०२ विष्वक्सेन-निर्माल्यम्

विष्वक्सेन-निवेदितम् अन्नं
तत्-परिवारेभ्यो दत्वा
जले प्रक्षिपेद्,
अथवा तद्-गणानुचरो भूत्वा स्वयम् एव भुञ्जीत।
विष्वक्सेनस्याचार्य-परम्परा-भूमित्वाद् आचार्य-प्रसादत्वेन स्वीकार्यम्। +++(5)+++


विष्णु-रहस्ये –

विष्वक्सेनस्य तुर्यांशं
दत्त्वा ऽम्भसि विनिक्षिपेत्


तथा वङ्गीश्वरः –

भुक्तोज्झितैश् च देवेन
गन्ध-पुष्पाम्बरादिभिः।
अर्चयेत् स-परिवारं
स्व-मन्त्रेण चमू-पतिम्॥
तेन भुक्तोज्झितं सर्वं
हविस्-स्रक्-चन्दनादिकम्।
देव-भुक्तोज्झिता चापि
पवित्रं पाप-नाशनम्॥

कस्मैचित् प्रयच्छेत्
तद्-अपात्राय विशेषतः।
अ-पात्रे ददतं मूढं
तद्-भूतानि शपन्ति हि॥

ततस् तद्-भूत-तृप्त्य्-अर्थं
विशुद्धे ऽम्भसि निक्षिपेत्
तद्-गणानुचरो भूत्वा
भुञ्जीत स्वयम् अप्य् अदः॥
तद्-आश्रितानां भूतानां
पाताल-तल-वासिनाम्
स्वेन भुक्तोज्झितं सर्वं
दत्तं तेन महात्मना॥