विधुरं प्रकृत्यात्रिः
साग्निकः पितृ-यज्ञं तं
बलि-कर्म समाचरेत्।
अनग्निर् हुत-शेषं तु
बलिं काक-बलिं हरेत्॥ पुरुष-यज्ञाद् ऋते नान्यस्
त्व् अनग्नेस् तु महा-मखे॥ +++(5)+++
तु-शब्दाभ्यां देवादि-यज्ञ-चतुष्टयं व्यावर्तते,
स्वाध्यायन् त्व् अविस्मृत्य्-अर्थं केवलं नित्यम् अधीयीत,
“न ब्रह्म-यज्ञं कुर्याद्” इति च विशिष्यते।
पञ्च कॢप्ता महा-यज्ञाः
प्रत्य् अहं गृहमेधिनाम्
इति पराशरेण पञ्च महा-यज्ञानां गृहमेधि-विशिष्टत्व-स्मरणात्;
मनुष्येभ्यो ऽन्न-दानम् इति न विरोधः।
वसिष्ठः –
अनग्निकस् तु यो विप्रस्
सो ऽन्नं व्याहृतिभिस् स्वयम्।
हुत्वा शकल-होमं च
शिष्टं काक-बलिं हरेत्॥
विष्णुश् च –
अन्नं व्याहृतिभिर् हुत्वा
हुत्वा मन्त्रैश् च शाकलैः।
प्रजा-पतेर् हविर् हुत्वा
पूरयेन् नाधिकं ततः॥
त्रिभिर् व्याहृतिभिर् अन्नाहुतीर् हुत्वा
“प्रजा-पतये स्वाहे”ति च,
ततो “जीव-कृतस्यै न स” इत्य् आद्यैश्+++(=??-)+++ शकल-होमञ् च हुत्वा
होमं समापयेत्;
ततो ऽधिकम् अनग्नेः किञ्चिन् नास्तीत्य् अर्थः।
व्यासः –
ततश् शनैश् शनैर् दद्यात्
बलिं काक-शुनां तथा।
कृत्वैतद्-बलि-कर्मैवम्
अतिथिं पूज्यम् आशयेत्॥
भिक्षां च भिक्षवे दद्याद्
विधिवद्-ब्रह्म-चारिणे।
यतिश् च ब्रह्म-चारी च
पक्वान्न-स्वामिनाव् उभौ॥
तयोर् अन्नम् अदत्वा
तु भुक्त्वा चान्द्रायणं चरेत्॥