…
याज्ञवल्क्यः –
बालस् सुवासिनी वृद्धा
गर्भिण्य्-आतुर-कन्यका।
सम्भोज्या ऽतिथि-भृत्याश् च,
दम्पत्योश् शेष-भोजनम्॥
सुवासिनी - परिणीता पितृ-गेहे स्थिता दुहिता,
विघसाशी भवेन् नित्यं
नित्यं चामृत-भोजनः। विघसं भुक्त-शिष्टं स्याद्
यज्ञ-शिष्टं तथा ऽमृतम्॥
गीतायाम् –
यज्ञ-शिष्टाशिनस् सन्तो
मुच्यन्ते सर्व-किल्बिषैः।
भुञ्जते ते त्व् अघं पापा
ये पचन्त्य् आत्म-कारणात्॥
श्रुतिः –
केवलाघो भवति केवलादी॥
[[TODO: परिष्कार्यम्]]