…
भार्यादिः पाक-कृज् जनः
वैश्व-देवार्थं स्थापितम् अन्न-भागं सूप-व्यञ्जन-सहितम् आदाय
“भूतम्” इत्य् उक्त्वा यजमानाय दद्यात्,
“तत् सुभूतँ सा विराट् तन् मा क्षायी"ति प्रत्युक्ते
ऽग्नाव् अधिश्रित्य प्रोक्ष्य
वाम-भागे निधाय
पञ्चधा विभज्य
“वैश्व-देवं करिष्य” इति सङ्कल्प्य परिषिच्य
“अग्नये स्वाहे"त्य्-आदिभिष् षड्भिः अक्षार-लवणं घृतादि-मिश्रम् अन्नं हुत्वा
उदीचीनम् उष्णं भस्मापोह्य
तत्र सूपादिकं सर्वं व्यञ्जनम् आदायाहविष्यं “स्वाहे"ति सकृद् +धुत्वा
परिषिच्य
अङ्गुल्यग्राणि यथा भूमिं न स्पृशन्ति तथा बलि-हरणञ् च
सूप-व्यञ्जन-मिश्रैर् बदरी-फल-मात्रैर् अन्नादिभिः “धर्माय स्वाहे"त्यादिभिर् मन्त्रैः कुर्यात्।
अनन्तरम् अग्रं दत्त्वा
“देवेभ्यः स्वाहे"त्य्-आदिभिः+++(=??)+++ पञ्च-महा-यज्ञान् कृत्वा
तच्-छेषेणैव भोजनं कार्यम्,
अहुत-शेष-भोजने प्रत्यवाय-स्मृतेः।
अत्र शाण्डिल्यः –
विशेष-वस्तु सम्पाद्य
हृद्यं पुष्पोदनादिकम्।
अनिष्ट्वा च तथा ऽदत्त्वा
तम् अग्नौ नर-सूकरः॥
चक्राकारम् अथाष्टारं
कुर्याद् अग्नि-समीपतः।
बदरी-फल-मात्रन् तु
घृत-क्षीरान्न-मिश्रितम्॥