आपस्तम्बः – भोक्ष्यमाणस् तु प्रयतो ऽपि द्विर् आचामेत्। स्मृत्य्-अन्तरे – यस् तु भोजन-शालायां भोक्तु-काम उपस्पृशेत्। आसन-स्थो न चान्यत्र स विप्रः पङ्क्ति-दूषकः॥ भोक्तु-कामो यदा विप्र आचान्तो ह्य् आसने स्थितः। अभिवादं करोत्य् अस्य पुनर् आचमनं चरेत्॥