…
पूजानन्तरं योग-याज्ञवल्क्यः –
एवं सम्पूज्य देवेशं
क्षणं ध्यात्वा निरञ्जनम्।
ततो ऽवलोकयेद् अर्कं
“हँसश् शुचिषद्” इत्य् ऋचा॥
स याति ब्रह्मणस् स्थानं
स्नात्वेक्षेतानया तु यः॥
…
“हँसश् शुचिषद् वसुर् अन्तरिक्षसद्”
इति मन्त्रेण आदित्यम् अवलोक्य
तीर्थं प्रसादञ् च योग्येभ्यो दत्वा
वह्नि-सन्तर्पणादिकं कृत्वा
अनुयागञ् च कुर्यात्।
[[220]]