०१ पुरुष-सूक्तेन सङ्क्षेपः

एवं सहस्रोपचारैर् भगवद्-आराधनं कर्तुम् अशक्तस्य
सङ्क्षेपेणापि भगवद्-आराधनम् उच्यते,

छन्द-ऋषि-देवताः

अत्र नारदः –

वेदे तु पौरुषं सूक्तम्
अर्चितं गुह्यम् उत्तमम्।
आनुष्टुभस्य सूक्तस्य
छन्दश्च यो ऽधि देवता॥
पुरुषो यो जगद्-बीजम्
ऋषिर् नारायणः स्मृतः।

[[225]]

अत्र विशेषः -

श्रीमत्-पुरुष-सूक्तस्य
श्रीमन्-नारायणो ऋषिः।
छन्दो–ऽनुष्टुप्–पञ्च-दशर्चां
तिसृणां त्रिष्टुब् अन्ततः॥
नारायणो ऽस्य भगवान्
परमात्मा तु देवता॥

भगवच्-छास्त्रे प्रत्य् ऋचम् ऋषि-भेद उक्तः –

बृहस्पतिर् मनुर् दक्ष
शौनको ऽत्रिश् च मुद्गलः।
शातातपो वसिष्ठश् च
याज्ञवल्क्यश् च नारदः॥
गौतमाथ भरद्वाजश्
शुक-गर्गोशनाङ्गिराः।
व्यासः पराशरश् चैव
ऋषयो ऽष्टादश-स्मृताः॥

मत्स्यः कूर्मो वराहाश् च
नारसिंहो ऽथ वामनः।
रामो रामश् च रामश् च
कृष्णः कल्कीति ते दश॥ श्री-वल्लभो हरिश् शौरिर्
अच्युतो धरणी-धरः।
जनार्दनो हृषीकेशो
माधवश् च तथैव च॥
देवा अष्टादश प्रोक्ता
न्यासं वक्ष्ये यथा-क्रमम्॥

न्यासः

नारदः –

प्रथमां विन्यसेद् वामे
द्वितीयां दक्षिणे करे।
तृतीयां वाम-पादे तु
चतुर्थीं दक्षिणे पदे॥
पञ्चमीं वाम-जङ्घायां
दक्षिणस्यां तथोत्तराम्।
सप्तमीं वाम-कट्यां तु
दक्षिणस्यां तथा ऽष्टमीम्॥
नवमीं नाभि-देशे तु
दशमीं हृदि विन्यसेत्।
एकादशीं कण्ठ-देशे
द्वादशीं वाम-बाहुके॥
त्रयोदशीं दक्षिणे तु
तथा ऽऽस्ये तु चतुर्दशीम्।
अक्ष्णोः पञ्चदशीं न्यस्य
न्यसेन् मूर्धनि षोडशीम्॥

इति।

अर्चनम्

अत्र सङ्ग्रहे -

“सहस्र-शीर्षे"त्य् आवाहनम्,
“पुरुष एवेदम्” इत्य् आसनम्,
“एतावान् अस्ये"ति पाद्यम्,
“त्रि-पादोर्ध्व” इत्य् अर्घ्यम्,
“तस्माद् विराड्” इत्य् आचमनीयम्,
“तत्-पुरुषेणे"ति मधु-पर्कम्,
“सप्तास्यासन्” इति स्नानम्,
“तं यज्ञम्” इति वस्त्रम्,
“तस्माद् यज्ञात् सर्व-हुत” इति यज्ञोपवीतम्,
“तस्माद् यज्ञाद्” इति गन्धम्,
“तस्मादश्वा” इति पुष्पम्,
“यत् पुरुषम्” इति धूपम्,
“ब्राह्मणोऽस्ये"ति दीपम्,
“चन्द्रमा” इति नैवैद्यम्,
“नाभ्या आसीद्” इति ताम्बूलम्,
“वेदाहम्” इति पुष्पाञ्जलिः,
“धाता पुरस्ताद्” इति प्रदक्षिणम्,
“यज्ञेन यज्ञम्” इत्य् उद्वासनम्।

[[226]]

नारदः –

स्नान-वस्त्रोपवितेषु
चरेद् आचमनीयकम्।
पुनश् षोडशभिर् मन्त्रैर्
दद्यात् पुष्पाणि षोडश॥
तच् च सर्वं जपेद् भूयः
पौरुषं सूक्तम् उत्तमम्।
ततः प्रदक्षिणं कृत्वा
नारायणम् अनामयम्॥
शङ्ख–चक्र–गदा-पाणिं
नत्वा विष्णुं समापयेत्। षण्-मासात् सिद्धिम् आप्नोति
ह्य् एनम् एव समर्चयन्॥

इति।