०२ तद्-विष्णोर् इत्यनेन

एवम् अपि कर्तुम् अशक्तः “तद्-विष्णोर्” इति मन्त्रेण वा षोडशोपचारान् कुर्यात्। तथा व्यासः –

निष्पीड्य स्नान-वस्त्रम् वै द्विराचम्यार्चयेद् धरिम्।
स विष्ण्व् आरधानात् पुण्यं विद्यते कर्म वैदिकम्॥
तस्माद् अनादि-मध्यान्तं नित्यम् आराधयेद् धरिम्।
तद्-विष्णोर् इति मन्त्रेण सूक्तेन पुरुषेण वा॥
नैताभ्यां सदृशो मन्त्रो वेदेषूक्तश् चतुर्ष्व् अपि॥

इति।