अथ संविभाग उच्यते; दक्षः –
पञ्चमे तु तथा भागे
संविभागो यथार्हतः।
पितृ-देव-मनुष्याणां
कीटानाञ् चोपदिश्यते॥
दर्पणे –
प्रक्रम्य पर्वण्य् अथ वैश्व-देवं
कुर्याद् ग्रहस्थो ह्य् अनिशं दिवा वा।
शुद्ध्य्-अर्थम् अन्नस्य तथा ऽऽत्मनश्
च नाश्नन् प्रवासे तु फलादिभिर् वा॥
औपासने वा पचने ऽथवा ऽग्नौ
घृताक्तम् अन्नं जुहुयात् करेण।
स्वकीय-शाखोदित-मन्त्र-सङ्घैर्
बलिञ् च हुत्वा ऽथ विहायसाञ् च॥
व्यासः –
सायं प्रातर् वैश्व-देवः
कर्तव्यो बलि-कर्म च।
अनश्नाता ऽपि कर्तव्यम्
अन्यथा किल्बिषी भवेत्॥
नृ-सिंह-पुराणे –
वैश्व-देवेन ये हीना
आतिथ्येन बहिष्कृताः।
सर्वे ते वृषला ज्ञेयाः
प्राप्त-वेदा अपि द्विजाः॥
[[227]]
व्यासः –
पञ्च सूना गृहस्थस्य
वर्तन्ते ऽहर् अहस् सदा।
खण्डनी पेषणी चुल्ली
उद-कुम्भ उपस्करः॥
एताभिर् वाहयेद् विप्रो
बध्यते वै मुहुर् मुहुः।
एतासां पावनार्थन् तु
पञ्च-यज्ञाः प्रकीर्तिताः॥
खण्डनी - क्रकचोलूखलादि,
पेषणी - दृषदादि,
चुल्ली - पाक-स्थानं,
उद-कुम्भः - उदधानं,
उपस्करः - शूर्पादि।
एवं पावनार्थत्व-मात्रं न भवति,
किन्त्व् अकरणे प्रत्यवाय-स्मृतेः;
आश्वमेधिके –
पञ्च-यज्ञान् परित्यज्य
यो भुङ्क्ते हि द्विजाधमः।
स भवेद् विड्-वराहश् च
श्वान-योनिषु जायते॥
…
भृगुः –
यत् फलं सोम-यागेन
प्राप्नोति धनवान् द्विजः।
सम्यक् पञ्च-महा-यज्ञैर्
दरिद्रस् तद् अवाप्नुयात्॥
…
पाद्मे उत्तर-खण्डे –
श्रुति-स्मृत्य्-उदितं कर्म
नाचरेद् यदि वैष्णवः।
स पाषण्डत्वम् आपन्नो
रौरवे नरके वसेत्॥
व्यासः –
अकृत्वा वैश्व-देवन् तु
यो भुङ्क्ते ऽनापदि द्विजः।
स मूढो नरकं याति
काल-सूत्रम् अवाक्-शिराः॥
रत्नाकरे –
सायं प्रातश् च कुर्वीत
वैश्व-देवं यथा-विधि।
महतः पञ्च-यज्ञांस् तु
दिवैवेत्य् आह गौतमः॥
व्यासः –
नैवेद्यार्थं पृथग् भाण्डे
पत्नी स्नात्वा पचेद् गृहे।
वैश्व-देवार्थम् अन्यस्मिन्
व्यञ्जनानि पृथक् पृथक्॥
एकस्मिन् वा पचेद् भाण्डे
पूर्वं विष्णु-निवेदनम्।
वैश्व-देवम् ततश् शिष्टाद्
व्यासस्य वचनं यथा॥
इदं वैश्व-देवं कर्म व्यजनाकारम् एवाग्नि-समीपे शिष्टैर् अनुष्ठीयते॥
अनुकल्पः
…
व्यासः –
पयो-मूल-फलैर् वा ऽपि
पञ्च-यज्ञान् समाचरेत्।
अ-कृत्वा पञ्च-यज्ञांस् तु
भुक्त्वा चान्द्रायणं चरेत्॥
…
कात्यायनः –
पक्वाभावे प्रवासे तु
तण्डुलान् ओषधीं तु वा।
पयो–दधि–घृतं वा ऽपि
कन्द–मूल–फलानि वा॥
जुहुयाद् इति शेषः। रत्नाकरे –
अलाभे येन केनापि
फल-शाकोदकादिभिः।
अथवा मन्त्रतः कुर्याद्
भवेन् नावैश्वदेविकः ॥
[[228]]
अनेनैवाभिप्रायेण शाण्डिल्यः –
लवणं चोदकं हित्वा
कर्मण्यं यद् उदाहृतम्।
तत्-सर्वं जुहुयाद् अग्नौ
तिल–पुष्प–फलादिकम्॥
आवाह्यग्नौ जगन्-नाथं
मनसा ऽभ्यर्च्य शक्तितः।
जुहुयात् काष्ठ–पुष्पान्न–
घृत–क्षीर–तिलादिकम्॥
तथा ऽऽपस्तम्बः - “देवेभ्यस् स्वाहा-कार आकाष्ठाद्” इति।+++(5)+++
नियमः
अत्र नियमम् आह कात्यायनः –
पयो-दधि-घृतैः कुर्याद्
वैश्व-देवं स्रुवेण तु।
हस्तेनान्नादिभिः कुर्याद्
अद्भिर् अञ्जलिना जले॥
अनेन क्षार-लवणोदक-व्यतिरिक्तं सर्वं
वैश्व-देव-कर्मण्य् अग्नाव् एव जुहुयात्,
जलं तु जल एव,+++(5)+++
क्षार-लवण-मिश्रं तु उत्तरोष्ण-भस्मनीति-व्यवस्था।
तथा बोधायनः –
अङ्गारान् भस्म-मिश्रांस् तु
निरस्योत्तरतः पृथक्।
जुहुयाद् वैश्व-देवं तु
यदि क्षारादि-मिश्रितम्॥
सर्वैः कार्यम्
यमः –
स्नातको ब्रह्म-चारी च
पृथक्-पाकी भवेद् यदि।
वैश्व-देवं प्रकुर्वीत
स्त्री-बालौ कारयेद् यथा॥
ब्रह्म-चारी गृही वा ऽपि
विधुरो विधवा अपि।
होमाग्र–दान-रहिता
न भोक्तव्यं कदाचन॥
इदं वैश्व-देवादिकं शूद्रेणापि तन्त्रतः कर्तव्यम्। तथा याज्ञवल्क्यः –
भार्या-रतिश् शुचिर् भृत्य-
भर्ता श्राद्ध-क्रिया-परः।
नमस्-कारेण मन्त्रेण
पञ्च-यज्ञान् न हापयेत्॥
“स शूद्र” इत्य् अनुवर्तते;
मनुष्य-यज्ञ-विवृतिः
मुख्य-कल्पानन्तरं मनुष्य-यज्ञं प्रकृत्योक्तम्।
हन्त-कारम् अथाग्रं वा
भिक्षां वा शक्तितो द्विजः।
दद्याद् अतिथये नित्यं
बुध्येत परमेश्वरम्॥
शातातपः –
ग्रास-मात्रं भवेद् भिक्षा
त्व् अग्रं ग्रास-चतुष्टयम्॥
विज्ञानेश्वरे –
ग्रास-मात्रा भवेद् भिक्षा
पुष्कलं तच्-चतुर्-गुणम्।
हन्त-कारं चतुर्भिस् स्याद्
अग्रं तत्-त्रि-गुणं भवेत्॥
[[229]]