आयुष्यं प्राङ्-मुखो भुङ्क्ते
यशस्यं दक्षिणा-मुखः।
प्रत्यङ्-मुखश् श्रियं भुङ्क्ते
ऋतं भुङ्क्त उदङ्-मुखः॥
“कामयमान” इति शेषः।
पञ्चार्द्रो भोजनं कुर्यात्
प्राङ्-मुखो मौनम् आस्थितः।
हस्ता पादौ तथैवास्यम्
एषां पञ्चार्द्रता स्मृता॥
गोबिलः –
प्राङ्-मुखावस्थितो विप्रः
प्रतीचीं वा यथा-सुखम्।
उत्तरां पितृ-कार्येषु
दक्षिणान् तु विवर्जयेत्॥
मनुः –
यो वेष्टित-शिरा भुङ्क्ते
यो भुङ्क्ते दक्षिणा-मुखः।
सोपानत्कश् च यो भुङ्क्ते
तद् वै रक्षांसि गच्छति॥
अत्र “प्राङ्-मुखो ऽन्नानि भुञ्जीते"ति नियम-विधिर् अन्यस् तु काम्यः।
पवित्रम्
हारीतः –
स-पवित्रेण यो भुङ्क्ते
सर्व-यज्ञ-फलं लभेत्॥
भरद्वाजः –
ब्रह्म-यज्ञे जपे चैव
ब्रह्म-ग्रन्थिर् विधीयते।
भोजने वर्तुलं प्रोक्तम्
एवं धर्मो न हीयते॥
विश्वामित्रः -
पवित्रं धारयेन् नित्यं
कौशेयं दक्षिणे करे।
भोजनादौ विशेषेण
अन्न-दोषैर् न लिप्यते॥
शाण्डिल्यः –
भुवं स्पृष्ट्वा पदाग्रेण
पात्रं सव्येन पाणिना।
इज्या-प्रदेशाभिमुखस्
समश्नीयात् प्रसन्न-धीः॥
[[237]]