शाण्डिल्यः –
अन्नम् अम्बूनि वस्त्राणि
पात्राणि स्रक्-फलादिकम्।
इष्ट-मिष्टावशिष्टं वा
प्रदद्यात् पञ्च-कालिने॥
सर्व-पाप-प्रशमनं
सर्व-दुःख-निवारणम्।
भगवद्-भुक्तम् अन्नाद्यम्
अयोग्येभ्यो न योजयेत्॥
अयोग्य-योजनाद् एव
योग्ये चाप्य् अवियोजनात्।
भगवद्-भक्ति-युक्तोपि
प्रायश्चित्ती भवेन् नरः॥
ईश्वर-संहितायाम् –
रक्षणीयम् अ-भक्तेभ्यस्
तद्-अन्नं विष्णु-याजकैः।
प्रायश्चित्ती भवेद् दाता
अपात्रे प्रतिपादनात्॥
वङ्गीश्वरः –
नैव देयम् अपात्रेभ्यः
कदाचिद् अपि किञ्चन।
प्रायश्चित्ती भवेद् दाता
अपात्रे प्रतिपादनात्॥
भगवन्-मन्त्र-दृक्-पूतम्
अपात्रेभ्यो ददाति यः।
सिद्धो ऽपि याति पातित्यम्
आरुरुक्षुस् तु किं पुनः॥
दाता प्रतिगृहीता च
नरकं व्रजतो ध्रुवम्॥
[[224]]
शाण्डिल्यः –
ब्राह्मणं क्षत्रियं वैश्यं
शूद्रं स्त्रियम् अथेतरम्।
पूजयेत् तान् यथा-योग्यं
भगवद्-भक्ति-भावितान्॥
अ-कृत्रिमा भगवति
प्रीतिर् यस्मिन् प्रदृश्यते।भक्तेषु वाच्य एवायं
बाह्य-लिङ्ग-धरो ऽपि वा॥
वैष्णवो ऽहं प्रदेहीति
याचितो येन केन वा।
नावमन्येत तं विद्वान्
तर्पयेद् अन्यथा ऽपि च॥अविज्ञाता अनर्हाश् च
मान्या ये गृहमेधिनः।
देवानिवेदितैर् द्रव्यैस्
तर्पयेत् तद्-असन्निधौ॥भुक्तं भगवता यद् यद्
भुक्त-शेषम् अथापि वा।
हुत-शेषं तथोच्छिष्टं
भक्ति-हीने न योजयेत्॥
अवश्यं भोजनीयानाम्
अ-भागवत-वेदिनाम्। लौकिकाग्निषु पक्वेन
कार्यम् अन्नेन तर्पणम्॥
सच्-चरित्र-रक्षायाम् –
नैव भोक्तव्यम् अन्नाद्यम्
अवैष्णव-निवेदितम्।
नावैष्णवाय दातव्यं
स्वयं विष्णोर् निवेदितम्॥
…