शङ्खः –
गो-दोह-मात्रम् अङ्कणे
ऽतिथिं प्रतीक्षमाण आसीत॥
पुराणे –
नाडिकायाश् चतुर्-भागं गो-दोहं ब्रुवते बुधाः॥
…
पराशरः –
इष्टो वा यदि वा द्वेष्यो
मूर्खः पण्डित एव वा।
सम्प्राप्तो वैश्वदेवान्ते
सो ऽतिथिः स्वर्ग-सङ्क्रमः॥
चोरश् चैवाथ चण्डालश्
शत्रुर् वा पितृ-घातुकः।
देश-काले तु सम्प्राप्तस्
सो ऽतिथिस् स्वर्ग-सङ्क्रमः॥+++(5)+++
“द्विषन्तं नैव भोजयेद्”
इति वचनम् अ-देश-काले स्वयं प्रार्थना-विषयम्। +++(4)+++
आश्वमेधिके –
दूराध्व-गं श्रान्तम् अनुव्रजन्ति
देवाश् च सर्वे पितरो ऽग्नयश् च।
तस्मिन् द्विते+++(=??)+++ पूजिते पूजितास् स्युर्
दिते+++(=खण्डिते)+++ निराशा अपि ते प्रयान्ति॥
दिते - खण्डिते,
अतिथिर् यस्य भग्नाशो
गृहात् प्रतिनिवर्तते।
न तस्मै दुष्कृतं दत्त्वा
पुण्यम् अदाय गच्छति॥
हारीतः –
शूद्रो वा प्रतिलोमो वा
यदि श्रान्तः क्षुधा ऽऽतुरः।
भोजयेत् तं प्रयत्नेन
गृहम् अभ्यागतो यदि॥पाषण्डः पतितो वा ऽपि
क्षुधार्तो गृहम् आगतः।
नैव दद्यात् स्व-पक्वान्नम्
आमम् एव प्रदापयेत्॥ +++(5)+++
[[233]]
मनुः –
न पृच्छेद् गोत्र-चरणौ
न स्वाध्यायं न च श्रुतम्।
चित्ते विभावयेत् तत्र
देवो ऽयं समुपस्थितः॥
अभ्यागतो ज्ञात-पूर्वो,
ऽज्ञातो ऽतिथिर् उच्यते॥
मनुः –
पाषण्डिनो विकर्मस्थान्
बैडाल-प्रतिकान् शठान्।
हैतुकान् बक-वृत्तिंश् च
वाङ्मात्रेणापि नार्चयेत्॥
बृहस्पतिः –
नष्ट-शौचे व्रत-भ्रष्टे
विप्रे वेद-विवर्जिते।
दीयमानं रुदत्य् अन्नं
“किं मया दुष्कृतं कृतम्”॥
वेद-विद्या-व्रत-स्नाते
श्रोत्रिये गृहम् आगते।
क्रीडन्त्य् ओषधयः सर्वा
“यास्यामः परमां गतिम्”॥+++(5)+++
मनुः –
न भोजनार्थं स्वे विप्रः
कुल-गोत्रे निवेदयेत्।
भोजनार्थं हि ते शंसन्
“वान्ताशी"त्य् उच्यते बुधैः॥
रत्नाकरे –
द्वाव् इमौ पुरुषौ लोके
स्वर्गस्योपरि तिष्ठतः।
अन्न-प्रदाता दुर्भिक्षे
सुभिक्षे हेम-वस्त्र-दः।