चैव
पाषाणे ताम्र-भाजने।
वटार्काश्वत्थ-पर्णेषु
भुक्त्वा चान्द्रायणं चरेत्॥

अत्र चान्द्रायण-स्मरणं बहुकालाभ्यास-विषयम्,
प्रायश्चित्तस्य गुरुत्वात्;
एवम् अन्यत्रापि बोद्धव्यम्। +++(5)+++

मृण्मये पर्ण-पृष्ठे वा
कार्पासे तान्तवे ऽश्मनि।
नाश्नीयान् न पिबेच् चैव
न करे न तथाञ्जलौ॥

कार्पासे - पत्रे, तान्तवे - वस्त्रे, शाण्डिल्यः –

नाति दोष-वहं कांस्यं
भोजने ऽश्वत्थम् एव च।
कुटुम्बिनाम् अकामानाम्
अपीच्छन्तीह केचन॥

हारीतः –

स्व्-अलङ्कृते मण्डले ऽस्मिन्
विमलं भाजनं न्यसेत्
स्वर्णं रौप्यञ् च कांस्यं वा
पर्णं वा शास्त्र-चोदितम्
चतुष्-षष्टि-पलं कांस्यं
तद् अर्धं पादम् एव वा।
गृहिणाम् एव भोज्यं स्याद्
अतोहीनन् तु वर्जयेत्॥
वटार्काश्वत्थ-पर्णानि
कुम्भी-तिन्दुकयोस् तथा॥
भल्लातकाश्व-पर्णानां
पर्णानि परिवर्जयेत्
मोचा-गर्भ-पलाशञ् च
वर्जयेत् सर्व-कर्मसु॥
मधूकं कुटजं ब्राह्मं
जम्बू-प्लक्षम् उदुम्बरम्।
मातुलङ्गं पानसञ् च
मोचा-चर्म-दलानि च॥
पारक्य-पर्णं श्री-पर्णं
शुभानीमानि भोजने