११ वैकुण्ठ-होमः

महा-भागवतोत्तमस् तु वैकुण्ठ-होमञ् च कुर्यात्।
तत्-प्रकारस् तु पाद्मे उत्तर-खण्डे अष्ट-पञ्चाशे ऽध्याये –

प्रीत्य्-अर्थं वासुदेवस्य
कर्म-ज्ञानादिकं नरः।
स विप्रः परमैकान्ती
महा-भागवतोत्तमः॥
हरेर् नैवेद्य-शेषेण
जुहुयाद् वह्नि-मण्डले।
प्रत्य्-ऋचं पुरुष-सूक्तेन
श्री-सूक्तं मङ्गलाह्वयम्॥
होतव्यम् आज्य-सम्मिश्र–
हविषा वैदिकानले।
मन्त्रेण मन्त्र-रत्नेन
जुहुयाद् भक्ति-संयुतः॥
अष्टोत्तर-शतं वा ऽपि
अष्टा-विंशतिर् एव वा।
यज्ञ-रूपं महा-विष्णुं
ध्यायन् वै जुहुयाद् धविः॥
शुद्ध-जाम्बूनद-निभं
शङ्ख–चक्र–गधा-धरम्
समस्त-वेद-वेदाङ्ग-
साङ्गोपाङ्ग-युतं प्रभुम्॥
देव्या श्रिया समासीनं
ध्यात्वा होमं समाचरेत्।

[[234]]

एकैकाम् आहुतिं पश्चान्
नामभिर् जुहुयाद् धविः॥
नित्यान् मुक्तान् समुद्दिश्य
महा-भागवतोत्तमः।
भू-नीला-विमलाद्याश् च
शक्तयः प्रथमं क्रमात्॥
अनन्त-विहगेन्द्रादि-
देवतास् तद्-अनन्तरम्।
वासुदेवादयः पश्चात्
तथा सत्यादि+++(=शक्त्यादि??)+++-देवताः॥
होतव्याः क्रमशस् तस्मिन्
सम्पूज्याश् च विशेषतः।
एतद्-वैकुण्ठ-होमन् तु
महा-भागवतोत्तमः। नित्यार्चन-विधौ नित्यं
कुर्वीत सुसमाहितः॥
बलिञ् च सर्व-भूतानां
दिक्षु दद्याद् अतन्द्रितः॥
गृहार्चने गृह-द्वारे
पञ्च-यज्ञ-विधानतः॥
दत्त्वा बलिं विधानेन
पश्चाद् आचमनं चरेत्