०९ यति-भिक्षा

दान-चोदना

पराशरः –

दद्याच् च भिक्षा-त्रितयं
परिव्राड्-ब्रह्म-चारिणम्।
इच्छया वा बुधो दद्याद्
विभवे सत्य् अवारितम्॥
यतेर् हस्ते जलं दद्याद्
भैक्षं दद्यात् पुनर् जलम्। तद्-भैक्षं मेरुणा तुल्यं
तज् जलं सागरोपम्॥

[[231]]

रत्नाकरे –

यतिर् यस्य गृहे भुङ्क्ते
तत्र भुङ्क्ते हरिस् स्वयम्।
हरिर् यस्य गृहे भुङ्क्ते
तत्र भुङ्क्ते जगत्-त्रयम्॥

सङ्ग्रहे –

पञ्चाहं सप्त-रात्रं वा
यस्मिन् भिक्षा न लभ्यते।
तद्-गृहं वर्जयेद् दुष्टं
चण्डाल-गृहवद् यतिः॥

पात्रम्

यति-धर्म-समुच्चये –

सुवर्ण-रूप्य-पात्रैर् वा
ताम्र-कांस्यायसेषु च।
भिक्षां दत्वा न धर्मो ऽस्ति
गृहीत्वा नरकं व्रजेत्॥

इदं यति-विषयम्, ब्रह्म-चारिणे न दोषः।

वैश्वदेवम्

पराशरः –

वैश्व-देव-कृतं पापं
भिक्षुर् एको व्यपोहति
न भिक्षुणा कृतं पापं
वैश्व-देवो व्यपोहति॥

ततश् च वैश्वदेवात् प्राग् एव भिक्षौ समागते
भिक्षैव देया,+++(5)+++
वैश्व-देवाकरणे न दोष इति भावः।
एतद् एक-भाण्ड-पक्व-विषयम् ;
पृथक् पाके तु वैश्व-देवः कर्तव्यः। +++(5)+++

वन्दन-निषेधः

भिक्षा-काले च केनापि
नमस्कारः कृतो यदि।
तद् अन्नन् तु परित्याज्यं
भुक्त्वा चान्द्रायणं चरेत्। +++(4)+++

ग्रहणाधिकारः

मनुः –

प्रेषितस्य दरिद्रस्य
कुटुम्बात् प्रच्युतस्य च।
अध्वानं वा प्रपन्नस्य
भिक्षा-चर्या विधीयते॥ +++(5)+++

तद् एवम्

यतये काञ्चनं दत्त्वा
तण्डुलं ब्रह्म-चारिणे।
पक्वान्नन् तु गृहस्थाय
दाता दुर्गाणि गच्छति

इत्य् उक्त-दोषो नास्तीति भावः।

मात्रा

चन्द्रिकायाम् –

माधू-करीं य आदाय
ब्राह्मणेभ्यः प्रयच्छति
दाता तु नरकं याति
भोक्ता भुञ्जीत किल्बिषम्॥

अतो
नान्यार्थं भिक्षेत ब्रह्म-चारी यतिर् वा
नाधिकम् आहरेद् इत्य् अभिप्रायः। यमः –

आहार-मात्राद् अधिकं
कश्चित् भैक्षम् आहरेत्युज्यते स्तेय-दोषेण
कामतो ऽधिकम् आहरन्
तस्मान् नोपहरेद् भैक्षम्
अतिरिक्तं यतिर् व्रति॥

“कामत” इत्य् उक्तेर् अकामतो न दोषः।+++(4)+++

[[232]]

दर्वी

रत्नाकरे –

हस्त-दत्ता तु या भिक्षा
लवण-व्यञ्जनानि च।
भोक्ता ऽप्य् अशुचितां याति
दाता स्वर्गं न गच्छति
हस्त-दत्तानि तु स्नेहाल्
लवण-व्यञ्जनानि च।
दातारं नोपतिष्ठन्ति
भोक्ता भुञ्जीत किल्बिषम्॥
तस्माद् अन्तर्-हितं चान्नं
पर्णेनाथ तृणेन वा।
प्रदद्यान् न तु हस्तेन
नास्तिके (न स[[??]] हस्ते तु) न कदाचन॥

अतो भोक्तृभ्यः पर्णाद्य-अन्तरितम् एव देयम् न तु केवलेन हस्तेन।

हस्ते ददाति यस् स्नेहं
लवण-व्यञ्जनादिकम्।
दाता तु नरकं याति
भोक्ता भुञ्जीत किल्बिषम्॥

दर्व्या क्वचिन् निषेधम् आह यमः –

दर्व्या देयं श्रितान्नं च
समस्त-व्यञ्जनानि च।
तैल-पक्वम् अपक्वञ् च
न तु दर्व्या कदाचन॥

पराशरः –

आयसेन तु पात्रेण
यद् अन्नम् उपनीयते।
शुनोच्छिष्टम् असौ भुङ्क्ते
दाता च नरकं व्रजेत्
अयः पात्रम् अयोग्यं स्यात्
स्नानाचमन-कर्मसु।
तत्र स्थितं घन-रसं
नोपयोज्यं द्विजातिभिः॥