पराशरः –
षष्टिर् वर्ष-सहस्राणि
विष्णोर् आराधनात् फलम्।
सकृद् वैष्णव-पूजायाः
कलां नार्हति षोडशीम्॥
शाण्डिल्यः –
गृहे भागवतं प्राप्तम्
अ-ज्ञानाद् यो ऽवमन्यते।
नष्ट-श्रीको भवेत् सद्यः
क्षीणायुः पुण्य-संक्षयः॥
उशन-स्मृतौ –
यत्र भागवतानान् तु
पादोदक-निषेवणम्।
पावनं सर्व-भूतानां
सोम-पानवद् आचरेत्॥
भारते –
वैष्णवानान् तु यो मर्त्यः
पिबेत् पादोदकं सदा।
क्षय-रोगादि–कुष्ठान्तं
सर्वे नश्यन्ति भारत॥
पराशरः –
तिस्रः कोट्य्-अर्ध-कोटी च
तीर्थानि भुवन-त्रये।
वैष्णवाङ्घ्रि-जलात् पुण्यं
कोटि-भागेन नो समम्॥
[[235]]
विष्वक्सेन-संहितायाम् –
मण्डलं पुरतः कृत्वा
तद् ऊर्ध्वे त्व् आसनं न्यसेत्।
तस्योपरि न्यसेत् पात्रं
तच् च पुष्पैः समर्चयेत्॥
आगतं वैष्णवं साक्षाद्
विष्णुम् इत्य् एव चिन्तयेत्।
प्रणिपत्य यथा-न्याय्यं
प्रार्थयेच् छ्री-पद-द्वयम्॥
तत्-कृपा–दत्त-चरणौ
मूर्ध्नि फाले दृशोर् हृदि।
विन्यस्य भक्ति-पूर्वन् तु
क्षालयेद् गन्ध-वारिणा॥
प्रथमं दक्षिणं पादं
ततो वामं यथा-विधि।
धौत-वस्त्रेण संशोध्य
पूर्ववत् स्वाङ्गके न्यसेत्॥
तांम्बूलाद्य्-उपहारांश् च
निधाय पुरतो नमेत्।
तद्-अनुज्ञां पुरस्-कृत्य
त्रिस् तीर्थं तत् पिबेत् सुधीः॥
रुक्मे च रजते चैव
ताम्रे चैव च मृण्-मये।
न कांस्ये क्षालयेत् पादौ
कदाचिद् अपि वै नरः॥
वस्त्रञ् च द्वि-गुणी कृत्य
पाणौ पाणिञ् च विन्यसेत्।
तत्र तीर्थं प्रतिष्ठाप्य
त्रिः पिबेद् बिन्दु-वर्जनम्॥
परमाणु-समं तीर्थं
यावत् तु पतितं भुवि।
तावद् वर्ष-सहस्राणि नरकेषु निमज्जति॥
अर्चान्तं पूजयेद् भक्त्या
स्वर्ण–वस्त्रादि–भूषणैः।
फलैश् च विविधैः भक्क्ष्यैस्
ताम्बूलैश् च समाहितः॥
तत्-तीर्थं प्राशयेद् भक्त्या
पुत्र–दार–सुहृज्-जनैः।