पितृ-यज्ञं प्रकृत्याह शाण्डिल्यः –
दद्यात् पितॄन् समुद्दिश्य
भगवज्-ज्ञान-योगिने।
चत्वारो बहवो द्वौ वा
सम्यक् ज्ञान्य् एक एव वा॥
पूज्यो नित्यं प्रयत्नेन
पित्रर्थं भोज्य-सम्पदा॥
रत्नाकरे –
नामन्त्रणं न होमञ् च
नाह्वानं न विसर्जनम्।
न पिण्ड-दानं न सुरो+++(→सुरार्थ-भोजनम्)+++
नित्ये कुर्याद् विचक्षणः॥
न सुरः - पित्रर्थम् एव भोजयेत्, न देवार्थम् इत्य् अर्थः।
अनुकल्पः
व्यासः –
विप्राभावे तु पिण्डं वा
दद्याद् दक्षिणतो ऽपि च।
कुक्कुटाण्डक-मात्रं तु
पिण्डम् इत्य् अभिधीयते॥
अङ्गुष्ठ-पर्व-मात्रं स्याद्
अवदानम् इति स्थितिः॥
[[230]]