०२ आचमनम्

आपस्तम्बः –

भोक्ष्यमाणस् तु प्रयतो ऽपि द्विर् आचामेत्।

स्मृत्य्-अन्तरे –

यस् तु भोजन-शालायां
भोक्तु-काम उपस्पृशेत्
आसन-स्थो न चान्यत्र
स विप्रः पङ्क्ति-दूषकः॥
भोक्तु-कामो यदा विप्र
आचान्तो ह्य् आसने स्थितः
अभिवादं करोत्य् अस्य
पुनर् आचमनं चरेत्