…
अखण्डादर्शे –
उपलिप्य सम-स्थाने
शुचौ श्लक्ष्णासनान्विते।
चतुरश्रं त्रि-कोणञ् च
वर्तुलं चार्ध-चन्द्रकम्॥
कर्तव्यम् आनुपूर्व्येण
ब्राह्मणादिषु मण्डलम्॥
वृद्धात्रेयः –
यातु-धानाः पिशाचाश् च
असुराश् चाथ राक्षसाः।
घ्नन्ति वै बलम् अन्नस्य
मण्डलेन विवर्जितम्॥
ब्रह्मा विष्णुश् च रुद्रश् च
श्रीर् हुताशन एव च।
मण्डलान्य् उपजीवन्ति
तस्मात् कुर्वीत मण्डलम्॥
गोमयं मण्डलं कृत्वा
भोक्तव्यम् इति निश्चितम्।
पात्रावस्थानतो ऽन्यूनम्
अधिकं वा न कारयेत्॥
उपलिप्य शुचौ देशे
निश्छिद्रं चतुर्-अश्रकम्।
स-विताने समीपे च
भोक्तव्यं भगवन्-मयैः॥
समीपे - इज्या-प्रदेशस्य, भगवन्-मयैः - भगवद्-ध्यान-प्रचुरैः,
कबले कबले कुर्वन्
गोविन्दस्यानुकीर्तनम्।
जीवन् मुक्तो ऽन्यथा कुर्वन्
केवलोदर-पूरक॥ +++(5)+++
इति स्मृतेः।