०१ निवेदितान्न-निवेदनम्


शाण्डिल्यः –

प्रापणं भगवद्-भुक्तं
लब्ध्वा भागवतेन तत्।
पुनर् इष्ट्वैव भोक्तव्यं
दानं तस्य न चेष्यते

इदं मानसिकाभिप्रायम्; तथा तेनैवोक्तम् -

मूर्त्य्-अन्तरेण सम्भुक्तम्
अयत्नेन समागतम्
स्व-मन्त्र-मूर्त्यै सञ्चिन्त्य
मनसा तत् समर्पयेद्

इति। किञ्च -

अनर्पितं स्व-भगवते
स्वाराध्याय स्व-मन्त्रतः।
यद् भुक्त्वा कुरुते कर्म
तद् द्रव्यं यस्य तस्य तत्॥
कर्मण मनसा वाचा
यथा-कालं यथा-बलम्।
स्वाराध्याय निवेद्यैव
सर्वं भुञ्जीत बुद्धिमान्॥

इति च।