०३ कालः

मनुः –

सायं प्रातर् द्वि-जातीनाम्
अशनं श्रुति-चोदितम्।
नान्तरा भोजनं कुर्याद्
अग्नि-होत्र-समो विधिः॥

[[236]]

द्विर्-भोजन-निषिद्ध-दिवसाः

… देवलः –

पित्रोर् मृताहे पूर्वेद्युर्
भानु-वारे च सङ्क्रमे। तथा चतुर्दश्य्-अष्टम्योर्
व्रतेषु च महोत्सवे॥
श्रोत्रिये मरणं प्राप्ते
गुरूणां दुःख-सम्भवे।
पितरि व्याधिना ग्रस्ते
महा-राज-निपातने
उक्तेष्व् एतेषु दिवसेष्व्
अन्येषु व्रत-पर्वसु।
द्वि-वारं समश्नीयाद्
विप्रो धर्म-परायणः॥
तस्य पाप-विशुद्ध्य्-अर्थं
सहसा निष्कृतिं चरेत्।
पञ्च-गव्येन शुद्धस् स्याद् विप्रो द्वि-वार-भोजने॥

सङ्ग्रहे –

अर्क-द्वि-पर्व-रात्रौ च
चतुर्दश्य्-अष्टमी दिवा।
एकादश्याम् अहोरात्रं
भुक्त्वा चान्द्रायणं चरेत्॥